53114: आयुधजीविसंघाञ्ञ्यड्वाहीकेष्वब्राह्मणराजन्यात्¶
Padacheda: आयुधजीविसङ्घात् | S | 5 | 1 |
ञ्यट् | S | 1 | 1 |
वाहीकेषु | S | 7 | 3 |
अब्राह्मण-राजन्यात् | S | 5 | 1 |
Sutrartha¶
वाहीकेषु आयुधजीविनाम् सङ्घस्य निर्देशकाः ये शब्दाः, तेभ्यः स्वार्थे ञ्यट् प्रत्ययः भवति । परन्तु ब्राह्मणवाचिभ्यः शब्देभ्यः तथा च ‘राजन्य’ शब्दस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति ।
‘वाहीक’ इति कस्यचन देशस्य नाम । अस्मिन् देशे ये सङ्घाः आयुधजीविनः सन्ति (इत्युक्ते, ते सङ्घाः येषां जनाः शस्त्राणाम् साहाय्येन मृगयादीनि कार्याणि कृत्वा जीविकामर्जयन्ति - people who earn their living using weapons, E.g. by hunting etc) तेषाम् निर्देशार्थमायुधजीविनां सङ्घवाचिभ्यः शब्देभ्यः (यथा - कुण्डिबृस, क्षुद्रक - आदिभ्यः शब्देभ्यः) स्वार्थे ‘ञ्यट्’ प्रत्ययः भवति । कानिचन उदाहरणानि एतानि - 1. कुण्डिबृसः इत्येव = कुण्डिबृस + ञ्यट् → कौण्डिबृस्यः । 2. क्षुद्रकः इत्येव = क्षुद्रक + ञ्यट् → क्षौद्रक्यः । 3. मालवः इत्येव = मालव + ञ्यट् → मालव्यः । विशेषः - समर्थानां प्रथमात् वा (4.1.86) इत्यस्मात् ‘वा’ इत्यस्य अधिकारः अत्र प्रचलति, अतः अनेन सूत्रेण उक्तः ‘ञ्यट्’ प्रत्ययः विकल्पेनैव विधीयते । अतः ‘कुण्डिबृसः’ इत्यपि साधु रूपम्, ‘कौण्डिबृस्यः’ इत्यपि च साधु एव । स्मर्तव्यम् -ञ्यट्-प्रत्ययः टित् अस्ति, अतः तस्मात् स्त्रीत्वे विवक्षिते टिड्ढाणञ्… (4.1.15) इत्यनेन ङीप्-प्रत्ययः भवति । यथा - 1. कुण्डिबृसः इत्येव परिषद् = कुण्डिबृस + ञ्यट् + ङीप् → कौण्डिबृस + य + ई [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → कौण्डिबृस् + य + ई [यस्येति च (6.4.148) इति अकारलोपः] → कौण्डिबृस् + य् + ई [यस्येति च (6.4.148) इति अकारलोपः] → कौण्डिबृस् + ई [हलस्तद्धितस्य (6.4.150) इति यकारलोपः] → कौण्डिबृसी । कुण्डिबृसः सङ्घः इत्यवे कौण्डीबृसी परिषद् । एवमेव - 2. क्षुद्रकः सङ्घः इत्येव = क्षौद्रकी परिषद् । 3. मालवः सङ्घः इत्येव = मालवी परिषद् । अस्मिन् सूत्रे ‘अ-ब्राह्मण-राजन्यात्’ इत्यपि निर्देशः कृतः अस्ति । अस्य अर्थः एतादृशः - अ) ये सङ्घाः ब्राह्मणवाचकाः सन्ति, तेषाम् विषये अयम् ‘ञ्यट्’ प्रत्ययः न विधीयते । यथा - गोपालकः सङघः इत्येव = गोपालकः । आ) ‘राजन्य’ इति वाहिकेषु विद्यमानस्य कस्यचन आयुधजीविनः सङ्घस्य नाम । अस्मात् शब्दात् अपि अयम् प्रत्ययः न भवति । यथा - राजन्यः सङ्घः इत्येव = राजन्यः । अत्र ‘ब्राह्मण’ इति शब्दः ‘ब्राह्मणवाचकः’ इत्यस्मिन् अर्थे स्वीकृतः अस्ति, परन्तु ‘राजन्य’ अयं शब्दः स्वस्य रूपस्य ग्रहणं करोतीति ज्ञेयम् । स्मर्तव्यम् - सूत्रम् दलकृत्य प्रत्येकं पदस्य प्रयोजनम् एतादृशम् - 1) ‘वाहीकेषु’ इति किमर्थम् ? ‘शबर’, ‘पुलिन्द’ एतानि अपि आयुधजीविनां सङ्घानाम् नामानि सन्ति । परन्तु एतानि वाहीकदेशे न विद्यन्ते, अतः एतेषाम् विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । 2) ‘आयुधजीविनः’ इति किमर्थम् ? वाहिकेषु विद्यमानाः ये अन्ये सङ्घाः (=यथा मल्लाः, शयण्डाः) तेषाम् विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । 3) ‘सङ्घ’ इति किमर्थम् ? वाहिकेषु विद्यमानाः आयुधजीविनाम् निर्देशकाः परन्तु सङ्घभिन्नाः शब्दाः (यथा - सम्राट्) एतम् प्रत्ययं न प्राप्नुयुः । विशेषः - अनेन सूत्रेण उक्तस्य ञ्यट्-प्रत्ययस्य ञ्यादयस्तद्राजाः (5.3.119) इत्यनेन ‘तद्राज’ इति संज्ञा भवति ।तद्राजसंज्ञकप्रत्ययानाम् च एकम् वैशिष्ठ्यम् विद्यते - तद्राजस्य बहुषु तेनैवास्त्रियाम् (2.4.62) इत्यनेन सूत्रेण तद्राजसंज्ञकप्रत्ययान्तशब्दानां बहुवचनरूपे तद्राजप्रत्ययस्य लुक् भवति । यथा , ‘कौण्डिबृस्य’ शब्दस्य रूपाणि ‘कौण्डिबृस्यः कौण्डिबृस्यौ कुण्डिबृसाः’ इति भवन्ति । अत्र प्रथमाबहुवचनस्य रूपसिद्धिः एतादृशी जायते - कुण्डिबृस + ञ्यट् + जस् → कुण्डिबृस + जस् [तद्राजस्य बहुषु तेनैवास्त्रियाम् (2.4.62) इति ञ्यट्-प्रत्ययस्य लुक्] → कुण्डिबृसाः । एवमेव - ‘क्षौद्रक्यः, क्षौद्रक्यौ क्षुद्रकाः’ इत्यपि सिद्ध्यति । Note - All of the words shown as examples in this description represent names of the Vaahik tribes.
Vasu English Summary¶
To a name expressing multitude living by the trade of arms, is added the affix ञ्यट् when it is the name among वाहीक but not when it is the name of a ब्राह्मण , nor when the word is राजन्य।
Vasu English Translation¶
To a name expressing multitude living by the trade of arms, is added the affix ञ्यट् when it is the name among वाहीक but not when it is the name of a ब्राह्मण , nor when the word is राजन्य। The anuvritti of अस्त्रियाम् does not govern this sutra. Thus कौण्डीबृस्यः, कौण्डीबृस्यौ pl. कौण्डीबृसाः, fem. कौण्डीबृसी; क्षौद्रक्यः, क्षौद्रकौ, pl. क्षुद्रकाः fem. क्षौद्रकी, मालव्यः, मालव्यौ pl. मालवाः fem. मालवी ॥
Why do we say ‘living by the profession of arms’? Observe, मल्लाः, शयण्डाः ॥ Why do we say ‘a multitude’? Observe सम्राट् ॥ Why do we say ‘amongst the Vahika?’ Observe शबराः, पुलिन्दाः ॥ Why do we say “not a Brahmana or the word-form Rajanya”? Observe गोपालवा ब्राह्मणाः, शालङ्कायना राजन्याः ॥
Kashika¶
आयुधजीविनां संघ आयुधजीविसंघः। स वाहीकैर्विशेष्यते। वाहीकेषु य आयुधजीविसंघः, तद्वाचिनः प्रातिपदिकाद् ब्राह्मणराजन्यवर्जितात् स्वार्थे ञ्यट् प्रत्ययो भवति। ब्राह्मणे तद्विशेषग्रहणम् राजन्ये तु स्वरूपग्रहणमेव। टकारो ङीबर्थः। तेनास्त्रियामिति नानुवर्तते। कौण्डीबृस्यः, कौण्डीबृस्यौ, कौण्डीबृसाः। क्षौद्रक्यः, क्षौद्रक्यौ, क्षुद्रकाः। मालव्यः, मालव्यौ, मालवाः। स्त्रियाम् — कौण्डीबृसी। क्षौद्रकी। मालवी। आयुधजीविग्रहणं किम् ? मल्लाः। शयण्डाः। संघग्रहणं किम् ? सम्राट्। वाहीकेष्विति किम् ? शबराः। पुलिन्दाः। अब्राह्मणराजन्यादिति किम् ? गोपालवा ब्राह्मणाः। शालङ्कायना राजन्याः॥
Siddhanta Kaumudi¶
वाहीकेषु य आयुधजीविसङ्घस्तद्वाचिनः स्वार्थे ल्युट् । क्षौद्रक्यः । मालव्यः । टित्वान्ङीप् । क्षौद्रकी । आयुधेति किम् । शबराः । अब्राह्मणेति किम् । गौपालकाः । शालङ्कायनाः । ब्राह्मणे तद्विशेषग्रहणम् । राजन्ये स्वरूपग्रहणम् ॥
Padamanjari¶
‘दामन्यादित्रिगर्तषष्ठात्’ इति समाहारद्वन्द्वः, दामन्यादेरायुधजीविसङ्घात्रिगर्तषष्ठाच्चायुधजीविसङ्घादित्यन्वयः। त्रिगर्तषष्ठादित्यस्यार्थमाह - येषामिति। अन्तवर्गाःउअन्त्रगणः। ते पुनः के? इत्याहतेषु चाअ स्भृतिरिति। त्रिगर्तषष्ठाः स्मर्यन्तेउज्ञाप्यन्तेऽनयेति स्मृतिः। सा पुनः-आहुस्त्रिगर्तष्षठानित्यादिः श्लोकः। अत्र जानकयस्त्रिगर्तवर्गाः, तेषु च त्रिगर्तषष्ठेतषु, प्रथमपञ्चमौ शिवाद्यणन्तौ, शेषास्तु इञन्ताः। केचितु-अतद्धितान्तमेव पञ्चमं ब्रह्मगुप्तशब्दं पठन्ति ॥
Nyaas¶
वाहीकेषु इति। निर्धारणे (2.3.41) सप्तमी। वाहोकेषु मध्ये य आयुधजीविसङ्घः इति। निधरिम्ञ्च समानजातीयस्यैव भवतत्यायुधजीविसङ्घोऽपि वाहीक एव विज्ञायते। अथ वा - देशवाचिनो वाहोकशब्दादधिकरण एवैषा सप्तमी; वाहिकदेशविशेष आयुधजीविसङ्घो वसतीति।ब्राआहृणे तद्विशेषग्रहणम् इति। अथ स्वरूपग्रहणं कस्मान्न भवति? अत एव प्रतिषेधात्। यदि स्वरूपग्रहणं स्यात्, ब्राआहृणप्रतिषेधोऽनर्थकः स्यात्। प्राप्तिपूर्वको हि प्रतिषेधो भवति। ब्राआहृणशब्द आयुधजीविसङ्घो वाहीकेषु न विद्यत इति किं ब्राआहृणप्रतिषेधेन! ब्राआहृणविशेषवाचितस्तु ये गोपालप्रभृतयः शब्दास्तद्वाच्या आयुध जीविङ्घा वाहीकेषु भवन्ति; तत्र यदि प्रतिषेधो न क्रियेत, तदा तेभ्योऽपि स्यात्। अतस्तन्निवृत्त्यर्थोऽर्थवान्? विशेषग्रहणे प्रतिषेधो भवति। तस्मात् - ब्राआहृणे तद्विशेषग्रहणम्, राजन्ये तु स्वरूपाग्रहणमेव इति। तद्वाच्यस्यायुधजीविसङ्घस्य वाहीकेषु सत्त्वात्; स्व रूपं शब्दस्याशब्दसंज्ञा इति वचनाच्च। तेन इत्यादि। यस्माद्? ङीबर्थोत्र टकारः कृतस्तेन अस्त्रियाम् (5.3.113) इति नानुवर्तते। तदनुवृत्तौ ञ्यट्प्रत्ययान्तं स्त्रियां न भवतीति ङीबर्थं टित्करणनर्थकं स्यात्। तस्मादस्त्रियामिति निवृत्तम्, अतः स्त्रियामपि भवति। कौण्डीबृसी क्षौद्रकी इति। हलस्तद्धितस्य (6.4.150) इति यकारलोपः॥
Prakriyasarvasvam¶
वाहिकगतायुधजीविद्वेभ्यः स्वार्थे ञ्यट् स्यात् । मालव्यः मालव्यौ मालवाः । टित्वान्मालवी । ब्राह्मणवाचिभ्यो राजन्यशब्दाच्च न । शालङ्कायनः । राजन्यः । राजन्यस्य ञ्यटि रूपभेदाभावेऽपि स्त्रियां ङीप् स्यादिति तन्निषेधः ॥