53113: व्रातच्फञोरस्त्रियाम्

Padacheda: व्रात-च्फञोः | S | 6 | 2 |

अस्त्रियाम् | S | 7 | 1 |

Sutrartha

व्रातवाचिभ्यः शब्देभ्यः तथा च्फञ्-प्रत्ययान्तशब्देभ्यः स्वार्थे ञ्य-प्रत्ययः भवति । परन्तु तद्धितान्तशब्दः स्त्रीलिङ्गे प्रयुज्यते चेत् अयम् प्रत्ययः न विधीयते ।

व्रातवाचिनः शब्दाः, तथा च च्फञ्-प्रत्ययान्तशब्दाः यदा स्त्रीत्वं न द्योतयन्ति तदा तेभ्यः स्वार्थे ‘ञ्य’ इति प्रत्ययः विधीयते । क्रमेण पश्यामः - 1. ‘व्रात’ इति कश्चन शब्दः । ये जनाः शरीरपरिश्रमेण जीविकाम् प्राप्नुवन्ति, तेषाम् सङ्घः ‘व्रातः’ नाम्ना ज्ञायते । People who primarily do laborious work for earning the living - इत्याशयः । यथा - कपोतपाक, व्रीहिमत् - आदीनि भिन्नानां व्रातानां नामानि सन्ति । एतादृशेभ्यः व्रातवाचिभ्यः शब्देभ्यः स्वार्थे ञ्य-प्रत्ययः भवति । यथा - [अ] कपोतपाकः व्रातः इत्येव = कपोतपाक + ञ्य → कापोतपाक्यः । [आ] व्रीहिमान् व्रातः इत्येव = व्रीहिमत् + ञ्य → व्रैहिमत्यः । स्मर्तव्यम् - समर्थानां प्रथमात् वा (4.1.86) इत्यस्मात् ‘वा’ इत्यस्य अधिकारः अत्र प्रचलति, अतः अनेन सूत्रेण उक्तः ‘ञ्य’ प्रत्ययः विकल्पेनैव विधीयते । अतः ‘कपोतपाकः’ इत्यपि साधु रूपम्, ‘कापोतपाक्यः’ इत्यपि च साधु एव । 2. ‘च्फञ्’ इति कश्चन तद्धितप्रत्ययः । गोत्रे कुञ्जादिभ्यः च्फञ् (4.1.98) इत्यनेन कुञ्जादिगणस्य शब्देभ्यः गोत्रापत्यस्य निर्देशार्थम् च्फञ्-प्रत्ययः विधीयते । अस्मात् च्फञ्-प्रत्ययान्तशब्दात् नित्यम् स्वार्थे ञ्य-प्रत्ययः वर्तमानसूत्रेण दीयते । यथा - कुञ्जस्य गोत्रापत्यम् = कुञ्ज + च्फञ् + ञ्य → कौञ्जायन्यः । प्रक्रिया इयम् - कुञ्ज + च्फञ् + ञ्य → कुञ्ज + आयन + य [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति आयन-आदेशः] → कौञ्ज + आयन + य [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → कौञ्ज् + आयन + य [यस्येति च (6.4.148) इति अकारलोपः] → कौञ्जायन् + य [यस्येति च (6.4.148) इति अकारलोपः] → कौञ्जायन्य एवमेव - ब्रध्नस्य गोत्रापत्यम् ब्राध्नायन्यः । विशेषः - यद्यपि समर्थानां प्रथमात् वा (4.1.86) इत्यस्मात् ‘वा’ इत्यस्य अधिकारः अत्र प्रचलति, तथापि च्फञ्-प्रत्ययान्तशब्दात् ञ्य-प्रत्ययः नित्यम् विधीयते, विकल्पेन न । अस्मिन् सूत्रे ‘अस्त्रियाम्’ इति उच्यते, यतः स्त्रीलिङ्गे ये तद्धितान्तशब्दाः प्रयुज्यन्ते, तेषां विषये अयम् प्रत्ययः न भवति । यथा - 1) कपोतपाकः व्रातः इत्येव = कपोतपाका परिषद् । अत्र स्त्रीत्वे विवक्षिते अजाद्यतष्टाप् (4.1.4) इति टाप्-प्रत्यये कर्तव्ये ञ्य-प्रत्ययः न भवति । 2) कुञ्जस्य गोत्रापत्यम् स्त्री = कुञ्जायन + च्फञ् + ङीष् → कौञ्जायनी । अत्र जातेरस्त्रीविषयादयोपधात् (4.1.63) इत्यनेन ङीष्-प्रत्यये कर्त्तव्ये च्फञ्-प्रत्ययात् अनन्तरम् ञ्य-प्रत्ययः न भवति । विशेषः - अनेन सूत्रेण उक्तस्य ञ्य-प्रत्ययस्य ञ्यादयस्तद्राजाः (5.3.119) इत्यनेन ‘तद्राजसंज्ञा’ भवति ।तद्राजसंज्ञकप्रत्ययानाम् च एकम् वैशिष्ठ्यम् विद्यते - तद्राजस्य बहुषु तेनैवास्त्रियाम् (2.4.62) इत्यनेन सूत्रेण तद्राजसंज्ञकप्रत्ययान्तशब्दानां बहुवचनरूपे तद्राजप्रत्ययस्य लुक् भवति । यथा , ‘कौञ्जायन्य’ शब्दस्य रूपाणि ‘कौञ्जाजन्यः कौञ्जायन्योः कौञ्जायनाः ‘ इति भवन्ति । अत्र प्रथमाबहुवचनस्य रूपसिद्धिः एतादृशी जायते - कुञ्जायन + च्फञ् + ञ्य + जस् → कुञ्जायन + च्फञ् + जस् [तद्राजस्य बहुषु तेनैवास्त्रियाम् (2.4.62) इति ञ्य-प्रत्ययस्य लुक्] → कौञ्जायनाः । एवमेव - ‘कापोतपाक्यः, कापोतपाक्यौ कापोतपाकाः’ इत्यपि सिद्ध्यति ।

Vasu English Summary

The affix ञ्य comes after the name of a wild band after a word ending in च्फाञ् – गोत्रे कुञ्जादिभ्यश्च्फञ् (4.1.98), without change of sense, but not in the feminine.

Vasu English Translation

The affix ञ्य comes after the name of a wild band after a word ending in च्फाञ् – गोत्रे कुञ्जादिभ्यश्च्फञ् (4.1.98), without change of sense, but not in the feminine. A collection of persons of different castes, having no determined livelihood, and living by violence are called व्रात or ‘wild band’. Thus कपोतपाक्यः ‘a wild band living of pigeons’, कपोतपाक्यौ and कपोतपाकाः, व्रैहिमत्यः, व्रैहिमत्यौ, pl. व्रीहिमताः ॥ So with words ending in च्पञ्, as कौञ्जायन्यः, कौञ्जायन्यौ, pl. कौञ्जायनाः, ब्राध्नायन्यः ब्राध्नायन्यौ pl. ब्राध्नायनाः ॥

Why do we say “not in the Feminine ?” Observe कपोतपाकी, व्रीहिमती, कौञ्जायनी, ब्राध्नायनी ॥

Kashika

नानाजातीया अनियतवृत्तय उत्सेधजीविनः संघ व्राताः। व्रातवाचिभ्यः प्रातिपदिकेभ्यः च्फञन्तेभ्यः च स्वार्थे ञ्यः प्रत्ययो भवत्यस्त्रियाम्। कापोतपाक्यः, कापोतपाक्यौ, कपोतपाकाः। व्रैहिमत्यः, व्रैहिमत्यौ, व्रीहिमन्तः। च्फञः खल्वपि — कौञ्जायन्यः, कौञ्जायन्यौ, कौञ्जायनाः। ब्राध्नायन्यः ब्राध्नायन्यौ, ब्राध्नायनाः। अस्त्रियामिति किम्? कपोतपाकी। व्रीहिमती। कौञ्जायनी। ब्राध्नायनी ॥

Siddhanta Kaumudi

व्रातवाचिभ्यश्च्फञन्तेभ्यश्च स्वार्थे ञ्यः स्यान्न तु स्त्रियाम् । कौञ्जायन्यः । बहुत्वे तद्राजत्वाल्लुग्वक्ष्यते । ब्राध्नायन्यः । स्त्रियां कौञ्जायनी, गोत्रत्वेन जातित्वान्ङिष् । अनन्तरापत्ये- कौञ्जिः ॥

Balamanorama

व्रातच्फञोरस्त्रियाम् - आयुधजीवि । बाहीकेष्विति । बाहीकाख्यग्रामविशेषेष्वित्यर्थः । क्षौद्रक्य इति । क्षुद्रको नाम कश्चिदायुधजीविनां बाहीक देशवासिनां सङ्घः । स एव क्षौद्रक्यः । मालव्य इति । मालवो नाम कश्चिद्वाहीकेषु आयुधजीविनांसङ्घः । स एव मालव्यः । टित्त्वान्ङीबिति । एवं च अस्त्रियामिति नात्र सम्बध्यत इति भावः । तद्विशेषेति । व्याख्यानादिति भावः ।

Tattvabodhini

व्रातच्फञोरस्त्रियाम् - ब्राआतच्फञो ।पूगाञ्ञ्योऽग्रामणी॑त्यतोऽनुवर्तनादाह -ञ्यः स्यादिति । व्रातवाचिभ्यःकापोतपाक्यः॑इत्युदाहरिष्यति । अस्त्रियां किम् । कपोतपाका स्त्री । तद्राजत्वादिति ।ञ्यादयस्तद्राजाः॑इति सूत्रेणे॑ति शेषः । लुग्वक्ष्यत इति ।तद्राजस्य बहुषु॑इत्यनेने॑ति शेषः । कौञ्जायानीति । इह सति ञ्याप्रत्यये योपधत्वात्जातेः॑इति ङीषबावे चापि रूपे स्वरे च विशेषो बोध्या इत्याहुः ।

Padamanjari

उत्सेधजीवित्वं व्रातस्य पूगाद्विशेषः। कौञ्जायनीति।’गोत्रे कुञ्जादिभ्यश्च्फञ्’ ,’गोत्रं च चरणैः सह’ इति जातित्वान्ङीष् ॥

Nyaas

आयुधजीवि। बाहीकेष्विति। बाहीकाख्यग्रामविशेषेष्वित्यर्थः। क्षौद्रक्य इति। क्षुद्रको नाम कश्चिदायुधजीविनां बाहीक देशवासिनां सङ्घः। स एव क्षौद्रक्यः। मालव्य इति। मालवो नाम कश्चिद्वाहीकेषु आयुधजीविनांसङ्घः। स एव मालव्यः। टित्त्वान्ङीबिति। एवं च अस्त्रियामिति नात्र सम्बध्यत इति भावः। तद्विशेषेति। व्याख्यानादिति भावः।

Prakriyasarvasvam

भारादिजीविनः सङ्घा व्राताः । तद्वाचिभ्यः च्फञन्तेभ्यश्च स्वार्थेऽस्त्रियां ञ्यः स्यात् । कौञ्जायन्यः व्राध्नायन्यः । स्त्रियां तु कौञ्जायनीत्येव । अपत्यप्रत्यया- न्तानां जातित्वाद् जातिङीषयम् ।। अत्र च्फञौ ञ्यः पूर्वमुक्तः । व्रातात्तु त्रैहिमत्यः त्रैहिमत्यौ व्रीहिमताः । स्त्रियां तु ञ्यो न । व्रीहिमता ॥