53111: प्रत्नपूर्वविश्वेमात्थाल् छन्दसि¶
Padacheda: प्रत्न-पूर्व-विश्व-इमात् | S | 5 | 1 |
थाल् | S | 1 | 1 |
छन्दसि | S | 7 | 1 |
Sutrartha¶
प्रत्न, पूर्व, विश्व, इम - एतेभ्यः शब्देभ्यः ‘इव’ इति सन्दर्भे स्वार्थे वेदेषु ‘थाल्’ प्रत्ययः कृतः दृश्यते ।
प्रत्न (old), पूर्व (earlier), विश्व (world) , इम (this) - एतेभ्यः शब्देभ्यः ‘इव’ अस्मिन् सन्दर्भे स्वार्थे वेदेषु ‘थाल्’ प्रत्ययः कृतः दृश्यते । यथा - ऋग्वेदे 5.44.1 - तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्ये॒ष्ठता॑तिं बर्हि॒षदं॑ स्व॒र्विद॑म् । अत्र ‘प्रत्न + थाल् → प्रत्नथा’ , ‘पूर्व + थाल् → पूर्वथा’, ‘विश्व + थाल् → विश्वथा’, ‘इम + थाल् → इमथा’ एते शब्दाः प्रयुक्ताः सन्ति ।
Vasu English Summary¶
In the छन्दस् (Vedas), the affix थाल् comes in the sense of ‘like this’ after 1. प्रत्न 2. पूर्व 3. विश्व and 4. इम (इदम्).
Vasu English Translation¶
In the छन्दस् (Vedas), the affix थाल् comes in the sense of ‘like this’ after 1. प्रत्न 2. पूर्व 3. विश्व and 4. इम (इदम्). Thus:-
तं प्र॒त्नथा॑ पूर्वथा॑ विश्वथेमथा॑ ज्येष्ठताति॑ बर्हिष॑दं स्व॒र्विदं ॥
(Rig Veda V. 44.1). ‘Him (Indra), as the ancients, as the predecessors, as all creatures, and as these living men have worshipped &c’.
Kashika¶
प्रत्न पूर्व विश्व इम इत्येतेभ्य इवार्थे थाल् प्रत्ययो भवति छन्दसि विषये। तं प्॒रत्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ (ऋ० ५.४४.१)॥
Siddhanta Kaumudi¶
इवार्थे । तं प्रत्नथा पूर्वथा विश्वथेमथा (तं प्र॒त्नथा॑ पूर्वथा॑ वि॒श्वथे॒मथा॑) ॥
Padamanjari¶
इम शब्द इदमा समानार्थः प्रकृत्यन्तरम् ॥
Prakriyasarvasvam¶
एभ्य इवार्थे थाल् स्यात् । तं प्रत्नथा पूर्वथा विश्वथेमथा इमशब्दः इदमर्थः । प्रकृत्यन्तरमिति हरः ।