53082: अजिनान्तस्योत्तरपदलोपश्च

Padacheda: अजिन-अन्तस्य | S | 6 | 1 |

उत्तरपदलोपः | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha

अनुकम्पायाम् गम्यमानायामनुकम्पायाः यत् कर्मपदम्, सः शब्दः यदि मनुष्यस्य नाम्नः निर्देशं करोति, तथा च तस्य शब्दस्य उत्तरपदम् ‘अजिन’ इति विद्यते, तर्हि तस्मात् शब्दात् स्वार्थे कन्-प्रत्ययः भवति, तथा च तस्य शब्दस्य उत्तरपदस्य लोपः विधीयते ।

अनुकम्पायाम् (5.3.76) इत्यनेन सूत्रेण अनुकम्पायाम् गम्यमानायाम् तस्य कर्मपदात् प्रातिपदिकात् स्वार्थे ‘क’ प्रत्ययविधानम् भवति । यदि एतत् प्रातिपदिकम् मनुष्यस्य नाम्नः निर्देशं करोति, तथा च तस्य उत्तरपदम् ‘अजिन’ इति विद्यते, तर्हि तस्मात् शब्दात् स्वार्थे औत्सर्गिकं क-प्रत्ययम् (अन्यान् वा यथाप्राप्तान् प्रत्ययान्) बाधित्वा ‘कन्’ इति प्रत्ययः विधीयते । यथा - ‘व्याघ्राजिन’ नामा कश्चन मनुष्यः अस्तीति चिन्तयामः । कश्चन देवदत्तः एतम् ‘व्याघ्राजिनम्’ प्रति अनुकम्पां दर्शयति - इत्यपि चिन्तयामः । अस्यां स्थितौ ‘व्याघ्राजिन’ शब्दात् वर्तमानसूत्रेण ‘कन्’ प्रत्ययः भवति, तथा च प्रक्रियायाम् ‘व्याघ्राजिन’ इत्यत्र विद्यमानस्य ‘अजिन’शब्दस्य लोपः भवति । यथा - व्याघ्राजिन + कन् → व्याघ्र + क → व्याघ्रक अनुकम्पितः व्याघ्राजिनः सः व्याघ्रकः । एवमेव ‘अनुकम्पितः व्याघ्रमहाजिनः’ सः अपि व्याघ्रकः । अत्र ‘व्याघ्रमहाजिन’ शब्दस्य उत्तरपदम् (= महाजिन) इत्यस्य लोपं कृत्वा रूपं सिद्ध्यति ।

Vasu English Summary

The affix कन् comes in the sense of compassion, after a man-name ending in अजिन and this second member is elided before the affix.

Vasu English Translation

The affix कन् comes in the sense of compassion, after a man-name ending in अजिन and this second member is elided before the affix. The words कन् and मनुष्यनाम्नः are understood in this sutra. Thus व्याघ्रकः from व्याघ्राजिनः, and सिंहकः from सिंहाजिनः ॥ Vyaghrajina and Sinhajina are names of men.

Kashika

कनित्यनुवर्तते, मनुष्यनाम्न इति च। अजिनशब्दान्तात् प्रातिपदिकाद् मनुष्यनाम्नोऽनुकम्पायां कन् प्रत्ययो भवति, तस्य चोत्तरपदलोपः। व्याघ्राजिनो नाम कश्चिद् मनुष्यः, सोऽनुकम्पितो व्याघ्रकः। सिंहकः॥

Siddhanta Kaumudi

अजिनान्तान्मनुष्यनाम्नोऽनुकम्पायां कन् तस्य चोत्तरपदलोपः । अनुकम्पितो व्याघ्राजिनो व्याघ्रकः । सिंहकः ॥

Balamanorama

अजिनान्तस्योत्तरपदलोपश्च - अजिनान्तस्य । व्याघ्रक इति । ‘व्याघ्राजिन’ इति कस्यचिन्मनुष्यस्य नाम । तस्मात्कनि अजिनकस्य लोपः । सिंहक इति । सिंहाजिनशब्दात्कनि अजिनस्य लोपः ।

Padamanjari

व्याघ्राजिनो नाम कश्चिदिति। व्याघ्रस्येवाजिनमस्येति कृत्वा। ठजिनलोपश्चऽ इत्युच्यमाने महदजिनं महाजिनम्, व्याघ्रस्येव महाजिनमस्य व्याघ्रमहाजिनः, सोऽनुकम्पित व्याघ्रक इत्यत्र महच्छब्दस्य लोपो न स्यात्; तस्मादुतरपदग्रहणम्। लोपश्चायं सर्वापहारी; उतरपदग्रहणात् ॥

Nyaas

व्याघ्राजिनो नाम कश्चित् इति। व्याघ्रस्याजिनम्, व्याघ्राजिनमिवाजिनं यस्येति व्याघ्राजिनः। सप्तम्युपमानपूर्वस्य बहुव्रीहिरुत्तरपदलोपश्च (वा। 99) इति बहुव्रीहावुत्तरपदलोपे कृते व्याघ्राजिन इत्येष शब्दः सम्पद्यते। अथाजिनलोपश्चेत्येवं कस्मान्नोक्तम्, किमुत्तरपदग्रहणेन? नैवं शक्यम्; व्याघ्रमहाजिनौ नामकश्चित्, सोऽनुकम्पितः - व्माघ्रक इत्यत्राजिनशब्दस्य लोप उच्यमाने महच्छब्दस्य निवृत्तिर्न स्यात्। उत्तरपदस्यतु लोपे विधीयमाने भवति। तस्माद्यथान्यासमेवास्तु। महदजिनं महाजिनम्, व्याघ्रस्य महाजिनमिव महाजिनमस्येति पूर्ववदुत्तरपदलोपी बहुव्रीहिः, ततः कन्॥

Prakriyasarvasvam

अजिनान्तस्य नृनाम्न उक्तेऽर्थे कन् उत्तरपदलोपश्च स्यात् । अनुकम्पितो व्याघ्राजिनो व्याघ्रकः ।