53082: अजिनान्तस्योत्तरपदलोपश्च =============================== **Padacheda:** अजिन-अन्तस्य | S | 6 | 1 | उत्तरपदलोपः | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **अनुकम्पायाम् गम्यमानायामनुकम्पायाः यत् कर्मपदम्, सः शब्दः यदि मनुष्यस्य नाम्नः निर्देशं करोति, तथा च तस्य शब्दस्य उत्तरपदम् 'अजिन' इति विद्यते, तर्हि तस्मात् शब्दात् स्वार्थे कन्-प्रत्ययः भवति, तथा च तस्य शब्दस्य उत्तरपदस्य लोपः विधीयते ।** **अनुकम्पायाम्** (5.3.76) इत्यनेन सूत्रेण अनुकम्पायाम् गम्यमानायाम् तस्य कर्मपदात् प्रातिपदिकात् स्वार्थे 'क' प्रत्ययविधानम् भवति । यदि एतत् प्रातिपदिकम् मनुष्यस्य नाम्नः निर्देशं करोति, तथा च तस्य उत्तरपदम् 'अजिन' इति विद्यते, तर्हि तस्मात् शब्दात् स्वार्थे औत्सर्गिकं क-प्रत्ययम् (अन्यान् वा यथाप्राप्तान् प्रत्ययान्) बाधित्वा 'कन्' इति प्रत्ययः विधीयते । यथा - 'व्याघ्राजिन' नामा कश्चन मनुष्यः अस्तीति चिन्तयामः । कश्चन देवदत्तः एतम् 'व्याघ्राजिनम्' प्रति अनुकम्पां दर्शयति - इत्यपि चिन्तयामः । अस्यां स्थितौ 'व्याघ्राजिन' शब्दात् वर्तमानसूत्रेण 'कन्' प्रत्ययः भवति, तथा च प्रक्रियायाम् 'व्याघ्राजिन' इत्यत्र विद्यमानस्य 'अजिन'शब्दस्य लोपः भवति । यथा - व्याघ्राजिन + कन् → व्याघ्र + क → व्याघ्रक अनुकम्पितः व्याघ्राजिनः सः व्याघ्रकः । एवमेव 'अनुकम्पितः व्याघ्रमहाजिनः' सः अपि व्याघ्रकः । अत्र 'व्याघ्रमहाजिन' शब्दस्य उत्तरपदम् (= महाजिन) इत्यस्य लोपं कृत्वा रूपं सिद्ध्यति । Vasu English Summary -------------------- The affix कन् comes in the sense of compassion, after a man-name ending in अजिन and this second member is elided before the affix. Vasu English Translation ------------------------ The affix कन् comes in the sense of compassion, after a man-name ending in अजिन and this second member is elided before the affix. The words कन् and मनुष्यनाम्नः are understood in this *sutra*. Thus व्याघ्रकः from व्याघ्राजिनः, and सिंहकः from सिंहाजिनः ॥ *Vyaghrajina* and *Sinhajina* are names of men. Kashika ------- कनित्यनुवर्तते, मनुष्यनाम्न इति च। अजिनशब्दान्तात् प्रातिपदिकाद् मनुष्यनाम्नोऽनुकम्पायां कन् प्रत्ययो भवति, तस्य चोत्तरपदलोपः। व्याघ्राजिनो नाम कश्चिद् मनुष्यः, सोऽनुकम्पितो व्याघ्रकः। सिंहकः॥ Siddhanta Kaumudi ----------------- अजिनान्तान्मनुष्यनाम्नोऽनुकम्पायां कन् तस्य चोत्तरपदलोपः । अनुकम्पितो व्याघ्राजिनो व्याघ्रकः । सिंहकः ॥ Balamanorama ------------ **अजिनान्तस्योत्तरपदलोपश्च** - अजिनान्तस्य । व्याघ्रक इति । 'व्याघ्राजिन' इति कस्यचिन्मनुष्यस्य नाम । तस्मात्कनि अजिनकस्य लोपः । सिंहक इति । सिंहाजिनशब्दात्कनि अजिनस्य लोपः । Padamanjari ----------- व्याघ्राजिनो नाम कश्चिदिति। व्याघ्रस्येवाजिनमस्येति कृत्वा। ठजिनलोपश्चऽ इत्युच्यमाने महदजिनं महाजिनम्, व्याघ्रस्येव महाजिनमस्य व्याघ्रमहाजिनः, सोऽनुकम्पित व्याघ्रक इत्यत्र महच्छब्दस्य लोपो न स्यात्; तस्मादुतरपदग्रहणम्। लोपश्चायं सर्वापहारी; उतरपदग्रहणात् ॥ Nyaas ----- `व्याघ्राजिनो नाम कश्चित्` इति। व्याघ्रस्याजिनम्, व्याघ्राजिनमिवाजिनं यस्येति व्याघ्राजिनः। `सप्तम्युपमानपूर्वस्य बहुव्रीहिरुत्तरपदलोपश्च` (वा। 99) इति बहुव्रीहावुत्तरपदलोपे कृते व्याघ्राजिन इत्येष शब्दः सम्पद्यते। अथाजिनलोपश्चेत्येवं कस्मान्नोक्तम्, किमुत्तरपदग्रहणेन? नैवं शक्यम्; व्याघ्रमहाजिनौ नामकश्चित्, सोऽनुकम्पितः - व्माघ्रक इत्यत्राजिनशब्दस्य लोप उच्यमाने महच्छब्दस्य निवृत्तिर्न स्यात्। उत्तरपदस्यतु लोपे विधीयमाने भवति। तस्माद्यथान्यासमेवास्तु। महदजिनं महाजिनम्, व्याघ्रस्य महाजिनमिव महाजिनमस्येति पूर्ववदुत्तरपदलोपी बहुव्रीहिः, ततः कन्॥ Prakriyasarvasvam ----------------- अजिनान्तस्य नृनाम्न उक्तेऽर्थे कन् उत्तरपदलोपश्च स्यात् । अनुकम्पितो व्याघ्राजिनो व्याघ्रकः ।