53080: प्राचामुपादेरडज्वुचौ च¶
Padacheda: प्राचाम् | S | 6 | 3 |
उपादेः | S | 5 | 1 |
अडच्-वुचौ | S | 1 | 2 |
च | S | 0 | 0 |
Sutrartha¶
अनुकम्पायाम् गम्यमानायामनुकम्पायाः कर्मपदम्, तथा च नीतिपूर्वक-अनुकम्पायाम् गम्यमानायामनुकम्पायाः साधनम् - एतेषु किञ्चन यदि मनुष्यस्य ‘उप’ इत्यनेन प्रारभ्यमाणम् नाम तथा च बह्वच् अस्ति, तर्हि तस्मात् स्वार्थे प्राचाम् वैयाकरणानाम् मतेन विकल्पेन ‘अडच्’ तथा ‘वुच्’ प्रत्ययौ भवतः ।
अनुकम्पायाम् (5.3.76) इत्यनेन सूत्रेण अनुकम्पायाम् गम्यमानायाम् तस्य कर्मपदात् प्रातिपदिकात् स्वार्थे ‘क’ प्रत्ययविधानम् भवति । नीतौ च तद्युक्तात् (5.3.77) इत्यनेन अनुकम्पायाम् गम्यमानायाम् ‘नीतिमनुसृत्य प्रयुक्तम् यत् साधनम्’, तस्मात् स्वार्थे ‘क’प्रत्ययः विधीयते । यदि उभयत्र विहितम् प्रातिपदिकम् बह्वच् अस्ति (इत्युक्ते तस्मिन् प्रातिपदिके त्रयः वा अधिकाः स्वराः सन्ति), तथा च तेन प्रातिपदिकेन मनुष्यस्य नाम्नः निर्देशः क्रियते, तर्हि तस्मात् प्रातिपदिकात् एतयोः द्वयोः एव सन्दर्भयोः बह्वचो मनुष्यनाम्नष्ठज्वा (5.3.78) इत्यनेन ठच्-प्रत्ययः , तथा च घनिलचौ च (5.3.79) इत्यनेन ‘घन्’ तथा ‘इलच्’ प्रत्ययौ - एते सर्वे विकल्पेन विधीयन्ते । अस्मिन्नेव सन्दर्भे यदि प्रकृतिः (= मनुष्यस्य बह्वच् नाम) ‘उप’ इत्यनेन प्रारभ्यते, तर्हि तस्मात् स्वार्थे ‘अडच्’ तथा ‘वुच्’ एतौ द्वौ प्रत्ययौ वर्तमानसूत्रेण विधीयेते । उदाहरणद्वयम् पश्यामः - 1. कश्चन देवदत्तः उपेन्द्रदत्तम् प्रति अनुकम्पां प्रदर्शयति - इति चिन्तयामः । अत्र अनुकम्पायाः कर्मपदम् ‘उपेन्द्रदत्त’ इति अस्ति । अत्र ‘उपेन्द्रदत्त’ इति मनुष्यस्य नाम अस्ति, अस्य प्रारम्भः ‘उप’ इत्यनेन भवति, तथा च अस्मिन् शब्दे पञ्च स्वराः विद्यन्ते, अतः अयम् ‘बह्वच्’ शब्दः अपि अस्ति । अतः अस्मात् शब्दात् वर्तमानसूत्रेण स्वार्थे ‘अडच्’ तथा ‘वुच्’ एतौ प्रत्ययौ भवतः । प्रक्रिया इयम् - उपेन्द्रदत्त + अडच् / वुच् → उपेन्द्रदत्त + अडच् + अक [इत्संज्ञालोपः । युवोरनाकौ (7.1.1) इति ‘वु’ इत्यस्य ‘अक’ आदेशः ।] → उप + अडच् / अक [ठाजादावूर्ध्वं द्वितीयादचः (5.3.83) इत्यनेन अजादिप्रत्यये परे अङ्गे विद्यमानात् द्वितीयात् अच्-वर्णात् अग्रे विद्यमानस्य खण्डस्य लोपः भवति । अत्र यद्यपि द्वितीयः अच्-वर्णः ‘ए’ इति अस्ति, तथापि इदम् सन्ध्यक्षरमस्ति, अतः ठाजादावूर्ध्वं द्वितीयादचः (5.3.83) इत्यत्र पाठितेन <!द्वितीयं संध्यक्षरं चेत्तदादेर्लोपो वक्तव्यः!> अनेन वार्त्तिकेन तस्य छेदं कृत्वा ‘अ + इ’ इति प्राप्ते ‘अ’ इत्येव द्वितीयं स्वरं मत्त्वा तस्मात् अग्रे विद्यमानस्य खण्डस्य लोपः क्रियते । अस्मिन् विषये नागेशेन कश्चन अन्यः पक्षः लघुशब्देन्दुशेखरे उक्तः अस्ति, जिज्ञासुभिः सोऽपि द्रष्टव्यः] → उप् + अड / अक [यस्येति च (6.4.148) इति अकारलोपः] → उपड / उपक 2. कश्चन देवदत्तः यज्ञदत्तं प्रति अनुकम्पां दर्शयित्वा तस्मै ‘उपेन्द्रदत्तः’ नाम कश्चन दासः (servant) ददाति - इति चिन्तयामः । अत्र अनुकम्पायाः साधनम् ‘उपेन्द्रदत्तः’ इति मनुष्यः अस्ति । अत्रापि पूर्ववदेव प्रकियां कृत्वा ‘उपड’ तथा ‘उपक’ एतौ शब्दौ सिद्ध्यतः । अनुकम्पायाः साधनम् यः उपेन्द्रदत्तः , सः उपडः उपकः वा - इति आशयः । ज्ञातव्यम् - अनेन सूत्रेण उक्तौ प्रत्ययौ विकल्पेन भवतः । पक्षे - [अ] बह्वचो मनुष्यनाम्नष्ठज्वा (5.3.78) इत्यनेन वैकल्पिकं ठच्-प्रत्ययं कृत्वा ‘उपिक’ इति शब्दः सिद्ध्यति । [आ] घनिलचौ च (5.3.79) इत्यनेन वैकल्पिकं घन्/ इलच् प्रत्ययौ कृत्वा ‘उपिय’ / ‘उपिल’ एतौ शब्दौ अपि भवतः । [इ] औत्सर्गिकम् क-प्रत्ययं संस्थाप्य ‘उपेन्द्रदत्तक’ इति अपि शब्दः सिद्ध्यति । अनेन प्रकारेण ‘अनुकम्पितः उपेन्द्रदत्तः’ उत ‘अनुकम्पायाः साधनमुपेन्द्रदत्तः’ एतेषु सन्दर्भेषु ‘उपड / उपक / उपिक / उपिय / उपिल / उपेन्द्रदत्तक’ एते षट् शब्दाः सिद्ध्यन्ति । विशेषः - अस्मिन् सूत्रे ‘प्राचाम्’ इत्यनेन कृतः ‘पूर्वदिशि विद्यमानानाम् वैयाकरणानाम् निर्देशः’ पूजार्थम् / आदरार्थमस्ति । पूर्वसूत्रात् अत्र ‘वा’ इत्यनुवर्तते, अतः अत्र ‘प्राचाम्’ इत्यस्य पदस्य प्रयोगः आचार्येण विकल्पार्थम् नैव कृतः अस्ति ।
Vasu English Summary¶
According to the opinion of Eastern Grammarians the affixes अडच् and वुच् also come after a human name beginning with the word उप।
Vasu English Translation¶
According to the opinion of Eastern Grammarians the affixes अडच् and वुच् also come after a human name beginning with the word उप। The च shows that the former affixes also come. The sense of the affixes are the same as above viz. compassion or courtesy. Thus from the word उपेन्द्रदत्त, we have, 1. उपेन्द्रदत्तकः (kan), उपिकः (thach), 3, उपिलः (ilach), 4. उपियः (ghan), 5. उपकः (vuch), 6. उपडः (adach). The shortened forms are by (5.3.83). In diminutives, the forms are generally shortened. The word प्राचां is used as a sign of respect (pujartha), for the word वा was understood in the aphorism by anuvritti from (5.3.78).
Kashika¶
पूर्ववत् सर्वमनुवर्तते। उपशब्द आदिर्यस्य तस्मादुपादेः प्रातिपदिकाद् बह्वचो मनुष्यनाम्नोऽडज्वुच्प्रत्ययौ भवतः। चकाराद् घनिलचौ प्रत्ययौ भवतः, ठच् च वा। उपडः। उपकः। उपियः। उपिलः। उपिकः। उपेन्द्रदत्तकः। प्राचांग्रहणं पूजार्थम्। वेत्येव हि वर्तते॥
Siddhanta Kaumudi¶
उपशब्दपूर्वात्प्रातिपदिकात्पूर्वविषये अडच् वुच् एतौ स्तः । चाद्यथाप्राप्तम् । प्राचांग्रहणं पूजार्थम् । अनुकम्पित उपेन्द्रदत्तः उपडः । उपकः । उपिकः । उपियः । उपिलः । उपेन्द्रदत्तकः । षड् रूपाणि ॥
Balamanorama¶
प्राचामुपादेरडज्वुचौ च - प्राचामुपादेरडज्वुचौ च । पूर्वविषये इति ।बह्वचो मनुष्यनाम्नः॑ इति सूत्रविषये इत्यर्थः । चाद्यथाप्राप्तमिति । ठच्, धन्, इलच्चेत्यर्थः । ठज्वेत्यतो वेत्यनुवृत्त्यैव सिद्धे प्राचाङ्ग्रहणं व्यर्थमित्यत आह — प्राचाङ्ग्रहणमिति । उपड इति उपेन्द्रदत्तशब्दादडचिद्वितीयं सन्ध्यक्षर॑मिति वक्ष्यमाणेन एकारादेर्लोप इति केचित् ।नेन्द्रस्य परस्ये॑ति ज्ञापकेन पूर्वोत्तरपदनिमित्तकार्यापेक्षया अन्तरङ्गस्याप्येकादेशस्य पूर्वमप्रवृत्तेरिकारादिलोप इति शब्देन्दुशेखरे । उपक इति । वुचि अकादेशे एकारादिलोपे रूपम् । उपिय इति । घनि रूपम् । उपिल इति । इलचि रूपम् । उपिक इति । ठचि रूपम् । उपेन्द्रदत्तक इति । कप्रत्यये रूपम् । ठाजाद्यभावाल्लोपो न ।
Tattvabodhini¶
प्राचामुपादेरडज्वुचौ च - प्राचामुपादेः ।बह्वचो मनुष्ये॑त्याद्यनुवर्तते । उपेन्द्रदत्त इति । ननु कृतसन्धेरूपेन्द्रशब्दादेकादेशस्य पूर्वान्ततया ग्रहणात्उपादे॑रिति विधीयमानौ प्रत्ययौ स्तां नाम, लोपस्तु नकारादेरेव स्यात् । ततश्चउपक॑उपड॑इति रूपे न स्यातां, किं तुउपयक॑उपयड॑इति रूपे स्याताम् । एवं घनिलच्ठच्ष्वपि दोष एव । तस्मादिहैवद्वितीयं सन्ध्यक्षरं चे॑दिति वार्तिकं कुतो नोक्तमिति चेत् । अत्राहुः -प्रकारान्तरेण निर्वाहसंभवान्नोक्तम् । तथाहि -आद्गुणे कृतेद्वितीयं सन्ध्यक्षर॑मित्यादिना अकारस्यापि लोपप्रक्त्या गुणात्पूर्वमेवाऽकृतव्यूहपरिभाषया प्रत्ययः । नच परिनिष्ठितत्वपरेण समर्थग्रहणेन सौत्थितिरित्यत्रेव परिभाषाबाधः शङ्क्यः ।प्राग्दिशः॑इति सूत्रेसमर्थग्रहणं निवृत्त॑मित्युक्तत्वात् ।अकृतसन्धे॑रिति प्रागुक्तज्ञापकबलेन समर्थग्रहणप्रत्यार्यानपक्षेऽपि ज्ञापकस्य विशेषपरत्वाश्रयणादिति । उपेन्द्रः ष उपगुः, उपकर्तेत्यादिषूपडादीनां पञ्चानां रूपाणां साम्येऽपि सैन्धवादिष्विव प्रकरणादिना विसेषेऽध्यवसेयः ।
Nyaas¶
उपड इत्यादौ उपेन्द्रदत्तशब्दात्प्रत्ययः। विकल्पार्थं प्राग्ग्रहणं कस्मान्न भवति? इत्याह - वेत्येव हि इत्यादि। अत्र हे वेत्यनुवर्तते, तस्मात्तेनैव विकल्पस्य सम्पादितत्वात्? तदर्थग्रहणं नोपपद्यते॥
Prakriyasarvasvam¶
उपादेर्बह्वचो नाम्न उक्तेऽर्थे अडज्वुचौ च पूर्वोक्ताश्च वा स्युः । अनुकम्पित उपेन्द्रदत्त उपडः । उपकः, उपियः, उपिलः, उपिकः, उपेन्द्रदत्तकः । प्राचामिति पूजार्थम् ॥