53080: प्राचामुपादेरडज्वुचौ च ============================= **Padacheda:** प्राचाम् | S | 6 | 3 | उपादेः | S | 5 | 1 | अडच्-वुचौ | S | 1 | 2 | च | S | 0 | 0 | Sutrartha --------- **अनुकम्पायाम् गम्यमानायामनुकम्पायाः कर्मपदम्, तथा च नीतिपूर्वक-अनुकम्पायाम् गम्यमानायामनुकम्पायाः साधनम् - एतेषु किञ्चन यदि मनुष्यस्य 'उप' इत्यनेन प्रारभ्यमाणम् नाम तथा च बह्वच् अस्ति, तर्हि तस्मात् स्वार्थे प्राचाम् वैयाकरणानाम् मतेन विकल्पेन 'अडच्' तथा 'वुच्' प्रत्ययौ भवतः ।** **अनुकम्पायाम्** (5.3.76) इत्यनेन सूत्रेण अनुकम्पायाम् गम्यमानायाम् तस्य कर्मपदात् प्रातिपदिकात् स्वार्थे 'क' प्रत्ययविधानम् भवति । **नीतौ च तद्युक्तात्** (5.3.77) इत्यनेन अनुकम्पायाम् गम्यमानायाम् 'नीतिमनुसृत्य प्रयुक्तम् यत् साधनम्', तस्मात् स्वार्थे 'क'प्रत्ययः विधीयते । यदि उभयत्र विहितम् प्रातिपदिकम् बह्वच् अस्ति (इत्युक्ते तस्मिन् प्रातिपदिके त्रयः वा अधिकाः स्वराः सन्ति), तथा च तेन प्रातिपदिकेन मनुष्यस्य नाम्नः निर्देशः क्रियते, तर्हि तस्मात् प्रातिपदिकात् एतयोः द्वयोः एव सन्दर्भयोः **बह्वचो मनुष्यनाम्नष्ठज्वा** (5.3.78) इत्यनेन ठच्-प्रत्ययः , तथा च **घनिलचौ च** (5.3.79) इत्यनेन 'घन्' तथा 'इलच्' प्रत्ययौ - एते सर्वे विकल्पेन विधीयन्ते । अस्मिन्नेव सन्दर्भे यदि प्रकृतिः (= मनुष्यस्य बह्वच् नाम) 'उप' इत्यनेन प्रारभ्यते, तर्हि तस्मात् स्वार्थे 'अडच्' तथा 'वुच्' एतौ द्वौ प्रत्ययौ वर्तमानसूत्रेण विधीयेते । उदाहरणद्वयम् पश्यामः - 1. कश्चन देवदत्तः उपेन्द्रदत्तम् प्रति अनुकम्पां प्रदर्शयति - इति चिन्तयामः । अत्र अनुकम्पायाः कर्मपदम् 'उपेन्द्रदत्त' इति अस्ति । अत्र 'उपेन्द्रदत्त' इति मनुष्यस्य नाम अस्ति, अस्य प्रारम्भः 'उप' इत्यनेन भवति, तथा च अस्मिन् शब्दे पञ्च स्वराः विद्यन्ते, अतः अयम् 'बह्वच्' शब्दः अपि अस्ति । अतः अस्मात् शब्दात् वर्तमानसूत्रेण स्वार्थे 'अडच्' तथा 'वुच्' एतौ प्रत्ययौ भवतः । प्रक्रिया इयम् - उपेन्द्रदत्त + अडच् / वुच् → उपेन्द्रदत्त + अडच् + अक [इत्संज्ञालोपः । **युवोरनाकौ** (7.1.1) इति 'वु' इत्यस्य 'अक' आदेशः ।] → उप + अडच् / अक [**ठाजादावूर्ध्वं द्वितीयादचः** (5.3.83) इत्यनेन अजादिप्रत्यये परे अङ्गे विद्यमानात् द्वितीयात् अच्-वर्णात् अग्रे विद्यमानस्य खण्डस्य लोपः भवति । अत्र यद्यपि द्वितीयः अच्-वर्णः 'ए' इति अस्ति, तथापि इदम् सन्ध्यक्षरमस्ति, अतः **ठाजादावूर्ध्वं द्वितीयादचः** (5.3.83) इत्यत्र पाठितेन अनेन वार्त्तिकेन तस्य छेदं कृत्वा 'अ + इ' इति प्राप्ते 'अ' इत्येव द्वितीयं स्वरं मत्त्वा तस्मात् अग्रे विद्यमानस्य खण्डस्य लोपः क्रियते । अस्मिन् विषये नागेशेन कश्चन अन्यः पक्षः लघुशब्देन्दुशेखरे उक्तः अस्ति, जिज्ञासुभिः सोऽपि द्रष्टव्यः] → उप् + अड / अक [**यस्येति च** (6.4.148) इति अकारलोपः] → उपड / उपक 2. कश्चन देवदत्तः यज्ञदत्तं प्रति अनुकम्पां दर्शयित्वा तस्मै 'उपेन्द्रदत्तः' नाम कश्चन दासः (servant) ददाति - इति चिन्तयामः । अत्र अनुकम्पायाः साधनम् 'उपेन्द्रदत्तः' इति मनुष्यः अस्ति । अत्रापि पूर्ववदेव प्रकियां कृत्वा 'उपड' तथा 'उपक' एतौ शब्दौ सिद्ध्यतः । अनुकम्पायाः साधनम् यः उपेन्द्रदत्तः , सः उपडः उपकः वा - इति आशयः । ज्ञातव्यम् - अनेन सूत्रेण उक्तौ प्रत्ययौ विकल्पेन भवतः । पक्षे - [अ] **बह्वचो मनुष्यनाम्नष्ठज्वा** (5.3.78) इत्यनेन वैकल्पिकं ठच्-प्रत्ययं कृत्वा 'उपिक' इति शब्दः सिद्ध्यति । [आ] **घनिलचौ च** (5.3.79) इत्यनेन वैकल्पिकं घन्/ इलच् प्रत्ययौ कृत्वा 'उपिय' / 'उपिल' एतौ शब्दौ अपि भवतः । [इ] औत्सर्गिकम् क-प्रत्ययं संस्थाप्य 'उपेन्द्रदत्तक' इति अपि शब्दः सिद्ध्यति । अनेन प्रकारेण 'अनुकम्पितः उपेन्द्रदत्तः' उत 'अनुकम्पायाः साधनमुपेन्द्रदत्तः' एतेषु सन्दर्भेषु 'उपड / उपक / उपिक / उपिय / उपिल / उपेन्द्रदत्तक' एते षट् शब्दाः सिद्ध्यन्ति । विशेषः - अस्मिन् सूत्रे 'प्राचाम्' इत्यनेन कृतः 'पूर्वदिशि विद्यमानानाम् वैयाकरणानाम् निर्देशः' पूजार्थम् / आदरार्थमस्ति । पूर्वसूत्रात् अत्र 'वा' इत्यनुवर्तते, अतः अत्र 'प्राचाम्' इत्यस्य पदस्य प्रयोगः आचार्येण विकल्पार्थम् नैव कृतः अस्ति । Vasu English Summary -------------------- According to the opinion of Eastern Grammarians the affixes अडच् and वुच् also come after a human name beginning with the word उप। Vasu English Translation ------------------------ According to the opinion of Eastern Grammarians the affixes अडच् and वुच् also come after a human name beginning with the word उप। The च shows that the former affixes also come. The sense of the affixes are the same as above viz. compassion or courtesy. Thus from the word उपेन्द्रदत्त, we have, 1. उपेन्द्रदत्तकः (*kan*), उपिकः (*thach*), 3, उपिलः (*ilach*), 4. उपियः (*ghan*), 5. उपकः (*vuch*), 6. उपडः (*adach*). The shortened forms are by (5.3.83). In diminutives, the forms are generally shortened. The word प्राचां is used as a sign of respect (*pujartha*), for the word वा was understood in the aphorism by *anuvritti* from (5.3.78). Kashika ------- पूर्ववत् सर्वमनुवर्तते। उपशब्द आदिर्यस्य तस्मादुपादेः प्रातिपदिकाद् बह्वचो मनुष्यनाम्नोऽडज्वुच्प्रत्ययौ भवतः। चकाराद् घनिलचौ प्रत्ययौ भवतः, ठच् च वा। उपडः। उपकः। उपियः। उपिलः। उपिकः। उपेन्द्रदत्तकः। प्राचांग्रहणं पूजार्थम्। वेत्येव हि वर्तते॥ Siddhanta Kaumudi ----------------- उपशब्दपूर्वात्प्रातिपदिकात्पूर्वविषये अडच् वुच् एतौ स्तः । चाद्यथाप्राप्तम् । प्राचांग्रहणं पूजार्थम् । अनुकम्पित उपेन्द्रदत्तः उपडः । उपकः । उपिकः । उपियः । उपिलः । उपेन्द्रदत्तकः । षड् रूपाणि ॥ Balamanorama ------------ **प्राचामुपादेरडज्वुचौ च** - प्राचामुपादेरडज्वुचौ च । पूर्वविषये इति ।बह्वचो मनुष्यनाम्नः॑ इति सूत्रविषये इत्यर्थः । चाद्यथाप्राप्तमिति । ठच्, धन्, इलच्चेत्यर्थः । ठज्वेत्यतो वेत्यनुवृत्त्यैव सिद्धे प्राचाङ्ग्रहणं व्यर्थमित्यत आह — प्राचाङ्ग्रहणमिति । उपड इति उपेन्द्रदत्तशब्दादडचिद्वितीयं सन्ध्यक्षर॑मिति वक्ष्यमाणेन एकारादेर्लोप इति केचित् ।नेन्द्रस्य परस्ये॑ति ज्ञापकेन पूर्वोत्तरपदनिमित्तकार्यापेक्षया अन्तरङ्गस्याप्येकादेशस्य पूर्वमप्रवृत्तेरिकारादिलोप इति शब्देन्दुशेखरे । उपक इति । वुचि अकादेशे एकारादिलोपे रूपम् । उपिय इति । घनि रूपम् । उपिल इति । इलचि रूपम् । उपिक इति । ठचि रूपम् । उपेन्द्रदत्तक इति । कप्रत्यये रूपम् । ठाजाद्यभावाल्लोपो न । Tattvabodhini ------------- **प्राचामुपादेरडज्वुचौ च** - प्राचामुपादेः ।बह्वचो मनुष्ये॑त्याद्यनुवर्तते । उपेन्द्रदत्त इति । ननु कृतसन्धेरूपेन्द्रशब्दादेकादेशस्य पूर्वान्ततया ग्रहणात्उपादे॑रिति विधीयमानौ प्रत्ययौ स्तां नाम, लोपस्तु नकारादेरेव स्यात् । ततश्चउपक॑उपड॑इति रूपे न स्यातां, किं तुउपयक॑उपयड॑इति रूपे स्याताम् । एवं घनिलच्ठच्ष्वपि दोष एव । तस्मादिहैवद्वितीयं सन्ध्यक्षरं चे॑दिति वार्तिकं कुतो नोक्तमिति चेत् । अत्राहुः -प्रकारान्तरेण निर्वाहसंभवान्नोक्तम् । तथाहि -आद्गुणे कृतेद्वितीयं सन्ध्यक्षर॑मित्यादिना अकारस्यापि लोपप्रक्त्या गुणात्पूर्वमेवाऽकृतव्यूहपरिभाषया प्रत्ययः । नच परिनिष्ठितत्वपरेण समर्थग्रहणेन सौत्थितिरित्यत्रेव परिभाषाबाधः शङ्क्यः ।प्राग्दिशः॑इति सूत्रेसमर्थग्रहणं निवृत्त॑मित्युक्तत्वात् ।अकृतसन्धे॑रिति प्रागुक्तज्ञापकबलेन समर्थग्रहणप्रत्यार्यानपक्षेऽपि ज्ञापकस्य विशेषपरत्वाश्रयणादिति । उपेन्द्रः ष उपगुः, उपकर्तेत्यादिषूपडादीनां पञ्चानां रूपाणां साम्येऽपि सैन्धवादिष्विव प्रकरणादिना विसेषेऽध्यवसेयः । Nyaas ----- उपड इत्यादौ उपेन्द्रदत्तशब्दात्प्रत्ययः। विकल्पार्थं प्राग्ग्रहणं कस्मान्न भवति? इत्याह - `वेत्येव हि` इत्यादि। अत्र हे वेत्यनुवर्तते, तस्मात्तेनैव विकल्पस्य सम्पादितत्वात्? तदर्थग्रहणं नोपपद्यते॥ Prakriyasarvasvam ----------------- उपादेर्बह्वचो नाम्न उक्तेऽर्थे अडज्वुचौ च पूर्वोक्ताश्च वा स्युः । अनुकम्पित उपेन्द्रदत्त उपडः । उपकः, उपियः, उपिलः, उपिकः, उपेन्द्रदत्तकः । प्राचामिति पूजार्थम् ॥