53072: कस्य च दः

Padacheda: कस्य | S | 6 | 1 |

च | S | 0 | 0 |

दः | S | 1 | 1 |

Sutrartha

अकच्-प्रत्ययस्य सन्नियोगेन ककारान्तस्य अङ्गस्य दकारादेशः भवति ।

अव्ययसर्वनाम्नामकच् प्राक् टेः (5.3.71) इत्यनेन अव्ययानाम् विषये प्राग्-इवीयेषु सन्दर्भेषु ‘अकच्’ इति प्रत्ययः स्वार्थे विधीयते ।अस्य प्रत्ययस्य सन्नियोगेन ककारान्तस्य अङ्गस्य दकारादेशः भवति । उदाहरणानि एतानि - 1. धिक् + अकच् [ अव्ययसर्वनाम्नामकच् प्राक् टेः इत्यनेन स्वार्थे टेः प्राक् अकच्-प्रत्ययः भवति ।] = ध् + अकच् + इक् → ध् + अक् + इक् [इत्संज्ञालोपः] → धक् + इद् [वर्तमानसूत्रेण ककारस्य दकारादेशः] → धकिद् → धकिद् / धकित् [सुप्-प्रत्ययस्य अव्ययादाप्सुपः (2.4.82) इति लोपे कृते पदसंज्ञायां विद्यमानायाम् वाऽवसाने (8.4.56) इति वैकल्पिकं चर्त्वम्] 2. हिरुक् + अकच् [ अव्ययसर्वनाम्नामकच् प्राक् टेः इत्यनेन स्वार्थे टेः प्राक् अकच्-प्रत्ययः भवति ।] = हिर् + अकच् + उक् → हिर् + अक् + उक् [इत्संज्ञालोपः] → हिर् + अक् + उद् [वर्तमानसूत्रेण ककारस्य दकारादेशः] → हिरकुद् → हिरकुत् / हिरकुद् [सुप्-प्रत्ययस्य अव्ययादाप्सुपः (2.4.82) इति लोपे कृते पदसंज्ञायां विद्यमानायाम् वाऽवसाने (8.4.56) इति वैकल्पिकं चर्त्वम्] 3. पृथक् + अकच् [ अव्ययसर्वनाम्नामकच् प्राक् टेः इत्यनेन स्वार्थे टेः प्राक् अकच्-प्रत्ययः भवति ।] = पृथ् + अकच् + अक् → पृथ् + अक् + अक् [इत्संज्ञालोपः] → पृथ् + अक् + अद् [वर्तमानसूत्रेण ककारस्य दकारादेशः] → पृथकद् → पृथकद् / पृथकत् [सुप्-प्रत्ययस्य अव्ययादाप्सुपः (2.4.82) इति लोपे कृते पदसंज्ञायां विद्यमानायाम् वाऽवसाने (8.4.56) इति वैकल्पिकं चर्त्वम्] ज्ञातव्यम् - अव्ययसर्वनाम्नामकच् प्राक् टेः (5.3.71) इत्यनेन विहितः ‘अकच्’ प्रत्ययः अव्ययेभ्यः, सर्वनामशब्देभ्यः तथा च तिङन्तेभ्यः उक्तः अस्ति । परन्तु तिङन्तशब्दाः सर्वनामशब्दाः च ‘क्’ इत्यनेन न समाप्यन्ते, अतः अस्य सूत्रस्य प्रयोगः केवलमव्ययानाम् विषये एव भवति ।

Vasu English Summary

The letter द is the substitute of the final क् of an indeclinable when the affix अकच् (अक्) is added.

Vasu English Translation

The letter द is the substitute of the final क् of an indeclinable when the affix अकच् (अक्) is added. The word अव्यय is to be read into this sutra and not सर्वनाम, because no Pronominal ends in क् ॥ Thus धकित्, हिरकुत् and पृथकत् from धिक्, हिरुक् and पृथक् ॥ Thus हिरुक् + अक् = हिर् + अक् + उक् = हिरकुत्, now comes the present rule and the final क् is changed into द्, as हिरकुद् or त् ॥

Bhashya

कस्य च दः (2230) (अकजधिकरणम्) (अकच्प्रकृतिनिर्धारकभाष्यम्) किमयं सुबन्तस्य प्राक् टेर्भवति, आहोस्वित् ङ्याप्प्रातिपदिकस्य? कुतः संदेहः? उभयं प्रकृतम्, अन्यतरच्छक्यं विशेषयितुम्। किं चातः? यदि सुबन्तस्य - युष्मकाभिः, अस्मकाभिः, युष्मकासु, अस्मकासु, युवकयोः, आवकयोरिति न सिध्यति। अथ प्रातिपदिकस्य - त्वयका, मयका, त्वयकि, मयकि - ःइत्यत्रापि प्राप्नोति। अस्तु सुबन्तस्य। कथं - युष्मकाभिः, अस्मकाभिः, युष्मकासु, अस्मकासु, युवकयोः, आवकयोरिति? अनोकारसकारभकारादाविति वक्तव्यम्॥ (5853 उपसंख्यानवार्तिकम्॥ 1 ॥) - अकच्प्रकरणे तूष्णीमः काम् - (भाष्यमकच्प्रकरणे तूष्णीमः काम्वक्तव्यः। आसितव्यं किल तूष्णीकामेतत्पश्यत चिन्तितम्॥ (5854 उपसंख्यानवार्तिकम्॥ 2 ॥) - शीले को मलोपश्च - (भाष्यम्) शीले को मलोपश्च वक्तव्यः। तूष्णीं शीलः - तूष्णीकः॥ (नानादेशप्रत्ययानां बाध्यबाधकभावबोधकभाष्यम् इह - भिनत्ति, च्छिनत्तीति श्नमि कृते शप् प्राप्नोति। बहुकृतम्, बहुभुक्तं, बहुपीतं - बहुचि कृते कल्पादयः प्राप्नुवन्ति। उच्चकैः, नीचकैः - अकचिकृते कादयः प्राप्नुवन्ति। ननु च श्नम्बहुजकचोऽपवादास्ते बाधका भविष्यन्ति॥ (5855 नानादेशानां बाधकत्वबोधकवार्तिकम्॥ 3 ॥) - श्नमब्हुजकक्षु नानादेशत्वादुत्सर्गप्रतिषेधः - (भाष्यम्0 श्र्नम्बहुजकक्षु नानादेशत्वादुत्सर्गस्य प्रतिषेधो वक्तव्यः। समानदेशैरपवादैरुत्सर्गाणां बाधनं भवति, नानादेशत्वान्न प्राप्नोति॥ (5856 पूर्वविप्रतिषेधबोधकवार्तिकम्॥ 4 ॥) - कविधेस्तमादयः पूर्वविप्रतिषिद्धम् - (भाष्यम्) कविधेस्तमादयो भवन्ति पूर्वविप्रतिषेधेन। कविधेरवकाशः - कुत्सादीनां वचनं प्रकर्षस्यावचनम् - पटुकः, मृदुकः। तमादीनामवकाशः - प्रकर्षस्य वचनं कुत्सादीनामवचनम् - पटुतरः, पटुतमः। उभयवचने उभयं प्राप्नोति - पटुतरकः, पटुतमकः। तमादयो भवन्ति पूर्वविप्रतिषेधेन॥ (5857 विप्रतिषेध बोधकवार्तिकम्॥ 5 ॥) - कदाचित् छिन्नकतरादयः - (भाष्यम्) कदाचित् छिन्नकतरादयो भवन्ति विप्रतिषेधेन। छिन्नकतरं, छिन्नकतमम्॥ (5858 पूर्वविप्रतिषेधबोधकवार्तिकम्॥ 6 ॥) - एकदेशिप्रधानश्च समासः - (भाष्यम्) एकदेशिप्रधानश्च समासः कविधेर्भवति पूर्वविप्रतिषेधेन। अर्धपिप्पलिका, अर्धकोशातकिका॥ (5879 पूर्वविप्रतिषेधबोधकवार्तिकम्॥ 7 ॥) - उत्तरपदार्थप्रधानश्च संज्ञायां कन्विध्यर्थम् - (भाष्यम्) उत्तरपदार्थप्रधानश्च समासो भवति पूर्वविप्रतिषेधेन। किं प्रयोजनम्? संज्ञायां कन्विध्यर्थम्। संज्ञायां कन् यथा स्यात्। नवग्रामकम्, नवराष्ट्रकं, नवनगरकम्॥ (5880 पूर्वविप्रतिषेधबोधकवार्तिकम्॥ 8 ॥) - कदाचिद्द्वन्द्वः - (भाष्यम्) कदाचिद्द्वन्द्वः कविधेर्भवति पूर्वविप्रतिषेधेन। प्लक्षकन्यग्रोधकौ, प्लक्षन्यग्रोधकाविति वा॥

Kashika

ककारान्तस्य प्रातिपदिकस्याकच्सन्नियोगेन दकारादेशो भवति। चकारः सन्नियोगार्थः। सामर्थ्याच्चाव्ययग्रहणमनुवर्तते, न सर्वनामग्रहणम्, ककारान्तस्य सर्वनाम्नोऽसंभवात्। धिक् — धकित्। हिरुक् — हिरकुत्। पृथक् — पृथकत्॥

Siddhanta Kaumudi

कान्ताव्ययस्य दकारोऽन्तादेशः स्यादकच्च ॥

Balamanorama

कस्य च दः - कस्य च दः । पूर्वसूत्रेअव्ययसर्वनाम्ना॑मिति समासनिर्देशेऽपि एकादेशे स्वरितत्वप्रतिज्ञाबलादव्ययग्रहणमेवात्राऽनुवर्तते ।कस्ये॑त्यत्र ककारादकार उच्चारणार्थः । ककारस्येति विवक्षितम् । तेनाऽव्ययस्य विशेषणात्तदन्तविधिः । तदाह — कान्ताव्ययस्येति । अकच्चेति । चकारेण तदनुकर्षादिति भावः । एतेन अकच्संनियोगशिष्ट एवाऽयं दकार इत्युक्तं भवति । अयमपि प्रागिवादधिकारः ।

Tattvabodhini

कस्य च दः - कस्य च दः । कान्ताव्ययस्येति । सर्वनामग्रहणं तिङ्ग्रहणं च नेह संबध्यते, तयोः कान्तत्वाऽसंभवात् । न चाऽधोक् अधोगित्यादौ संभवोऽस्तीति वाच्यं , कत्वस्याऽसिद्धत्वात् । यद्यपि शक्नोतेर्यङ्लुकि लङि तिपिअशाशक्इति संभवति, तथापि यङ्लुकोऽसार्वत्रिकत्वान्नेदृसं लक्ष्यमस्ति । छन्दसि क्वचिल्लक्ष्यसद्भावेऽपिसर्वे विधाश्छन्दसि वा विधीयन्ते॑इति दत्वविधिर्न प्रवर्तत इति भावः ।ओकारसकारभकारादौ सुपि सर्वनाम्नष्टे प्रागकच् । ओकारसकारेति । अकज्विधौ सुपोऽप्यनुवृत्त्या सर्वनाम्ना सुपा च ठेर्विशेषणे कामचारादव्यवस्थाप्रसङ्गे भाष्यकारवचनाव्द्यवस्था श्रीयते ।ओकारसकारे॑त्यादिसङ्कोचश्च युष्मदस्मन्मात्रविषयकः, तथैव भाष्येउदाहृतत्वात् । अन्येषां त्विवशेषेण प्रातिपदिकस्यैव टेः प्रागकच् न सुबन्तस्य । तेन सर्वकेण इमकेन भवकन्तमित्यादि सिध्यति । त्वयका मयकेति । नन्वत्र सुपः प्रागकचि कृते प्रत्यये परतस्त्वमादेशयोः सतोरपियोऽची॑ति यत्वं न स्याद्विभक्तिपरत्वाऽभावादिति चेत् । मैवम् । अकृतव्यूहपरिभाषाया अनित्यतामाश्रित्याऽकचः पूर्वमेव यत्वविधानात् । एवं युवकामावकामित्यत्राप्यकचः पूर्वमेव युवावादेशाविति बोध्यम् ।शीले को मलीपश्च । शीले क इति । शीलं स्वभावो नियमश्च । तूष्णीक इति ।केऽणः॑इति ह्रस्वस्तु भाष्यकार प्रयोगात्न कपी॑त्यत्रने॑ति योगविभागाद्वा न भवतीत्याहुः । अकचो द्वितीय अकार उच्चारणार्थ इति ध्वनयन्नुदाहरति -पचतकीत्यादि ।

Padamanjari

न सर्वनामग्रहणमिति। तदिङ्ग्रहणं चेति द्रष्टव्यम्; हेतोस्तुल्यत्वात्। अधोक्, अवक् इत्यादावसिद्धं कुत्वम्। शक्नोतिप्रभृतेर्यङ्लुकि लटि तिपीडभावे हल्ङ्यादिलोपे अशाशगित्यादौ छान्दसो यङे लुक्, च्छन्दसि च दृष्टानुविधानम्। धिगिति। ककारान्तत्वमव्ययस्य दर्शयति ॥

Nyaas

अकच्सन्नियोगेन इत्यादि। कथं पुनरकच्सन्नियोगेनेत्येष विशेषो लभ्यते, यावता न सूत्रे तदुक्तम्? इत्याह - चकारः इत्यादि। चकारस्यैतदेव प्रयोजनम् - अकच्सन्नियोगेन ककारस्य दकारो यथा स्यादिति भावः॥

Prakriyasarvasvam

अकचि सति कान्ताव्ययस्य दकारोऽन्तादेशः स्यात् । पृथकत् । धकित् ।

Vartika

ओकारसकारभकारादौ सुपि सर्वनाम्नष्टे प्रागकच् ।