53072: कस्य च दः ================ **Padacheda:** कस्य | S | 6 | 1 | च | S | 0 | 0 | दः | S | 1 | 1 | Sutrartha --------- **अकच्-प्रत्ययस्य सन्नियोगेन ककारान्तस्य अङ्गस्य दकारादेशः भवति ।** **अव्ययसर्वनाम्नामकच् प्राक् टेः** (5.3.71) इत्यनेन अव्ययानाम् विषये प्राग्-इवीयेषु सन्दर्भेषु 'अकच्' इति प्रत्ययः स्वार्थे विधीयते ।अस्य प्रत्ययस्य सन्नियोगेन ककारान्तस्य अङ्गस्य दकारादेशः भवति । उदाहरणानि एतानि - 1. धिक् + अकच् [ **अव्ययसर्वनाम्नामकच् प्राक् टेः** इत्यनेन स्वार्थे टेः प्राक् अकच्-प्रत्ययः भवति ।] = ध् + अकच् + इक् → ध् + अक् + इक् [इत्संज्ञालोपः] → धक् + इद् [वर्तमानसूत्रेण ककारस्य दकारादेशः] → धकिद् → धकिद् / धकित् [सुप्-प्रत्ययस्य **अव्ययादाप्सुपः** (2.4.82) इति लोपे कृते पदसंज्ञायां विद्यमानायाम् **वाऽवसाने** (8.4.56) इति वैकल्पिकं चर्त्वम्] 2. हिरुक् + अकच् [ **अव्ययसर्वनाम्नामकच् प्राक् टेः** इत्यनेन स्वार्थे टेः प्राक् अकच्-प्रत्ययः भवति ।] = हिर् + अकच् + उक् → हिर् + अक् + उक् [इत्संज्ञालोपः] → हिर् + अक् + उद् [वर्तमानसूत्रेण ककारस्य दकारादेशः] → हिरकुद् → हिरकुत् / हिरकुद् [सुप्-प्रत्ययस्य **अव्ययादाप्सुपः** (2.4.82) इति लोपे कृते पदसंज्ञायां विद्यमानायाम् **वाऽवसाने** (8.4.56) इति वैकल्पिकं चर्त्वम्] 3. पृथक् + अकच् [ **अव्ययसर्वनाम्नामकच् प्राक् टेः** इत्यनेन स्वार्थे टेः प्राक् अकच्-प्रत्ययः भवति ।] = पृथ् + अकच् + अक् → पृथ् + अक् + अक् [इत्संज्ञालोपः] → पृथ् + अक् + अद् [वर्तमानसूत्रेण ककारस्य दकारादेशः] → पृथकद् → पृथकद् / पृथकत् [सुप्-प्रत्ययस्य **अव्ययादाप्सुपः** (2.4.82) इति लोपे कृते पदसंज्ञायां विद्यमानायाम् **वाऽवसाने** (8.4.56) इति वैकल्पिकं चर्त्वम्] ज्ञातव्यम् - **अव्ययसर्वनाम्नामकच् प्राक् टेः** (5.3.71) इत्यनेन विहितः 'अकच्' प्रत्ययः अव्ययेभ्यः, सर्वनामशब्देभ्यः तथा च तिङन्तेभ्यः उक्तः अस्ति । परन्तु तिङन्तशब्दाः सर्वनामशब्दाः च 'क्' इत्यनेन न समाप्यन्ते, अतः अस्य सूत्रस्य प्रयोगः केवलमव्ययानाम् विषये एव भवति । Vasu English Summary -------------------- The letter द is the substitute of the final क् of an indeclinable when the affix अकच् (अक्) is added. Vasu English Translation ------------------------ The letter द is the substitute of the final क् of an indeclinable when the affix अकच् (अक्) is added. The word अव्यय is to be read into this *sutra* and not सर्वनाम, because no Pronominal ends in क् ॥ Thus धकित्, हिरकुत् and पृथकत् from धिक्, हिरुक् and पृथक् ॥ Thus हिरुक् + अक् = हिर् + अक् + उक् = हिरकुत्, now comes the present rule and the final क् is changed into द्, as हिरकुद् or त् ॥ Bhashya ------- कस्य च दः (2230) (अकजधिकरणम्) (अकच्प्रकृतिनिर्धारकभाष्यम्) किमयं सुबन्तस्य प्राक् टेर्भवति, आहोस्वित् ङ्याप्प्रातिपदिकस्य? कुतः संदेहः? उभयं प्रकृतम्, अन्यतरच्छक्यं विशेषयितुम्। किं चातः? यदि सुबन्तस्य - युष्मकाभिः, अस्मकाभिः, युष्मकासु, अस्मकासु, युवकयोः, आवकयोरिति न सिध्यति। अथ प्रातिपदिकस्य - त्वयका, मयका, त्वयकि, मयकि - ःइत्यत्रापि प्राप्नोति। अस्तु सुबन्तस्य। कथं - युष्मकाभिः, अस्मकाभिः, युष्मकासु, अस्मकासु, युवकयोः, आवकयोरिति? अनोकारसकारभकारादाविति वक्तव्यम्॥ (5853 उपसंख्यानवार्तिकम्॥ 1 ॥) - अकच्प्रकरणे तूष्णीमः काम् - (भाष्यमकच्प्रकरणे तूष्णीमः काम्वक्तव्यः। आसितव्यं किल तूष्णीकामेतत्पश्यत चिन्तितम्॥ (5854 उपसंख्यानवार्तिकम्॥ 2 ॥) - शीले को मलोपश्च - (भाष्यम्) शीले को मलोपश्च वक्तव्यः। तूष्णीं शीलः - तूष्णीकः॥ (नानादेशप्रत्ययानां बाध्यबाधकभावबोधकभाष्यम् इह - भिनत्ति, च्छिनत्तीति श्नमि कृते शप् प्राप्नोति। बहुकृतम्, बहुभुक्तं, बहुपीतं - बहुचि कृते कल्पादयः प्राप्नुवन्ति। उच्चकैः, नीचकैः - अकचिकृते कादयः प्राप्नुवन्ति। ननु च श्नम्बहुजकचोऽपवादास्ते बाधका भविष्यन्ति॥ (5855 नानादेशानां बाधकत्वबोधकवार्तिकम्॥ 3 ॥) - श्नमब्हुजकक्षु नानादेशत्वादुत्सर्गप्रतिषेधः - (भाष्यम्0 श्र्नम्बहुजकक्षु नानादेशत्वादुत्सर्गस्य प्रतिषेधो वक्तव्यः। समानदेशैरपवादैरुत्सर्गाणां बाधनं भवति, नानादेशत्वान्न प्राप्नोति॥ (5856 पूर्वविप्रतिषेधबोधकवार्तिकम्॥ 4 ॥) - कविधेस्तमादयः पूर्वविप्रतिषिद्धम् - (भाष्यम्) कविधेस्तमादयो भवन्ति पूर्वविप्रतिषेधेन। कविधेरवकाशः - कुत्सादीनां वचनं प्रकर्षस्यावचनम् - पटुकः, मृदुकः। तमादीनामवकाशः - प्रकर्षस्य वचनं कुत्सादीनामवचनम् - पटुतरः, पटुतमः। उभयवचने उभयं प्राप्नोति - पटुतरकः, पटुतमकः। तमादयो भवन्ति पूर्वविप्रतिषेधेन॥ (5857 विप्रतिषेध बोधकवार्तिकम्॥ 5 ॥) - कदाचित् छिन्नकतरादयः - (भाष्यम्) कदाचित् छिन्नकतरादयो भवन्ति विप्रतिषेधेन। छिन्नकतरं, छिन्नकतमम्॥ (5858 पूर्वविप्रतिषेधबोधकवार्तिकम्॥ 6 ॥) - एकदेशिप्रधानश्च समासः - (भाष्यम्) एकदेशिप्रधानश्च समासः कविधेर्भवति पूर्वविप्रतिषेधेन। अर्धपिप्पलिका, अर्धकोशातकिका॥ (5879 पूर्वविप्रतिषेधबोधकवार्तिकम्॥ 7 ॥) - उत्तरपदार्थप्रधानश्च संज्ञायां कन्विध्यर्थम् - (भाष्यम्) उत्तरपदार्थप्रधानश्च समासो भवति पूर्वविप्रतिषेधेन। किं प्रयोजनम्? संज्ञायां कन्विध्यर्थम्। संज्ञायां कन् यथा स्यात्। नवग्रामकम्, नवराष्ट्रकं, नवनगरकम्॥ (5880 पूर्वविप्रतिषेधबोधकवार्तिकम्॥ 8 ॥) - कदाचिद्द्वन्द्वः - (भाष्यम्) कदाचिद्द्वन्द्वः कविधेर्भवति पूर्वविप्रतिषेधेन। प्लक्षकन्यग्रोधकौ, प्लक्षन्यग्रोधकाविति वा॥ Kashika ------- ककारान्तस्य प्रातिपदिकस्याकच्सन्नियोगेन दकारादेशो भवति। चकारः सन्नियोगार्थः। सामर्थ्याच्चाव्ययग्रहणमनुवर्तते, न सर्वनामग्रहणम्, ककारान्तस्य सर्वनाम्नोऽसंभवात्। धिक् — धकित्। हिरुक् — हिरकुत्। पृथक् — पृथकत्॥ Siddhanta Kaumudi ----------------- कान्ताव्ययस्य दकारोऽन्तादेशः स्यादकच्च ॥ Balamanorama ------------ **कस्य च दः** - कस्य च दः । पूर्वसूत्रेअव्ययसर्वनाम्ना॑मिति समासनिर्देशेऽपि एकादेशे स्वरितत्वप्रतिज्ञाबलादव्ययग्रहणमेवात्राऽनुवर्तते ।कस्ये॑त्यत्र ककारादकार उच्चारणार्थः । ककारस्येति विवक्षितम् । तेनाऽव्ययस्य विशेषणात्तदन्तविधिः । तदाह — कान्ताव्ययस्येति । अकच्चेति । चकारेण तदनुकर्षादिति भावः । एतेन अकच्संनियोगशिष्ट एवाऽयं दकार इत्युक्तं भवति । अयमपि प्रागिवादधिकारः । Tattvabodhini ------------- **कस्य च दः** - कस्य च दः । कान्ताव्ययस्येति । सर्वनामग्रहणं तिङ्ग्रहणं च नेह संबध्यते, तयोः कान्तत्वाऽसंभवात् । न चाऽधोक् अधोगित्यादौ संभवोऽस्तीति वाच्यं , कत्वस्याऽसिद्धत्वात् । यद्यपि शक्नोतेर्यङ्लुकि लङि तिपिअशाशक्इति संभवति, तथापि यङ्लुकोऽसार्वत्रिकत्वान्नेदृसं लक्ष्यमस्ति । छन्दसि क्वचिल्लक्ष्यसद्भावेऽपिसर्वे विधाश्छन्दसि वा विधीयन्ते॑इति दत्वविधिर्न प्रवर्तत इति भावः ।ओकारसकारभकारादौ सुपि सर्वनाम्नष्टे प्रागकच् । ओकारसकारेति । अकज्विधौ सुपोऽप्यनुवृत्त्या सर्वनाम्ना सुपा च ठेर्विशेषणे कामचारादव्यवस्थाप्रसङ्गे भाष्यकारवचनाव्द्यवस्था श्रीयते ।ओकारसकारे॑त्यादिसङ्कोचश्च युष्मदस्मन्मात्रविषयकः, तथैव भाष्येउदाहृतत्वात् । अन्येषां त्विवशेषेण प्रातिपदिकस्यैव टेः प्रागकच् न सुबन्तस्य । तेन सर्वकेण इमकेन भवकन्तमित्यादि सिध्यति । त्वयका मयकेति । नन्वत्र सुपः प्रागकचि कृते प्रत्यये परतस्त्वमादेशयोः सतोरपियोऽची॑ति यत्वं न स्याद्विभक्तिपरत्वाऽभावादिति चेत् । मैवम् । अकृतव्यूहपरिभाषाया अनित्यतामाश्रित्याऽकचः पूर्वमेव यत्वविधानात् । एवं युवकामावकामित्यत्राप्यकचः पूर्वमेव युवावादेशाविति बोध्यम् ।शीले को मलीपश्च । शीले क इति । शीलं स्वभावो नियमश्च । तूष्णीक इति ।केऽणः॑इति ह्रस्वस्तु भाष्यकार प्रयोगात्न कपी॑त्यत्रने॑ति योगविभागाद्वा न भवतीत्याहुः । अकचो द्वितीय अकार उच्चारणार्थ इति ध्वनयन्नुदाहरति -पचतकीत्यादि । Padamanjari ----------- न सर्वनामग्रहणमिति। तदिङ्ग्रहणं चेति द्रष्टव्यम्; हेतोस्तुल्यत्वात्। अधोक्, अवक् इत्यादावसिद्धं कुत्वम्। शक्नोतिप्रभृतेर्यङ्लुकि लटि तिपीडभावे हल्ङ्यादिलोपे अशाशगित्यादौ छान्दसो यङे लुक्, च्छन्दसि च दृष्टानुविधानम्। धिगिति। ककारान्तत्वमव्ययस्य दर्शयति ॥ Nyaas ----- `अकच्सन्नियोगेन` इत्यादि। कथं पुनरकच्सन्नियोगेनेत्येष विशेषो लभ्यते, यावता न सूत्रे तदुक्तम्? इत्याह - `चकारः` इत्यादि। चकारस्यैतदेव प्रयोजनम् - अकच्सन्नियोगेन ककारस्य दकारो यथा स्यादिति भावः॥ Prakriyasarvasvam ----------------- अकचि सति कान्ताव्ययस्य दकारोऽन्तादेशः स्यात् । पृथकत् । धकित् । Vartika ------- ओकारसकारभकारादौ सुपि सर्वनाम्नष्टे प्रागकच् ।