53070: प्रागिवात्कः¶
Padacheda: प्राक् | S | 0 | 0 |
इवात् | S | 5 | 1 |
कः | S | 1 | 1 |
Sutrartha¶
अधिकारोऽयम् । इतः परम् ‘इवे प्रतिकृतौ’ 5.3.96 इति यावत् उक्तेषु विषयेषु प्रातिपदिकेभ्यः ‘क’ प्रत्ययः भवति ।
अधिकारसूत्रम् इदम् । अस्य अधिकारः अवक्षेपणे कन् (5.3.95) इतिपर्यन्तम् प्रचलति । अस्मिन् अर्थे उक्तेषु सन्दर्भेषु प्रातिपदिकेभ्यः औत्सर्गिकरूपेण क-प्रत्ययः स्वार्थे विधीयते । अस्मिन् अधिकारे पाठिताः मुख्याः सन्दर्भाः एतादृशाः सन्ति - 1. अज्ञातम् - अज्ञाते (5.3.73) इति सूत्रम् । 2. कुत्सितम् - कुत्सिते (5.3.74) तथा संज्ञायां कन् (5.3.75), अवक्षेपणे कन् (5.3.95) एतानि सूत्राणि । 3. अनुकम्पा - अनुकम्पायाम् (5.3.76) इत्यतः शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् (5.3.84) एतावन्ति सूत्राणि । 4. अल्पम् - अल्पे (5.3.85) एतत् सूत्रम् । 5. ह्रस्वम् - ह्रस्वे (5.3.86) इत्यतः कासूगोणीभ्यां ष्टरच् (5.3.90) एतानि सूत्राणि । 6. तनुत्वम् - वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे (5.3.91) इति सूत्रम् । 7. निर्धारणम् - किंयत्तदो निर्द्धारणे द्वयोरेकस्य डतरच् (5.3.92) इत्यतः एकाच्च प्राचाम् (5.3.94) एतानि सूत्राणि । एतेषु सर्वेष विषयेषु प्रातिपदिकात् स्वार्थे ‘क’ प्रत्ययः (उत तस्य अपवादः) विधीयते । स्मर्तव्यम् - 1. ‘क’ इति प्रत्ययः तद्धितप्रत्ययः अस्ति, अतः लशक्वतद्धिते (1.3.8) इत्यनेन अस्य इत्संज्ञा न भवति । 2. अङ्गस्य अन्ते यदि विसर्गः विद्यते, तर्हि तस्मात् क-प्रत्यये परे सोऽपदादौ (8.3.38) इत्यनेन विसर्गस्य नित्यम् सकारादेशः एव भवति । यथा - यशः + क → यशस्क ।
Vasu English Summary¶
The affix क governs all sūtras as far as इवे प्रतिकृतौ (5.3.96).
Vasu English Translation¶
The affix क governs all sūtras as far as इवे प्रतिकृतौ (5.3.96). Properly speaking क extends only upto (5.3.86). Thus in the sutra अज्ञाते (5.3.73), the word क must be supplied to complete the sense. As अश्वकः, गर्दभकः ॥ This affix क does not come after finite verbs (तिङन्त), but the affix अकच् (5.3.71) comes after such verbs. In other words, the phrase तिङश्च (5.3.56), should be connected, by way of anuvritti, with the next sutra, and not with this.
Kashika¶
इवे प्रतिकृतौ (५.३.९६) इति वक्ष्यति। प्रागेतस्मादिवसंशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामः, कप्रत्ययस्तेष्वधिकृतो वेदितव्यः। वक्ष्यति — अज्ञाते (५.३.७३) इति। अश्वकः। गर्दभकः। तिङन्तादयं प्रत्ययो नेष्यते, अकजिष्यते। तिङश्च (५.३.५६) इत्यनुवृत्तमुत्तरसूत्रेणैव संबन्धनीयम्॥
Siddhanta Kaumudi¶
इवे प्रतिकृतौ (SK2051) इत्यतः प्राक् काधिकारः ॥
Laghu Siddhanta Kaumudi¶
इवे प्रतिकृतावित्यतः प्राक्काधिकारः॥
Balamanorama¶
प्रागिवात्कः - प्रागिवात्कः ।इवशब्दस्तद्घटितसूत्रपर इति मत्वाह — इवे प्रतीति ।
Padamanjari¶
तिङ्न्तादयं प्रत्ययो नेष्यत इति। तदर्थमत्र’सुपः’ इत्येव सम्बन्धनीयमिति भावः। अकजिष्यत इति। तदर्थं तत्र’सुपः’ इत्येव सम्बन्धनीयमिति भावः। कथं पुनरनुवर्तमानं शक्यमसम्भनधुम् ? तत्राह - तिङ्श्चेत्यनुवृतमिति। अत्र च व्याख्यानमेव शरणम्। इह’प्राक्कुट।लः’ इति वक्तव्यम्, न हि’कुटीशमीशुण्डाब्यो रः’ इत्यारब्यास्योपयोगः; प्रत्ययान्तरैरवष्टब्धत्वात्? उतरार्थं त्वियतोऽवधेर्ग्रहणम्,’वा बहूनाम्’ इत्यत्र हि वावचनमकजर्थम्। एवमपि प्राक्कन इति वक्तव्यम् ठवक्षेपणे कन्ऽ इत्ययमवधिः। कुतो नु खल्वेतद्? अयमेव कनवधिः, न पुनर्हस्वे,’संज्ञायां कन्’ ‘कुत्सिते संज्ञायां कन्’ इत्येतयोरन्यतरोऽवधिः स्यात् ॥ अव्ययसर्वनाम्नामकच् प्राक् टेः ॥ कस्यापवाद इति। ननु च विरोधे सति बाध्यबाधकभावो भवति, काकचोश्च देशभेदान्नास्ति विरोधः, तत्कथं तस्यापवादः? नावश्यं देशकृत एव विरोधः, कि तहि? अर्थकृतोऽपि। काकचोश्च प्रयोजनमेकम् - अज्ञाताद्यर्थद्योतनं नाम, तस्मिन्नकचा कृते प्रयोजनाभावात्को न भविष्यति। सर्वके इति। अकचस्तन्मध्यपतितस्य तद्ग्रहणेन ग्रहणात्’जसः शी’ भवति, के तु सति न स्यात्। द्वयमपीहानुवर्तत इति। यद्येवम्, सर्वत्र सुबन्तस्य प्रातिपदिकस्य च प्राक् टेः प्रत्ययप्रसङ्गः? तत्राह - तत्रेति। क्वचित्प्रतिपदिकस्येति। ओकारसकारभकारादौ विभक्तौ। क्वचित्सुबन्तस्येति। उक्तादन्यत्र विभक्तौ। त्वयकीति। अकचो द्वितीयोऽकार उच्चारणार्थः। चित्करणं तु समुदायस्यान्तोदातार्थम्;’चितः सप्रकृतेर्बह्वकजर्थम्’ इति वचनात्। इदमेव चित्करणं लिङ्गम् - सप्रकृतेश्चितोऽन्तोदातत्वम्, न चिन्मात्रस्येति। तूष्णीमः कामिति। यथासम्भवमज्ञातादिष्वर्थेषु। मकारो देशविध्यर्थः। अन्त्यादचः परः काम् भवति। अज्ञाताद्यर्थाविवक्षायां तूण्णीमित्येव भवति। शीले क इति। शीलमुस्वभावः, नियमश्च। अज्ञाताद्यपवादः। शीलं तूष्णीं स्वभावाच्चा दद्वान् तूष्णीक इत्युच्यते, न तच्छीलमात्रम् ॥
Nyaas¶
तिङन्तादयं प्रत्ययो नेष्यते। अकजिष्यते इति। कथं पुनरेतयोर्भावाभावौ लभ्येते? इत्याह - तिङश्चेत्यनुवृत्तम् इत्यादि। उत्तरत्रैवेत्यवधारणेन त्विहानुवृत्तमपि कप्रत्ययेन सम्बन्धनीयमिति दर्शयति। तच्च पूर्वसूत्राद्वचनग्रहणेऽप्यनुवर्तमाने यत उत्पद्यमानेन प्रत्ययेनाज्ञातादेरर्थस्य वचनं भवति, तत्रैव तेन भवितव्यम्। न च तिङ्न्तादुत्पद्यमानेनापि कप्रत्ययेन सोऽर्थः शक्यते द्योतयितुं, अकचा तु शक्यते। तस्मात्? तिङ्श्च (5.3.56) इत्येतदनुवृत्तमुत्तरसूत्रेणाकचा सम्बन्धनीयम्, नेह कप्रत्ययेन। प्राग्ग्रहणमपिद्योतनार्थम्, इवग्रहणमवध्यर्थम्; अन्यथाधिकारपरिमाणं न ज्ञायते॥
Prakriyasarvasvam¶
‘इवे प्रतिकृतौ’ (५-३-९६) इत्यतः प्राक् कविधिः ॥