53070: प्रागिवात्कः =================== **Padacheda:** प्राक् | S | 0 | 0 | इवात् | S | 5 | 1 | कः | S | 1 | 1 | Sutrartha --------- **अधिकारोऽयम् । इतः परम् 'इवे प्रतिकृतौ' 5.3.96 इति यावत् उक्तेषु विषयेषु प्रातिपदिकेभ्यः 'क' प्रत्ययः भवति ।** अधिकारसूत्रम् इदम् । अस्य अधिकारः **अवक्षेपणे कन्** (5.3.95) इतिपर्यन्तम् प्रचलति । अस्मिन् अर्थे उक्तेषु सन्दर्भेषु प्रातिपदिकेभ्यः औत्सर्गिकरूपेण क-प्रत्ययः स्वार्थे विधीयते । अस्मिन् अधिकारे पाठिताः मुख्याः सन्दर्भाः एतादृशाः सन्ति - 1. अज्ञातम् - **अज्ञाते** (5.3.73) इति सूत्रम् । 2. कुत्सितम् - **कुत्सिते** (5.3.74) तथा **संज्ञायां कन्** (5.3.75), **अवक्षेपणे कन्** (5.3.95) एतानि सूत्राणि । 3. अनुकम्पा - **अनुकम्पायाम्** (5.3.76) इत्यतः **शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात्** (5.3.84) एतावन्ति सूत्राणि । 4. अल्पम् - **अल्पे** (5.3.85) एतत् सूत्रम् । 5. ह्रस्वम् - **ह्रस्वे** (5.3.86) इत्यतः **कासूगोणीभ्यां ष्टरच्** (5.3.90) एतानि सूत्राणि । 6. तनुत्वम् - **वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे** (5.3.91) इति सूत्रम् । 7. निर्धारणम् - **किंयत्तदो निर्द्धारणे द्वयोरेकस्य डतरच्** (5.3.92) इत्यतः **एकाच्च प्राचाम्** (5.3.94) एतानि सूत्राणि । एतेषु सर्वेष विषयेषु प्रातिपदिकात् स्वार्थे 'क' प्रत्ययः (उत तस्य अपवादः) विधीयते । स्मर्तव्यम् - 1. 'क' इति प्रत्ययः तद्धितप्रत्ययः अस्ति, अतः **लशक्वतद्धिते** (1.3.8) इत्यनेन अस्य इत्संज्ञा न भवति । 2. अङ्गस्य अन्ते यदि विसर्गः विद्यते, तर्हि तस्मात् क-प्रत्यये परे **सोऽपदादौ** (8.3.38) इत्यनेन विसर्गस्य नित्यम् सकारादेशः एव भवति । यथा - यशः + क → यशस्क । Vasu English Summary -------------------- The affix क governs all sūtras as far as इवे प्रतिकृतौ (5.3.96). Vasu English Translation ------------------------ The affix क governs all sūtras as far as इवे प्रतिकृतौ (5.3.96). Properly speaking क extends only upto (5.3.86). Thus in the *sutra* अज्ञाते (5.3.73), the word क must be supplied to complete the sense. As अश्वकः, गर्दभकः ॥ This affix क does not come after finite verbs (तिङन्त), but the affix अकच् (5.3.71) comes after such verbs. In other words, the phrase तिङश्च (5.3.56), should be connected, by way of *anuvritti*, with the next *sutra*, and not with this. Kashika ------- **इवे प्रतिकृतौ** (५.३.९६) इति वक्ष्यति। प्रागेतस्मादिवसंशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामः, कप्रत्ययस्तेष्वधिकृतो वेदितव्यः। वक्ष्यति — **अज्ञाते** (५.३.७३) इति। अश्वकः। गर्दभकः। तिङन्तादयं प्रत्ययो नेष्यते, अकजिष्यते। **तिङश्च** (५.३.५६) इत्यनुवृत्तमुत्तरसूत्रेणैव संबन्धनीयम्॥ Siddhanta Kaumudi ----------------- इवे प्रतिकृतौ (SK2051) इत्यतः प्राक् काधिकारः ॥ Laghu Siddhanta Kaumudi ----------------------- इवे प्रतिकृतावित्यतः प्राक्काधिकारः॥ Balamanorama ------------ **प्रागिवात्कः** - प्रागिवात्कः ।इवशब्दस्तद्घटितसूत्रपर इति मत्वाह — इवे प्रतीति । Padamanjari ----------- तिङ्न्तादयं प्रत्ययो नेष्यत इति। तदर्थमत्र'सुपः' इत्येव सम्बन्धनीयमिति भावः। अकजिष्यत इति। तदर्थं तत्र'सुपः' इत्येव सम्बन्धनीयमिति भावः। कथं पुनरनुवर्तमानं शक्यमसम्भनधुम् ? तत्राह - तिङ्श्चेत्यनुवृतमिति। अत्र च व्याख्यानमेव शरणम्। इह'प्राक्कुट।लः' इति वक्तव्यम्, न हि'कुटीशमीशुण्डाब्यो रः' इत्यारब्यास्योपयोगः; प्रत्ययान्तरैरवष्टब्धत्वात्? उतरार्थं त्वियतोऽवधेर्ग्रहणम्,'वा बहूनाम्' इत्यत्र हि वावचनमकजर्थम्। एवमपि प्राक्कन इति वक्तव्यम् ठवक्षेपणे कन्ऽ इत्ययमवधिः। कुतो नु खल्वेतद्? अयमेव कनवधिः, न पुनर्हस्वे,'संज्ञायां कन्' 'कुत्सिते संज्ञायां कन्' इत्येतयोरन्यतरोऽवधिः स्यात् ॥ अव्ययसर्वनाम्नामकच् प्राक् टेः ॥ कस्यापवाद इति। ननु च विरोधे सति बाध्यबाधकभावो भवति, काकचोश्च देशभेदान्नास्ति विरोधः, तत्कथं तस्यापवादः? नावश्यं देशकृत एव विरोधः, कि तहि? अर्थकृतोऽपि। काकचोश्च प्रयोजनमेकम् - अज्ञाताद्यर्थद्योतनं नाम, तस्मिन्नकचा कृते प्रयोजनाभावात्को न भविष्यति। सर्वके इति। अकचस्तन्मध्यपतितस्य तद्ग्रहणेन ग्रहणात्'जसः शी' भवति, के तु सति न स्यात्। द्वयमपीहानुवर्तत इति। यद्येवम्, सर्वत्र सुबन्तस्य प्रातिपदिकस्य च प्राक् टेः प्रत्ययप्रसङ्गः? तत्राह - तत्रेति। क्वचित्प्रतिपदिकस्येति। ओकारसकारभकारादौ विभक्तौ। क्वचित्सुबन्तस्येति। उक्तादन्यत्र विभक्तौ। त्वयकीति। अकचो द्वितीयोऽकार उच्चारणार्थः। चित्करणं तु समुदायस्यान्तोदातार्थम्;'चितः सप्रकृतेर्बह्वकजर्थम्' इति वचनात्। इदमेव चित्करणं लिङ्गम् - सप्रकृतेश्चितोऽन्तोदातत्वम्, न चिन्मात्रस्येति। तूष्णीमः कामिति। यथासम्भवमज्ञातादिष्वर्थेषु। मकारो देशविध्यर्थः। अन्त्यादचः परः काम् भवति। अज्ञाताद्यर्थाविवक्षायां तूण्णीमित्येव भवति। शीले क इति। शीलमुस्वभावः, नियमश्च। अज्ञाताद्यपवादः। शीलं तूष्णीं स्वभावाच्चा दद्वान् तूष्णीक इत्युच्यते, न तच्छीलमात्रम् ॥ Nyaas ----- तिङन्तादयं प्रत्ययो नेष्यते। `अकजिष्यते` इति। कथं पुनरेतयोर्भावाभावौ लभ्येते? इत्याह - `तिङश्चेत्यनुवृत्तम्` इत्यादि। उत्तरत्रैवेत्यवधारणेन त्विहानुवृत्तमपि कप्रत्ययेन सम्बन्धनीयमिति दर्शयति। तच्च पूर्वसूत्राद्वचनग्रहणेऽप्यनुवर्तमाने यत उत्पद्यमानेन प्रत्ययेनाज्ञातादेरर्थस्य वचनं भवति, तत्रैव तेन भवितव्यम्। न च तिङ्न्तादुत्पद्यमानेनापि कप्रत्ययेन सोऽर्थः शक्यते द्योतयितुं, अकचा तु शक्यते। तस्मात्? `तिङ्श्च` (5.3.56) इत्येतदनुवृत्तमुत्तरसूत्रेणाकचा सम्बन्धनीयम्, नेह कप्रत्ययेन। प्राग्ग्रहणमपिद्योतनार्थम्, इवग्रहणमवध्यर्थम्; अन्यथाधिकारपरिमाणं न ज्ञायते॥ Prakriyasarvasvam ----------------- 'इवे प्रतिकृतौ' (५-३-९६) इत्यतः प्राक् कविधिः ॥