53067: ईषदसमाप्तौ कल्पब्देश्यदेशीयरः¶
Padacheda: ईषद्-असमाप्तौ | S | 7 | 1 |
कल्पप्-देश्य-देशीयरः | S | 1 | 3 |
Sutrartha¶
‘किञ्चित् न्यूनम्’ अस्मिन् सन्दर्भे प्रातिपदिकात् तिङन्तात् च स्वार्थे ‘कल्पप्’, ‘देश्य’ तथा ‘देशीयर्’ प्रत्ययाः विधीयन्ते ।
कस्यचन गुणस्य विषये ‘अस्य गुणस्य किञ्चित् न्यूनता विद्यते’ इति द्योतयितुम् प्रातिपदिकात् तिङन्तात् च स्वार्थे ‘कल्पप्’, ‘देश्य’ तथा ‘देशीयर्’ एते प्रत्ययाः अनेन सूत्रेण विधीयन्ते । उदाहरणानि कानिचन पश्यामः - 1. कश्चन देवदत्तः यदि कस्मिंश्चित् कार्ये बह्वंशरूपेण पटुः अस्ति परन्तु सम्पूर्णरूपेण न, तर्हि तस्य निर्देशार्थम् ‘पटु’ शब्दात् ‘कल्पप्’, ‘देश्य’, तथा ‘देशीयर्’ एते प्रत्ययाः भवन्ति । यथा - अयम् देवदत्तः पटुकल्पः पटुदेश्यः पटुदेशीयः वा (Devadatta is almost an expert, but not completely - इति आशयः) । 2. किञ्चन फलम् प्रायः बह्वंशरूपेण मृदु विद्यते परन्तु सम्पूर्णरूपेण न, तर्हि तस्य निर्देशार्थम् ‘मृदु’ शब्दात् एते त्रयः प्रत्ययाः विधीयन्ते । यथा - आम्रफलम् इदम् मृदुकल्पम् मृदुदेश्यम् मृदुदेशीयम् वा । This mango is mostly soft, but not completely - इति आशयः । 3. कश्चन यज्ञदत्तः बह्वंशरूपेण विद्वत्तां प्राप्तवान्, परन्तु इतोऽपि सम्पूर्णरूपेण विद्वान् नास्ति तस्य निर्देशः ‘विद्वत्कल्प’, ‘विद्वद्देश्य’, ‘विद्वद्देशीय’ इत्यनेन भवति । 4. ‘देवदत्तः किञ्चित् न्यूनम् पचति’ (The cooking skill of Devadatta is a little below the perfection) अस्मिन् सन्दर्भे ‘पचति’इत्यस्मात् तिङन्तात् ‘कल्पप्’, ‘देश्य’, तथा ‘देशीयर्’ एते प्रत्ययाः भवन्ति । यथा - देवदत्तः पचतिकल्पम् पचतिदेश्यम् पचतिदेशीयम् वा अस्ति । अत्र सर्वत्र तद्धितान्तशब्दः क्रियाप्रधानः अस्ति (= क्रियायाः अर्थे एव प्रयुज्यते) अतः तस्य प्रयोगः क्रियाविशेषणरूपेणैव क्रियते, न हि कर्तुः विशेषणेन । इत्युक्ते, अयम् शब्दः नित्यम् नपुंसकलिङ्गे द्वितीयायाः एकवचने एव प्रयुज्यते । केचन प्रयोगाः एते - (अ) तौ किञ्चित् न्यूनम् पचतः = तौ पचतःकल्पम् पचतोदेश्यम् पचतोदेशीयम् वा स्तः । अत्र ‘पचतः’ अस्मात् तिङन्तात् एते त्रयः प्रत्ययाः विधीयन्ते । (आ) ते किञ्चित् न्यूनम् पचन्ति = ते पचन्तिकल्पम् पचन्तिदेश्यम् पचन्तिदेशीयम् वा सन्ति । (इ) त्वं किञ्चित् न्यूनम् पचसि = त्वम् पचसिकल्पम् पचसिदेश्यम् पचसिदेशीयम् वा असि । 5. देवदत्तः पञ्चवर्षकल्पः पञ्चवर्षदेश्यः पञ्चवर्षदेशीयः वा = देवदत्तस्य आयुः पञ्चवर्षात् किञ्चित् न्यूनमस्ति । ईषदूनः पञ्चवर्षः इत्याशयः । 6. रघुवंशे - ‘प्रभातकल्पा शशिनेव शर्वरी’ (३.२) - ईषदूनः प्रभातः इत्याशयः । A little before morning. ज्ञातव्यम् - 1. अस्मिन् सूत्रे ‘ईषद्-असमाप्तिः’ इति शब्दः प्रयुज्यते । अत्र ‘ईषद्’ इत्युक्ते ‘किञ्चित्’ (slight / a little) , तथा ‘समाप्तिः’ इत्युक्ते ‘सम्पूर्णता’ (completeness) । ‘सम्पूर्णतायाः किञ्चित् अभावः’ (A little below the completion) अस्य निर्देशार्थमत्र ‘ईषद्-असमाप्तिः’ इति प्रयोगः कृतः अस्ति । 2. कल्पप्, देश्य, देशीयर् - एतेषु प्रत्ययेषु परेषु स्त्रीवाचकस्य अङ्गस्य तसिलादिष्वाकृत्वसुचः (6.3.35) इत्यनेन पुंवद्भावः भवति । यथा - ‘सीता इयम् बह्वंशरूपेण पट्वी, परन्तु न हि सम्पूर्णरूपेण’ - अस्मिन् सन्दर्भे ‘पट्वी’ शब्दात् कल्पप्, देश्य, देशीयर् एतेषु त्रिषु प्रत्ययेषु कृतेषु अङ्गस्य पुंवद्भावः भवति - पट्वी + कल्पप् / देश्य / देशीयर् → पटु + कल्पप् / देश्य / देशीयर् [पुंवद्भावः] → पटुकल्प / पटुदेश्य / पटुदेशीय → पटुकल्प / पटुदेश्य / पटुदेशीय + टाप् [अजाद्यतष्टाप् (4.1.4) इति टाप्] → पटुकल्पा / पटुदेश्या / पटुदेशीया 3. यदि अङ्गम् ङीप्-प्रत्ययान्तमस्ति, तर्हि ‘कल्पप्’ प्रत्यये परे पुंवद्भावं बाधित्वा घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः (6.3.43) इत्यनेन अङ्गस्य ह्रस्वादेशः भवति । यथा - दासी + कल्पप् → दासिकल्पा । (Almost a servant इत्याशयः) । ‘देश्य’ / ‘देशीयर्’ प्रत्यययोः परयोः तु पुंवद्भावः एव भवति । यथा - दासी + देश्य / देशीयर् → दासदेश्या / दासदेशीया ।
Vasu English Summary¶
The affixes कल्पप् (कल्प), देश्य and देशीयर् (देशीय) come after a nominal or verbal stem which connotes a slight incompleteness.
Vasu English Translation¶
The affixes कल्पप् (कल्प), देश्य and देशीयर् (देशीय) come after a nominal or verbal stem which connotes a slight incompleteness. The word समाप्ति means ‘fullness of objects’. A little non-fullness is called ईषदसमाप्ति ॥ Thus पटुकल्पः, पटुदेश्यः or पटुदेशीयः ‘clever but slightly incomplete’ i. e. ‘tolerably clever’. मृदुकल्पः, मृदुदेश्यः, मृदुदेशीयः ॥ So also after verbs, as पचतिकल्पम्, जल्पतिकल्पम् ॥ &c.
Bhashya¶
इर्षदसमाप्तौ कल्पब्देश्यदेशीयरः (2225) (कल्पप्प्रत्ययाधिकरणम्) (5842 एकदेशिवार्तिकम्॥ 1 ॥) - इर्षदसमाप्तौ क्रियाप्रधानत्वाल्लिङ्गवचनानुपपत्तिः - (भाष्यम्) इर्षदसमाप्तौ क्रियाप्रधानत्वाल्लिङ्गवचनयोरनुपपत्तिः। पटुकल्पः, पटुकल्पौ, पटुकल्पा इति। एकोऽयमर्थ इर्षदसमाप्तिर्नाम, तस्यैकत्वादेकवचनं प्राप्नोति॥ (5843 सिद्धान्तवार्तिकम्॥ 2 ॥) - प्रकृत्यर्थविशेषणत्वात्सिद्धम् - (भाष्यम्) सिद्धमेतत्। कथम्? नायं प्रत्ययार्थः। किं तर्हि? प्रकृत्यर्थविशेषणमेतत् - ःइर्षदसमाप्तौ यत्प्रातिपदिकं वर्तते तस्मात्कल्पबादयो भवन्ति। कस्मिन्नर्थे? स्वार्थ इति। स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते॥ (5844 प्रकृत्यर्थाक्षेपवार्तिकम्॥ 3 ॥) - प्रकृत्यर्थे चेल्लिङ्गवचनानुपपत्तिः - (भाष्यम्) प्रकृत्यर्थे चेल्लिङ्गवचनयोरनुपपत्तिः। गुडकल्पा द्राक्षा। तैलकल्पा प्रसन्ना। पयस्कल्पा यवागूरिति॥ (5845 समाधानवार्तिकम्॥ 4 ॥) - सिद्धं तु तत्संबन्ध उत्तरपदार्थे प्रत्ययवचनात् - (भाष्यम्) सिद्धमेतत्। कथम्? तत्संबन्धेउःइर्षदसमाप्तिसंबन्धे उत्तरपदार्थे प्रत्ययो भवतीति वक्तव्यम्। सिध्यति। सूत्रं तर्हि भिद्यते। यथान्यासमेवास्तु॥ (यथान्यासे समीहितार्थसाधकभाष्यम्) ननु चोक्तम् इर्षदसमाप्तौ क्रियाप्रधानत्वाल्लिङ्गवचनानुपपत्तिः इति। परिहृतमेतत् - प्रकृत्यर्थविशेषणत्वात्सिद्धम् इति। ननु चोक्तं - प्रकृत्यर्थे चेल्लिङ्गवचनानुपपत्तिः इति। नैष दोषः। आचार्यप्रवृत्तिर्ज्ञापयति - स्वार्थिका अतिवर्तन्ते अपि लिङ्गवचनानीति यदयं णचः स्त्रियामञ्ञ् (5.4.14) इति स्त्रीग्रहणं करोति। यद्येतज्ज्ञाप्यते - बहुगुडो द्राक्षा, बहुतैलं प्रसन्ना, बहुपयो यवागूरिति, अत्रापि प्राप्नोति। नाप्यतिवर्तन्ते॥ (सूत्रोदाहरणसंपादकभाष्यम्) किं पुनरिहोदाहरणम्? पटुकल्पो मृदुकल्प इति। नैतदस्ति। निर्ज्ञातस्यार्थस्य समाप्तिर्वा भवति, विसमाप्तिर्वा, गुणश्चानिर्ज्ञातः। इदं तर्हि - गुडकल्पा द्राक्षा, तैलकल्पा प्रसन्ना, पयस्कल्पा यवागूरिति। द्रव्यमप्यनिर्ज्ञातम्। इदं तर्हि - कृतकल्पम्, भुक्तकल्पम्, पीतकल्पम् - इति॥ (5846 कृतकल्पस्योदाहरणत्वाभावबोधकं वार्तिकम्॥5॥) - क्तान्तात्प्रत्ययविधानानुपपत्तिः, क्तस्य भूतकाललक्षणत्वात्कल्पादीनां चासमाप्तिवचनात् - (भाष्यम्) क्तान्तात्प्रत्ययविधेरनुपपत्तिः। किं कारणम्? क्तस्य भूतकाललक्षणत्वात् भूतकाललक्षणः क्तः। कल्पादीनां चासमाप्तिवचनात् विसमाप्तिवचनाश्च कल्पादयः। न चास्तिसंभवो यद्भूतकालश्च स्यादसमाप्तिश्चेति॥ (5847 कृतकल्पस्योदाहरणत्वसंपादकवार्तिकम्॥ 6 ॥) - सिद्धं तु आशंसायां भूतवद्वचनात् - (भाष्यम्) सिद्धमेतत्। कथम्? आशंसायां भूतवच्च (3.3.132) इत्येवमत्र क्तो भविष्यति॥ (उदाहरणसंपादकं भाष्यम्) इदं चाप्युदाहरणं - पटुकल्पः, मृदुकल्प इति। ननु चोक्तं निर्ज्ञातस्यार्थस्य समाप्तिर्वा भवति विसमाप्तिर्वा गुणश्चानिर्ज्ञातः इति। लोकतो व्यवहारं दृष्ट्वा गुणस्य निर्ज्ञानम्। तद्यथा-पटुरयं ब्राह्मण इत्युच्यते - यो लघुनोपायेनार्थान् साधयति। पटुकल्पोऽयमित्युच्यते - यो न तथा साधयति। इदं चाप्युदाहरणम् - गुडकल्पा द्राक्षा, तैलकल्पा प्रसन्ना, पयस्कल्पा यवागूरिति। ननु चोक्तं द्रव्यमप्यनिर्ज्ञातम् इति। लोकतो द्रव्यमपि निर्ज्ञातम्॥
Kashika¶
संपूर्णता पदार्थानां समाप्तिः। स्तोकेनासंपूर्णता ईषदसमाप्तिः। प्रकृत्यर्थविशेषणं चैतत्। ईषदसमाप्तिविशिष्टेऽर्थे वर्तमानात् प्रातिपदिकात् कल्पब् देश्य देशीयर् इत्येते प्रत्यया भवन्ति। ईषदसमाप्तः पटुः पटुकल्पः। पटुदेश्यः। पटुदेशीयः। मृदुकल्पः। मृदुदेश्यः। मृदुदेशीयः। तिङश्चेत्येव — पचतिकल्पम्। जल्पतिकल्पम्॥
Siddhanta Kaumudi¶
ईषदूनो विद्वान् विद्वत्कल्पः । यशस्कल्पम् । यजुः कल्पम् । विद्वद्देश्यः । विद्वद्देशीयः । पचतिकल्पम् ॥
Laghu Siddhanta Kaumudi¶
ईषदूनो विद्वान् विद्वत्कल्पः। विद्वद्देश्यः। विद्वद्देशीयः। पचतिकल्पम्॥
Padamanjari¶
सम्पूर्णतेति। प्रवृत्तिनिमितस्य पौष्कल्यमित्यर्थः। पदार्थशबप्देन पर्यवसानभूमिर्विवक्षिता। प्रकृत्यर्थविशेषणं चैतदिति। न प्रत्ययार्थः। यदि तथा स्याद्, गुडस्येषदसमाप्तिर्द्राक्षाया गुडकल्पा द्रक्षाया इति स्यात्, गुडकल्पा द्राक्षेति द्रव्येण सामानाधिकरण्यं न स्यात्, एकवचनमेव च स्यात्, इष्यते चाभिधेयवल्लिङ्गवचने स्यातामिति। तस्मात्प्रकृत्यर्थंविशेषणम्। स्वार्थ इति। न च कुमारिकल्पेत्यत्राप्यनतिरिक्तं वय इति ङीपः प्रसङ्गः; न हि कल्पबन्तस्य वयःप्रवृत्तिनिमितम्, किं तर्हि? तद्गतेषदसमाप्तिः। ईषदसमाप्तः पटुअः पटुअकल्पः, मृदुकल्प इति। ननु च योऽर्थ एतावानेवेति परिज्ञातः, तस्य समाप्तिर्वा भवत्यसमाप्तिर्वा, न च पाटवादिगुण एतावानिति निर्ज्ञातः, यावतावदपि हि पाटवं भवत्येव, तत् कथमस्येषदसमाप्तिः; एतेन जातिशब्दा व्याख्याताः, न हि तेऽक्तपरिमाणमर्थमाचक्षते ? इदं तु युक्तमुदाहर्तुम् - कृतकल्पम्, भुक्तकल्पमिति। धात्वर्थो हि फलावच्छिन्नो व्यापारनिचयोऽक्तपरिमाणः। नन्वत्रापि भूते क्तः, फलनिष्पतौ च धात्वर्थो भूतो भवति, भूतस्य च तस्य कुत ईषदसमाप्तिः? यदा तहि क्रियैकदेशापवर्गाश्रयो भूते क्तः, तदोदाहरणम् - कृतकल्पं वस्त्रमिति। तथा च कृतादय एकदेशकरणाश्रया प्रयोगा दृश्यन्ते। यदा भविष्यत्कालाया ईषदसमाप्तायाः क्रियाया आशस्यमानत्वात् ठाशंसायां भूतवच्चऽ इति भविष्यति क्तप्रत्ययः, तदापि भवत्युदाहरणम्। एवम्’ञीतः क्तः’ ,’मतिबुद्धिपूजार्थेब्यश्च’ इति वर्तमानविषयक्तान्तादपि युक्तः प्रत्ययः - पूजितकल्पम्, जातकल्पमिति। तथा तिङ्न्तमपि कालत्रविषयं भवत्युदाहरणम् - पचतिकल्पम्, पक्ष्यतिकल्पम्, अपाक्षीत्कल्पमिति। गुणवचनं त्वयुक्तम्। तदपि युक्तम्, ननु चोक्तं यावतावदपि पाटवं भवत्येव नास्येषदसमाप्तिरिति? नैतदस्ति; लोकत एव गुणस्यापीयताया निर्ज्ञातत्वात्। लोके हि पटुअरयमित्युच्यते, यो लघुनैवोपायेन साद्यार्थान्साधयति। यस्यु न तथा साधयति, किन्त्वीषदूनम्, सा पटुअकल्पः। तद्विपर्ययेण मृदु-मृदुकल्पौ व्याख्यातौ। जातिवचने कथं गुडकल्पा द्रक्षा, तैलकल्पा प्रसन्नेति? उच्यते; गुडगतमाधुर्यश्रयेण द्राक्षायां गुडत्वारोपाद् गुडजात्यभावाच्च ईषदसमाप्तं गुडत्वं द्राक्षायाः। तथा गुडकल्पो गुड इत्यपि भवति। कथं पुनः स एवेषदसमाप्तः सम्भवति? गुणहानेः - यावन्माधुर्यं गुडस्य प्रसिद्धम्, न तावत्पुराणत्वादिदोषोपहतस्य। तेनासावीषदसमाप्तो गुड इत्युच्यते ॥
Prakriyasarvasvam¶
सुप्तिङन्तेभ्य ईषदपूर्णतायामेते स्युः । ईषदूनो विद्वान् विद्वत्कल्पः । यशस्कल्पम् । विद्वद्देश्यः । विद्वद्देशीयः । एवं पचतिकल्पमित्यादि । पद्मकल्पं मुखमित्यादौ पद्मगुणयोगात् पद्मत्वजात्यभावाच्चेषदसमाप्तिरित्यर्थात् सादृश्यम् । माधुर्यादिन्यूनतया च गुळकल्पो गुळ इत्याद्यपि स्यादिति हरः ॥
Sutra Prayogas¶
कुमारकल्पं (रघुवंशम्): ईषदसमाप्तौ इत्यादिना कल्पप्प्रत्ययः।
शर्वकल्पः (रघुवंशम्): ईषदसमाप्तौ इति कल्पप्प्रत्ययः।
षड्वर्षदेशीयम् (रघुवंशम्): ईषदसमाप्तौ कल्पब्देश्यदेशीयरः इति देशीयर्प्रत्ययः।
प्रतिपन्नकल्पम् (कुमारसम्भवम्): ईषदसमाप्तौ कल्पब्देश्यदेशीयरः इति कल्पप्रत्ययः।
स्फुरद्बालकदम्बकल्पैः (कुमारसम्भवम्): ईषदसमाप्तौ कल्पब्देश्यदेशीयरः इति कल्पप्प्रत्ययः।
शाकपलाशदेश्यताम् (शिशुपालवधम्): ईषदसमाप्तौ कल्पब्देश्यदेशीयरः इति देश्यप्रत्ययः।
बर्हिणदेशीयाः (शिशुपालवधम्): ईषदसमाप्तौ- इत्यादिना देशीयर्प्रत्ययः।
शत-मन्यु-कल्पो (भट्टिकाव्यम्): ईपदसमाप्तौ इति कल्पप् ।