53067: ईषदसमाप्तौ कल्पब्देश्यदेशीयरः ==================================== **Padacheda:** ईषद्-असमाप्तौ | S | 7 | 1 | कल्पप्-देश्य-देशीयरः | S | 1 | 3 | Sutrartha --------- **'किञ्चित् न्यूनम्' अस्मिन् सन्दर्भे प्रातिपदिकात् तिङन्तात् च स्वार्थे 'कल्पप्', 'देश्य' तथा 'देशीयर्' प्रत्ययाः विधीयन्ते ।** कस्यचन गुणस्य विषये 'अस्य गुणस्य किञ्चित् न्यूनता विद्यते' इति द्योतयितुम् प्रातिपदिकात् तिङन्तात् च स्वार्थे 'कल्पप्', 'देश्य' तथा 'देशीयर्' एते प्रत्ययाः अनेन सूत्रेण विधीयन्ते । उदाहरणानि कानिचन पश्यामः - 1. कश्चन देवदत्तः यदि कस्मिंश्चित् कार्ये बह्वंशरूपेण पटुः अस्ति परन्तु सम्पूर्णरूपेण न, तर्हि तस्य निर्देशार्थम् 'पटु' शब्दात् 'कल्पप्', 'देश्य', तथा 'देशीयर्' एते प्रत्ययाः भवन्ति । यथा - अयम् देवदत्तः पटुकल्पः पटुदेश्यः पटुदेशीयः वा (Devadatta is almost an expert, but not completely - इति आशयः) । 2. किञ्चन फलम् प्रायः बह्वंशरूपेण मृदु विद्यते परन्तु सम्पूर्णरूपेण न, तर्हि तस्य निर्देशार्थम् 'मृदु' शब्दात् एते त्रयः प्रत्ययाः विधीयन्ते । यथा - आम्रफलम् इदम् मृदुकल्पम् मृदुदेश्यम् मृदुदेशीयम् वा । This mango is mostly soft, but not completely - इति आशयः । 3. कश्चन यज्ञदत्तः बह्वंशरूपेण विद्वत्तां प्राप्तवान्, परन्तु इतोऽपि सम्पूर्णरूपेण विद्वान् नास्ति तस्य निर्देशः 'विद्वत्कल्प', 'विद्वद्देश्य', 'विद्वद्देशीय' इत्यनेन भवति । 4. 'देवदत्तः किञ्चित् न्यूनम् पचति' (The cooking skill of Devadatta is a little below the perfection) अस्मिन् सन्दर्भे 'पचति'इत्यस्मात् तिङन्तात् 'कल्पप्', 'देश्य', तथा 'देशीयर्' एते प्रत्ययाः भवन्ति । यथा - देवदत्तः पचतिकल्पम् पचतिदेश्यम् पचतिदेशीयम् वा अस्ति । अत्र सर्वत्र तद्धितान्तशब्दः क्रियाप्रधानः अस्ति (= क्रियायाः अर्थे एव प्रयुज्यते) अतः तस्य प्रयोगः क्रियाविशेषणरूपेणैव क्रियते, न हि कर्तुः विशेषणेन । इत्युक्ते, अयम् शब्दः नित्यम् नपुंसकलिङ्गे द्वितीयायाः एकवचने एव प्रयुज्यते । केचन प्रयोगाः एते - (अ) तौ किञ्चित् न्यूनम् पचतः = तौ पचतःकल्पम् पचतोदेश्यम् पचतोदेशीयम् वा स्तः । अत्र 'पचतः' अस्मात् तिङन्तात् एते त्रयः प्रत्ययाः विधीयन्ते । (आ) ते किञ्चित् न्यूनम् पचन्ति = ते पचन्तिकल्पम् पचन्तिदेश्यम् पचन्तिदेशीयम् वा सन्ति । (इ) त्वं किञ्चित् न्यूनम् पचसि = त्वम् पचसिकल्पम् पचसिदेश्यम् पचसिदेशीयम् वा असि । 5. देवदत्तः पञ्चवर्षकल्पः पञ्चवर्षदेश्यः पञ्चवर्षदेशीयः वा = देवदत्तस्य आयुः पञ्चवर्षात् किञ्चित् न्यूनमस्ति । ईषदूनः पञ्चवर्षः इत्याशयः । 6. रघुवंशे - 'प्रभातकल्पा शशिनेव शर्वरी' (३.२) - ईषदूनः प्रभातः इत्याशयः । A little before morning. ज्ञातव्यम् - 1. अस्मिन् सूत्रे 'ईषद्-असमाप्तिः' इति शब्दः प्रयुज्यते । अत्र 'ईषद्' इत्युक्ते 'किञ्चित्' (slight / a little) , तथा 'समाप्तिः' इत्युक्ते 'सम्पूर्णता' (completeness) । 'सम्पूर्णतायाः किञ्चित् अभावः' (A little below the completion) अस्य निर्देशार्थमत्र 'ईषद्-असमाप्तिः' इति प्रयोगः कृतः अस्ति । 2. कल्पप्, देश्य, देशीयर् - एतेषु प्रत्ययेषु परेषु स्त्रीवाचकस्य अङ्गस्य **तसिलादिष्वाकृत्वसुचः** (6.3.35) इत्यनेन पुंवद्भावः भवति । यथा - 'सीता इयम् बह्वंशरूपेण पट्वी, परन्तु न हि सम्पूर्णरूपेण' - अस्मिन् सन्दर्भे 'पट्वी' शब्दात् कल्पप्, देश्य, देशीयर् एतेषु त्रिषु प्रत्ययेषु कृतेषु अङ्गस्य पुंवद्भावः भवति - पट्वी + कल्पप् / देश्य / देशीयर् → पटु + कल्पप् / देश्य / देशीयर् [पुंवद्भावः] → पटुकल्प / पटुदेश्य / पटुदेशीय → पटुकल्प / पटुदेश्य / पटुदेशीय + टाप् [**अजाद्यतष्टाप्** (4.1.4) इति टाप्] → पटुकल्पा / पटुदेश्या / पटुदेशीया 3. यदि अङ्गम् ङीप्-प्रत्ययान्तमस्ति, तर्हि 'कल्पप्' प्रत्यये परे पुंवद्भावं बाधित्वा **घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः** (6.3.43) इत्यनेन अङ्गस्य ह्रस्वादेशः भवति । यथा - दासी + कल्पप् → दासिकल्पा । (Almost a servant इत्याशयः) । 'देश्य' / 'देशीयर्' प्रत्यययोः परयोः तु पुंवद्भावः एव भवति । यथा - दासी + देश्य / देशीयर् → दासदेश्या / दासदेशीया । Vasu English Summary -------------------- The affixes कल्पप् (कल्प), देश्य and देशीयर् (देशीय) come after a nominal or verbal stem which connotes a slight incompleteness. Vasu English Translation ------------------------ The affixes कल्पप् (कल्प), देश्य and देशीयर् (देशीय) come after a nominal or verbal stem which connotes a slight incompleteness. The word समाप्ति means 'fullness of objects'. A little non-fullness is called ईषदसमाप्ति ॥ Thus पटुकल्पः, पटुदेश्यः or पटुदेशीयः 'clever but slightly incomplete' i. e. 'tolerably clever'. मृदुकल्पः, मृदुदेश्यः, मृदुदेशीयः ॥ So also after verbs, as पचतिकल्पम्, जल्पतिकल्पम् ॥ &c. Bhashya ------- इर्षदसमाप्तौ कल्पब्देश्यदेशीयरः (2225) (कल्पप्प्रत्ययाधिकरणम्) (5842 एकदेशिवार्तिकम्॥ 1 ॥) - इर्षदसमाप्तौ क्रियाप्रधानत्वाल्लिङ्गवचनानुपपत्तिः - (भाष्यम्) इर्षदसमाप्तौ क्रियाप्रधानत्वाल्लिङ्गवचनयोरनुपपत्तिः। पटुकल्पः, पटुकल्पौ, पटुकल्पा इति। एकोऽयमर्थ इर्षदसमाप्तिर्नाम, तस्यैकत्वादेकवचनं प्राप्नोति॥ (5843 सिद्धान्तवार्तिकम्॥ 2 ॥) - प्रकृत्यर्थविशेषणत्वात्सिद्धम् - (भाष्यम्) सिद्धमेतत्। कथम्? नायं प्रत्ययार्थः। किं तर्हि? प्रकृत्यर्थविशेषणमेतत् - ःइर्षदसमाप्तौ यत्प्रातिपदिकं वर्तते तस्मात्कल्पबादयो भवन्ति। कस्मिन्नर्थे? स्वार्थ इति। स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते॥ (5844 प्रकृत्यर्थाक्षेपवार्तिकम्॥ 3 ॥) - प्रकृत्यर्थे चेल्लिङ्गवचनानुपपत्तिः - (भाष्यम्) प्रकृत्यर्थे चेल्लिङ्गवचनयोरनुपपत्तिः। गुडकल्पा द्राक्षा। तैलकल्पा प्रसन्ना। पयस्कल्पा यवागूरिति॥ (5845 समाधानवार्तिकम्॥ 4 ॥) - सिद्धं तु तत्संबन्ध उत्तरपदार्थे प्रत्ययवचनात् - (भाष्यम्) सिद्धमेतत्। कथम्? तत्संबन्धेउःइर्षदसमाप्तिसंबन्धे उत्तरपदार्थे प्रत्ययो भवतीति वक्तव्यम्। सिध्यति। सूत्रं तर्हि भिद्यते। यथान्यासमेवास्तु॥ (यथान्यासे समीहितार्थसाधकभाष्यम्) ननु चोक्तम् इर्षदसमाप्तौ क्रियाप्रधानत्वाल्लिङ्गवचनानुपपत्तिः इति। परिहृतमेतत् - प्रकृत्यर्थविशेषणत्वात्सिद्धम् इति। ननु चोक्तं - प्रकृत्यर्थे चेल्लिङ्गवचनानुपपत्तिः इति। नैष दोषः। आचार्यप्रवृत्तिर्ज्ञापयति - स्वार्थिका अतिवर्तन्ते अपि लिङ्गवचनानीति यदयं णचः स्त्रियामञ्ञ् (5.4.14) इति स्त्रीग्रहणं करोति। यद्येतज्ज्ञाप्यते - बहुगुडो द्राक्षा, बहुतैलं प्रसन्ना, बहुपयो यवागूरिति, अत्रापि प्राप्नोति। नाप्यतिवर्तन्ते॥ (सूत्रोदाहरणसंपादकभाष्यम्) किं पुनरिहोदाहरणम्? पटुकल्पो मृदुकल्प इति। नैतदस्ति। निर्ज्ञातस्यार्थस्य समाप्तिर्वा भवति, विसमाप्तिर्वा, गुणश्चानिर्ज्ञातः। इदं तर्हि - गुडकल्पा द्राक्षा, तैलकल्पा प्रसन्ना, पयस्कल्पा यवागूरिति। द्रव्यमप्यनिर्ज्ञातम्। इदं तर्हि - कृतकल्पम्, भुक्तकल्पम्, पीतकल्पम् - इति॥ (5846 कृतकल्पस्योदाहरणत्वाभावबोधकं वार्तिकम्॥5॥) - क्तान्तात्प्रत्ययविधानानुपपत्तिः, क्तस्य भूतकाललक्षणत्वात्कल्पादीनां चासमाप्तिवचनात् - (भाष्यम्) क्तान्तात्प्रत्ययविधेरनुपपत्तिः। किं कारणम्? क्तस्य भूतकाललक्षणत्वात् भूतकाललक्षणः क्तः। कल्पादीनां चासमाप्तिवचनात् विसमाप्तिवचनाश्च कल्पादयः। न चास्तिसंभवो यद्भूतकालश्च स्यादसमाप्तिश्चेति॥ (5847 कृतकल्पस्योदाहरणत्वसंपादकवार्तिकम्॥ 6 ॥) - सिद्धं तु आशंसायां भूतवद्वचनात् - (भाष्यम्) सिद्धमेतत्। कथम्? आशंसायां भूतवच्च (3.3.132) इत्येवमत्र क्तो भविष्यति॥ (उदाहरणसंपादकं भाष्यम्) इदं चाप्युदाहरणं - पटुकल्पः, मृदुकल्प इति। ननु चोक्तं निर्ज्ञातस्यार्थस्य समाप्तिर्वा भवति विसमाप्तिर्वा गुणश्चानिर्ज्ञातः इति। लोकतो व्यवहारं दृष्ट्वा गुणस्य निर्ज्ञानम्। तद्यथा-पटुरयं ब्राह्मण इत्युच्यते - यो लघुनोपायेनार्थान् साधयति। पटुकल्पोऽयमित्युच्यते - यो न तथा साधयति। इदं चाप्युदाहरणम् - गुडकल्पा द्राक्षा, तैलकल्पा प्रसन्ना, पयस्कल्पा यवागूरिति। ननु चोक्तं द्रव्यमप्यनिर्ज्ञातम् इति। लोकतो द्रव्यमपि निर्ज्ञातम्॥ Kashika ------- संपूर्णता पदार्थानां समाप्तिः। स्तोकेनासंपूर्णता ईषदसमाप्तिः। प्रकृत्यर्थविशेषणं चैतत्। ईषदसमाप्तिविशिष्टेऽर्थे वर्तमानात् प्रातिपदिकात् कल्पब् देश्य देशीयर् इत्येते प्रत्यया भवन्ति। ईषदसमाप्तः पटुः पटुकल्पः। पटुदेश्यः। पटुदेशीयः। मृदुकल्पः। मृदुदेश्यः। मृदुदेशीयः। तिङश्चेत्येव — पचतिकल्पम्। जल्पतिकल्पम्॥ Siddhanta Kaumudi ----------------- ईषदूनो विद्वान् विद्वत्कल्पः । यशस्कल्पम् । यजुः कल्पम् । विद्वद्देश्यः । विद्वद्देशीयः । पचतिकल्पम् ॥ Laghu Siddhanta Kaumudi ----------------------- ईषदूनो विद्वान् विद्वत्कल्पः। विद्वद्देश्यः। विद्वद्देशीयः। पचतिकल्पम्॥ Padamanjari ----------- सम्पूर्णतेति। प्रवृत्तिनिमितस्य पौष्कल्यमित्यर्थः। पदार्थशबप्देन पर्यवसानभूमिर्विवक्षिता। प्रकृत्यर्थविशेषणं चैतदिति। न प्रत्ययार्थः। यदि तथा स्याद्, गुडस्येषदसमाप्तिर्द्राक्षाया गुडकल्पा द्रक्षाया इति स्यात्, गुडकल्पा द्राक्षेति द्रव्येण सामानाधिकरण्यं न स्यात्, एकवचनमेव च स्यात्, इष्यते चाभिधेयवल्लिङ्गवचने स्यातामिति। तस्मात्प्रकृत्यर्थंविशेषणम्। स्वार्थ इति। न च कुमारिकल्पेत्यत्राप्यनतिरिक्तं वय इति ङीपः प्रसङ्गः; न हि कल्पबन्तस्य वयःप्रवृत्तिनिमितम्, किं तर्हि? तद्गतेषदसमाप्तिः। ईषदसमाप्तः पटुअः पटुअकल्पः, मृदुकल्प इति। ननु च योऽर्थ एतावानेवेति परिज्ञातः, तस्य समाप्तिर्वा भवत्यसमाप्तिर्वा, न च पाटवादिगुण एतावानिति निर्ज्ञातः, यावतावदपि हि पाटवं भवत्येव, तत् कथमस्येषदसमाप्तिः; एतेन जातिशब्दा व्याख्याताः, न हि तेऽक्तपरिमाणमर्थमाचक्षते ? इदं तु युक्तमुदाहर्तुम् - कृतकल्पम्, भुक्तकल्पमिति। धात्वर्थो हि फलावच्छिन्नो व्यापारनिचयोऽक्तपरिमाणः। नन्वत्रापि भूते क्तः, फलनिष्पतौ च धात्वर्थो भूतो भवति, भूतस्य च तस्य कुत ईषदसमाप्तिः? यदा तहि क्रियैकदेशापवर्गाश्रयो भूते क्तः, तदोदाहरणम् - कृतकल्पं वस्त्रमिति। तथा च कृतादय एकदेशकरणाश्रया प्रयोगा दृश्यन्ते। यदा भविष्यत्कालाया ईषदसमाप्तायाः क्रियाया आशस्यमानत्वात् ठाशंसायां भूतवच्चऽ इति भविष्यति क्तप्रत्ययः, तदापि भवत्युदाहरणम्। एवम्'ञीतः क्तः' ,'मतिबुद्धिपूजार्थेब्यश्च' इति वर्तमानविषयक्तान्तादपि युक्तः प्रत्ययः - पूजितकल्पम्, जातकल्पमिति। तथा तिङ्न्तमपि कालत्रविषयं भवत्युदाहरणम् - पचतिकल्पम्, पक्ष्यतिकल्पम्, अपाक्षीत्कल्पमिति। गुणवचनं त्वयुक्तम्। तदपि युक्तम्, ननु चोक्तं यावतावदपि पाटवं भवत्येव नास्येषदसमाप्तिरिति? नैतदस्ति; लोकत एव गुणस्यापीयताया निर्ज्ञातत्वात्। लोके हि पटुअरयमित्युच्यते, यो लघुनैवोपायेन साद्यार्थान्साधयति। यस्यु न तथा साधयति, किन्त्वीषदूनम्, सा पटुअकल्पः। तद्विपर्ययेण मृदु-मृदुकल्पौ व्याख्यातौ। जातिवचने कथं गुडकल्पा द्रक्षा, तैलकल्पा प्रसन्नेति? उच्यते; गुडगतमाधुर्यश्रयेण द्राक्षायां गुडत्वारोपाद् गुडजात्यभावाच्च ईषदसमाप्तं गुडत्वं द्राक्षायाः। तथा गुडकल्पो गुड इत्यपि भवति। कथं पुनः स एवेषदसमाप्तः सम्भवति? गुणहानेः - यावन्माधुर्यं गुडस्य प्रसिद्धम्, न तावत्पुराणत्वादिदोषोपहतस्य। तेनासावीषदसमाप्तो गुड इत्युच्यते ॥ Prakriyasarvasvam ----------------- सुप्तिङन्तेभ्य ईषदपूर्णतायामेते स्युः । ईषदूनो विद्वान् विद्वत्कल्पः । यशस्कल्पम् । विद्वद्देश्यः । विद्वद्देशीयः । एवं पचतिकल्पमित्यादि । पद्मकल्पं मुखमित्यादौ पद्मगुणयोगात् पद्मत्वजात्यभावाच्चेषदसमाप्तिरित्यर्थात् सादृश्यम् । माधुर्यादिन्यूनतया च गुळकल्पो गुळ इत्याद्यपि स्यादिति हरः ॥ Sutra Prayogas -------------- * **कुमारकल्पं** (रघुवंशम्): `ईषदसमाप्तौ` इत्यादिना कल्पप्प्रत्ययः। * **शर्वकल्पः** (रघुवंशम्): `ईषदसमाप्तौ` इति कल्पप्प्रत्ययः। * **षड्वर्षदेशीयम्** (रघुवंशम्): `ईषदसमाप्तौ कल्पब्देश्यदेशीयरः` इति देशीयर्प्रत्ययः। * **प्रतिपन्नकल्पम्** (कुमारसम्भवम्): `ईषदसमाप्तौ कल्पब्देश्यदेशीयरः` इति कल्पप्रत्ययः। * **स्फुरद्बालकदम्बकल्पैः** (कुमारसम्भवम्): `ईषदसमाप्तौ कल्पब्देश्यदेशीयरः` इति कल्पप्प्रत्ययः। * **शाकपलाशदेश्यताम्** (शिशुपालवधम्): `ईषदसमाप्तौ कल्पब्देश्यदेशीयरः` इति देश्यप्रत्ययः। * **बर्हिणदेशीयाः** (शिशुपालवधम्): `ईषदसमाप्तौ-` इत्यादिना देशीयर्प्रत्ययः। * **शत-मन्यु-कल्पो** (भट्टिकाव्यम्): `ईपदसमाप्तौ` इति कल्पप् ।