53019: तदो दा च

Padacheda: तदः | S | 5 | 1 |

दा | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha

‘तद्’ शब्दस्य सप्तमीविभक्त्यन्तात् काले अभिधेये ‘दा’ तथा ‘दानीम्’ एतौ प्रत्ययौ स्वार्थे विधीयेते ।

काले’ इत्यस्य विशेषणरूपेण प्रयुज्यमात् तद्-शब्दस्य सप्तम्यन्तात् अनेन सूत्रेण ‘दानीम्’ तथा ‘दा’ एतौ प्रत्ययौ स्वार्थै उच्येते । यथा - तस्मिन् काले = तस्मिन् + दा / दानीम् → तद् + दा / दानीम् [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → तअ + दा/दानीम् [त्यदादीनामः (7.2.102) इति दकारस्य अकारादेशः] → त + दा/दानीम् [अतो गुणे (6.1.97) इति पररूपम्] → तदा / तदानीम् अनेन प्रकारेण ‘तस्मिन् काले’ इत्यस्मिन्नेव अर्थे ‘तदा’ तथा ‘तदानीम्’ एतौ शब्दौ सिद्ध्येते । एतयोः द्वयोः अपि तद्धितश्चासर्वविभक्तिः (1.3.38) इत्यनेन इत्संज्ञा भवति । विशेषः - अस्मिन् सूत्रे ‘दा’ इति विधानमनावश्यकमस्ति, यतः ‘तद्’ इत्यमात् ‘तस्मिन् काले’ इति अभिधेये सर्वैकान्यकिंयत्तदः काले दा (5.3.15) इत्यनेन ‘दा’ प्रत्ययः पूर्वरूपेणैव उक्तः अस्ति । अतः इदम् सूत्रम् ‘तदो च’ इत्येव उच्यते चेदपि अलम् । ज्ञातव्यम् - ‘दानीम्’ प्रत्यये मकारस्य हलन्त्यम् (1.3.3) इत्यनेन इत्संज्ञायाम् प्राप्तायाम् न विभक्तौ तुस्माः (1.3.4) इत्यनेन सा निषिध्यते ।

Vasu English Summary

After तद् ending in the Locative -7th case when time is denoted, comes the affixes दा and दानीम्

Vasu English Translation

After तद् ending in the Locative -7th case when time is denoted, comes the affixes दा and दानीम् The दानीम् is read into the sutra by force of the word च ‘also’. Thus तस्मिन् काले = तदा or तदानीम् ‘at that time’. This sutra, so far as it ordains दा after the word तद् is useless, because the word तद् already takes दा by (5.3.15).

Bhashya

तदो दा च (2177) (दाप्रत्ययाधिकरणम्) (5811 सूत्रप्रत्याख्यानवार्तिकम्॥ 1 ॥) - तदो दावचनमनर्थकं विहितत्वात् - (भाष्यम्) तदो दावचनमनर्थकम्। किं कारणम्? विहितत्वात्। विहितोऽत्र दाप्रत्ययः - सर्वैकान्यकिंयत्तदः काले दा 5.3.15 इति॥

Kashika

तदः सप्तम्यन्तात् काले वर्तमानाद् दा प्रत्ययो भवति, चकाराद् दानीं च। तस्मिन् काले तदा, तदानीम्। तदो दावचनमनर्थकम्, विहितत्वात्॥

Siddhanta Kaumudi

तदा । तदानीम् ॥<!तदो दावचनमनर्थकं विहितत्वात् !> (वार्तिकम्) ॥

Balamanorama

तदो दा च - तदो दा च । सप्तम्यन्तात्कालवृत्तेस्तच्छब्दाद्दाप्रत्ययः, दानींप्रत्ययश्च स्यादित्यर्थः । तदो दावचनमिति । वार्तिकमिदम् । विहितत्वादिति ।सर्वैकान्ये॑त्यनेने॑ति शेषः ।

Padamanjari

दावचनमिति। अपर आह - ठदाप्रत्ययोऽयं न दाप्रत्ययःऽ इति, तत्राद्यौदातत्वं पक्षे भवति ॥

Nyaas

अनर्थकम् इति। वैचित्र्यार्थम्। अन्यस्याभावादनर्थकं वैचित्र्येण सार्थकमेव। विहितत्वात् इति। सर्वैकान्य (5.3.15) इत्यादिना॥

Prakriyasarvasvam

सप्तम्यन्तात्तदः काले दानीं दा च स्यात् । तदानीं, तदा ॥

Vartika

तदो दावचनमनर्थकं विहितत्वात् ।