53019: तदो दा च =============== **Padacheda:** तदः | S | 5 | 1 | दा | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **'तद्' शब्दस्य सप्तमीविभक्त्यन्तात् काले अभिधेये 'दा' तथा 'दानीम्' एतौ प्रत्ययौ स्वार्थे विधीयेते ।** काले' इत्यस्य विशेषणरूपेण प्रयुज्यमात् तद्-शब्दस्य सप्तम्यन्तात् अनेन सूत्रेण 'दानीम्' तथा 'दा' एतौ प्रत्ययौ स्वार्थै उच्येते । यथा - तस्मिन् काले = तस्मिन् + दा / दानीम् → तद् + दा / दानीम् [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → तअ + दा/दानीम् [**त्यदादीनामः** (7.2.102) इति दकारस्य अकारादेशः] → त + दा/दानीम् [**अतो गुणे** (6.1.97) इति पररूपम्] → तदा / तदानीम् अनेन प्रकारेण 'तस्मिन् काले' इत्यस्मिन्नेव अर्थे 'तदा' तथा 'तदानीम्' एतौ शब्दौ सिद्ध्येते । एतयोः द्वयोः अपि **तद्धितश्चासर्वविभक्तिः** (1.3.38) इत्यनेन इत्संज्ञा भवति । विशेषः - अस्मिन् सूत्रे 'दा' इति विधानमनावश्यकमस्ति, यतः 'तद्' इत्यमात् 'तस्मिन् काले' इति अभिधेये **सर्वैकान्यकिंयत्तदः काले दा** (5.3.15) इत्यनेन 'दा' प्रत्ययः पूर्वरूपेणैव उक्तः अस्ति । अतः इदम् सूत्रम् 'तदो च' इत्येव उच्यते चेदपि अलम् । ज्ञातव्यम् - 'दानीम्' प्रत्यये मकारस्य **हलन्त्यम्** (1.3.3) इत्यनेन इत्संज्ञायाम् प्राप्तायाम् **न विभक्तौ तुस्माः** (1.3.4) इत्यनेन सा निषिध्यते । Vasu English Summary -------------------- After तद् ending in the Locative -7th case when time is denoted, comes the affixes दा and दानीम् Vasu English Translation ------------------------ After तद् ending in the Locative -7th case when time is denoted, comes the affixes दा and दानीम् The दानीम् is read into the *sutra* by force of the word च 'also'. Thus तस्मिन् काले = तदा or तदानीम् 'at that time'. This *sutra*, so far as it ordains दा after the word तद् is useless, because the word तद् already takes दा by (5.3.15). Bhashya ------- तदो दा च (2177) (दाप्रत्ययाधिकरणम्) (5811 सूत्रप्रत्याख्यानवार्तिकम्॥ 1 ॥) - तदो दावचनमनर्थकं विहितत्वात् - (भाष्यम्) तदो दावचनमनर्थकम्। किं कारणम्? विहितत्वात्। विहितोऽत्र दाप्रत्ययः - सर्वैकान्यकिंयत्तदः काले दा 5.3.15 इति॥ Kashika ------- तदः सप्तम्यन्तात् काले वर्तमानाद् दा प्रत्ययो भवति, चकाराद् दानीं च। तस्मिन् काले तदा, तदानीम्। तदो दावचनमनर्थकम्, विहितत्वात्॥ Siddhanta Kaumudi ----------------- तदा । तदानीम् ॥ (वार्तिकम्) ॥ Balamanorama ------------ **तदो दा च** - तदो दा च । सप्तम्यन्तात्कालवृत्तेस्तच्छब्दाद्दाप्रत्ययः, दानींप्रत्ययश्च स्यादित्यर्थः । तदो दावचनमिति । वार्तिकमिदम् । विहितत्वादिति ।सर्वैकान्ये॑त्यनेने॑ति शेषः । Padamanjari ----------- दावचनमिति। अपर आह - ठदाप्रत्ययोऽयं न दाप्रत्ययःऽ इति, तत्राद्यौदातत्वं पक्षे भवति ॥ Nyaas ----- `अनर्थकम्` इति। वैचित्र्यार्थम्। अन्यस्याभावादनर्थकं वैचित्र्येण सार्थकमेव। `विहितत्वात्` इति। `सर्वैकान्य` (5.3.15) इत्यादिना॥ Prakriyasarvasvam ----------------- सप्तम्यन्तात्तदः काले दानीं दा च स्यात् । तदानीं, तदा ॥ Vartika ------- तदो दावचनमनर्थकं विहितत्वात् ।