52063: तत्र कुशलः पथः¶
Padacheda: तत्र | S | 0 | 0 |
कुशलः | S | 1 | 1 |
पथः | S | 5 | 1 |
Sutrartha¶
सप्तमीसमर्थात् ‘पथिन्’ शब्दात् ‘कुशलः’ अस्मिन् अर्थे ‘वुन्’ प्रत्ययः भवति ।
सप्तमीसमर्थात् ‘पथिन्’ (= मार्गः) शब्दात् ‘कुशलः’ (= प्रवीणः) अस्मिन् अर्थे ‘वुन्’ प्रत्ययः भवति । पथि कुशलः = पथिन् + वुन् → पथिन् + अक [युवोरनाकौ (7.1.1) इति ‘अक’ आदेशः] → पथ् + अक [नस्तद्धिते (6.4.144) इति टिलोपः] → पथक पथि कुशलः पथकः । यात्रायाम् यः कुशलः अस्ति (expert in road / traveling - knows the directions / road signs etc) सः पथकः । ज्ञातव्यम् - कृतलब्धक्रीतकुशलाः (4.3.38) इत्यत्र पाठितस्य अण्-प्रत्ययस्य अपवादरूपेण अयम् ‘वुन्’ प्रत्ययः विधीयते ।
Vasu English Summary¶
The affix वुन् comes in the sense of ‘versed therein or skilled therein’ after the word पथिन् being in the Locative -7th case in construction.
Vasu English Translation¶
The affix वुन् comes in the sense of ‘versed therein or skilled therein’ after the word पथिन् being in the Locative -7th case in construction. Thus पथि कुशलः = पथकः (पथिन् + वुन् = पथ् + वुन् (6.4.144) = पथ् + अक् (7.1.1).
Kashika¶
वुनित्येव। तत्रेति सप्तमीसमर्थात् पथिन्शब्दात् कुशल इत्यस्मिन्नर्थे वुन् प्रत्ययो भवति। पथि कुशलः पथकः॥
Siddhanta Kaumudi¶
वुन् स्यात् । पथि कुशलः पथिकः ॥
Balamanorama¶
तत्र कुशलः पथः - तत्र कुशलः पथः । बुन्स्यादिति । सप्तम्यन्तात्पथिन्शब्दात्कुशल इत्यर्थे वुनित्यर्थः । पथक इति । आकादेशेनस्तद्धिते॑इति टिलोपः ।
Padamanjari¶
पथि कुशल इति। ठायुक्तकुशलाभ्यां चासेवायाम्ऽ इति सप्तमी, कौशलस्य क्रियाविषयत्वात्पथिन्शब्देन गमनादिका तद्विषया क्रिया लक्ष्यते। योगश्चायम्’कृतलब्धक्रीतकुशलाः’ इत्यणोऽपवादः ॥
Nyaas¶
कृतलब्धक्रीतकुशलाः (4.3.38) इत्यणि प्राप्ते वुन्? विधीयते॥
Prakriyasarvasvam¶
पथोऽस्मिन्नर्थे वुन् । नान्तत्वाट्टिलोपः । पथकः ॥