52062: गोषदादिभ्यो वुन्¶
Padacheda: गोषदादिभ्यः | S | 5 | 3 |
वुन् | S | 1 | 1 |
Sutrartha¶
मतुबर्थयोः अध्यायस्य अनुवाकस्य च निर्देशं कर्तुम् गोषदादिगणस्य शब्देभ्यः प्रथमासमर्थेभ्यः वुन्-प्रत्ययः भवति ।
तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) अनेन सूत्रेण ‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः औत्सर्गिकरूपेण ‘मतुँप्’ इति प्रत्ययः विधीयते । अतः एतौ अर्थौ ‘मतुबर्थौ’ इति नाम्ना ज्ञायेते । एतयोः एव निर्देशः अस्मिन् सूत्रे ‘मतौ’ इत्यनेन कृतः अस्ति । एताभ्यामर्थाभ्याम् निर्मितः शब्दः यदि अध्यायस्य उत अनुवाकस्य (two types of sections found in vedas) निर्देशं करोति, तर्हि अध्यायानुवाकयोर्लुक् (5.2.60) इत्यनेन तस्मात् छ-प्रत्ययः भवति, तस्य च वैकल्पिकः लुक् अपि जायते । परन्तु यदि प्रक्रियायाम् विहितम् प्रातिपदकम् ‘गोषदादि’गणे विद्यते, तर्हि तस्मात् छ-प्रत्ययस्य अपवादस्वरूपेण वर्तमानसूत्रेण वुन् -प्रत्ययः भवति । गोषदादिगणः अयम् - गोषद, इषेत्वा, मातरिश्वन्, देवस्यत्वा, देवीरापः, कृष्णोस्याख्यरेष्टः, दैवींधियम्, रक्षोहण, अञ्जन, प्रभूत, प्रतूर्त, कृशानु । उदाहरणानि - 1. ‘गोषद’शब्दः अस्ति अस्मिन् अध्याये अनुवाके वा सः गोषदकः अध्यायः अनुवाकः वा । प्रक्रिया इयम् - गोषद + वुन् → गोषद + अक [युवोरनाकौ (7.2.1) इति ‘अक’-आदेशः] → गोषद् + अक [यस्येति च (6.4.148) इति अकारलोपः] → गोषदक 2. ‘इषेत्वा’शब्दः अस्ति अस्मिन् अध्याये अनुवाके वा, सः इषेत्वकः अध्यायः अनुवाकः वा । 3. ‘देवस्यत्वा’ शब्दः अस्ति अस्मिन् अध्याये अनुवाके वा सः देवस्यत्वकः अध्यायः अनुवाकः वा । 4. ‘कृशानु’शब्दः अस्ति अस्मिन् अध्याये अनुवाके वा सः कृशानवकः अध्यायः अनुवाकः वा । अत्र ओर्गुणः (6.4.146) इत्यनेन उकारस्य गुणादेशः ओकारः, ततश्च एचोऽयवायावः (6.1.78) इति अवादेशं कृत्वा रूपं सिद्ध्यति । विशेषः - अत्र विग्रहवाक्येषु ‘शब्दस्वरूप’स्य ग्रहणम् भवति, न हि अर्थस्वरूपस्य । When we say ‘गोषदः शब्दः अस्ति अस्मिन् अध्याये, we mean that the word गोषद is present in that अध्याय , and not the entity represented by that word. स्मर्तव्यम् - 1. अनेन सूत्रेण मत्वर्थयोः ‘वुन्’ प्रत्ययः दीयते । अतः मत्वर्थस्य विषये तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) इत्यत्र उक्ताः सर्वे बिन्दवः अस्य सूत्रस्य विषये अपि स्मर्तव्याः । 2. सूत्रपाठे तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) इत्यतः अहंशुभमोर्युस् (5.2.140) इति यावत्सु सूत्रेषु ‘मत्वर्थयोः’ प्रत्ययविधानम् कृतमस्ति । अतः वस्तुतः वर्तमानसूत्रमपि तस्मिन्नेव प्रकरणे भवितुम अर्हति । परन्तु पाणिनिना तत् सूत्रमत्र स्थापितमस्ति । अस्य किमपि कारणम् व्याख्यानेषु न दीयते ।
Vasu English Summary¶
The affix वुन् comes in the sense of मतुप् when an अध्याय or अनुवाक is to be expressed
Vasu English Translation¶
The affix वुन् comes in the sense of मतुप् when an अध्याय or अनुवाक is to be expressed Thus गोषदशब्दोऽस्मिन्नस्ति = गोषदकोऽध्यायोऽनुवाको वा ॥ इषेत्वकः, मातरिश्वकः &c. Another reading is गोषद the final consonant being mute.
1 गोषद् (गोषद), 2 इषे त्वा (त्व), 3 मातरिश्वन्, 4 देवस्य त्वा, 5 देवीरापः, 6 कृष्णोऽस्या, खरेष्ठः, 7 देवीं (दैवीं) धिय धिया (धियम्),8 रक्षोहण, 9 युञ्जान, 10 अञ्जन, 11 प्रभूत, 12 प्रतूर्त, 13 कृशानु (दृशान), 14 सहस्रशीर्षा, 15 वातस्य ते, 16 कृशाश्व, 17 स्वाहाप्राण, 18 प्रसप्त (!). ॥
Kashika¶
मतावित्येव, अध्यायानुवाकयोरिति च। गोषदादिभ्यः प्रातिपदिकेभ्यो वुन् प्रत्ययो भवति मत्वर्थेऽध्यायानुवाकयोः। गोषदशब्दोऽस्मिन्निति गोषदकोऽध्यायोऽनुवाको वा। इषेत्वकः। मातरिश्वकः॥ गोषद। इषेत्वा। मातरिश्वन्। देवस्यत्वा। देवीरापः। कृष्णोस्याखरेष्टः। दैवींधियम्। रक्षोहण। अञ्जन। प्रभूत। प्रतूर्त। कृशानु। गोषदादिः॥
Siddhanta Kaumudi¶
मत्वर्थेऽध्यायानुवाकयोः । गोषदकः । इषेत्वकः ॥
Balamanorama¶
गोषदादिभ्यो वुन् - गोषदादिभ्यो वुन् । गोषदक इति । गोषदशब्दसंयुक्तोऽध्यायो ।ञनुवाको वेत्यर्थः । इषेत्वक इति ।इषेत्वे॑ति शब्दयुक्त इत्यर्थः ।अस्यवामीय॑मित्यत्रोक्तरीत्या सुपो न लुक् ।
Nyaas¶
अध्यायानुवाकयोर्लुक् (5.2.60) इति च्छस्य च लुकि प्राप्ते गोषदादिभ्यो वुनारभ्यते॥
Prakriyasarvasvam¶
गोषशब्दवानध्यायोऽनुवाको वा गोषदकः । इष्वत्वकः ॥