51097: व्युष्टादिभ्योऽण्

Padacheda: व्युष्टादिभ्यः | S | 5 | 3 |

अण् | S | 1 | 1 |

Sutrartha

व्युष्टादिगणस्य सप्तमीसमर्थेभ्यः शब्देभ्यः ‘दीयते’ तथा ‘कार्यम्’ एतयोः अर्थयोः अण् प्रत्ययः भवति ।

‘दीयते’ तथा ‘कार्यम्’ (= करणीयम् / कर्तुम् शक्यम्) एतयोः अर्थयोः व्युष्टादिगणस्य शब्देभ्यः अण् प्रत्ययः विधीयते । व्युष्टादिगणः अयम् - व्युष्ट, नित्य, निष्क्रमण, प्रवेशन, तीर्थ, सम्भ्रम, आस्तरण, सङ्ग्राम, सङ्घात, अग्निपद, पीलुमूल, प्रवास, उपसङ्क्रमण । उदाहरणानि - 1. व्युष्टे (दिने / प्रभाते) दीयते कार्यम् वा तत् वैयुष्टम् । प्रकिया इयम् - व्युष्ट + अण् → व् ऐ य् उ ष्ट + अ [ ‘व्युष्ट’ अयम् शब्दः ‘वि + उष् + क्त’ इति निर्मितः अस्ति अतः अत्र यकारः पदान्तः अस्ति । अस्यां स्थितौ तद्धितेष्वचामादेः (7.2.117) इत्यनेन आदिवृद्धौ प्राप्तायां तां बाधित्वा न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् (7.3.3) इति ऐच् आगमः भवति ।] → वैयुष्ट् + अ [यस्येति च (6.4.148) इति अकारलोपः] → वैयुष्ट 2. नित्यम् दीयते कार्यम् वा तत् नैत्यम् । 3. तीर्थे दीयते कार्यम् वा तत् तैर्थम् । 4. अग्निपदे दीयते कार्यम् वा तत् आग्निपदम् । ज्ञातव्यम् - कौमुदीकारः अत्र एकम् वार्त्तिकम् पाठयति - <!अग्निपदादिभ्य उपसंख्यानम् !> । इत्युक्ते, ‘अग्निपद’, ‘पीलुमुल’ एतयोः विषये अपि अस्य सूत्रस्य प्रसक्तिः अस्ति - इति । कौमुदीकारस्य मतेन एतौ शब्दौ व्युष्टादिगणे न विद्येते, अतः एतयोः विषये विशिष्टम् वार्त्तिकम् कृतमस्ति । परन्तु काशिकाकारः तु एतौ शब्दौ व्युष्टादिगणे एव पाठयति, अतः तस्य मतेन अस्य वार्त्तिकस्य आवश्यकता एव न वर्तते ।

Vasu English Summary

The affix अण् comes after the words व्युष्ट etc. in the Locative -7th case in construction, the sense of ‘being given therein or done therein’.

Vasu English Translation

The affix अण् comes after the words व्युष्ट etc. in the Locative -7th case in construction, the sense of ‘being given therein or done therein’. Thus व्युष्टे दीयते कार्यं वा = वैयुष्टम्, नैत्यम् ॥

Vart:- So also after the words अग्निपद &c. As, आग्निपदम्, पैलमूलम् ॥ This Vartika can be dispensed with, as the word अग्निपद &c can be included in the व्युष्टादि list of words.

1 व्युष्ट, 2 नित्य, 3 निष्क्रमण, 4 प्रवेशन, 5 उपसंक्रमण, 6 तीर्थ, 7 अस्तरण (आस्तरण), 8 संग्राम, 9 संघात, 10 अग्निपद, 11 पीलुमूल (पीलु, मूल), 12 प्रवास, 13 उपवास, 14 संभ्रम, 15 दीर्घ. ॥

Bhashya

व्युष्टादिभ्योऽण् (1979) (अण्प्रत्ययाधिकरणम्) (5676 उपसंख्यानवार्तिकम्॥ 1 ॥) - अण्प्रकरणेऽग्निपदादिभ्य उपसंख्यानम् - (भाष्यम्) अण्प्रकरणेऽग्निपदादिभ्य उपसंख्यानं कर्तव्यम्॥ (अग्निपदादिभ्य उपसंख्यानस्य स्थलसम्भवबोधकं भाष्यम्) त्रीणीमान्यण्ग्रहणानि - व्युष्टादिभ्योऽण्, समयस्तदस्य प्राप्तम् ऋतोरण् (5.1.104,105)। प्रयोजनम् विशाखाषाढादण् मन्थदण्डयोः (109,110) इति। तत्र न ज्ञायते कतरस्मिन्नण्प्रकरणे अग्निपदादिभ्य उपसंख्यानम्॥ (उपसंख्यानस्थलनिश्चायकभाष्यम्) अविशेषात्सर्वत्र। व्युष्टादिभ्योऽण् भवतीत्युक्त्वाऽग्निपदादिभ्यश्चेति वक्तव्यम्। अग्निपदे दीयते कार्यं वा - आग्निपदम्, पैलुमूलम्। समयस्तदस्य प्राप्तमृतोरण्, अग्निपदादिभ्यश्चेति वक्तव्यम्। उपबस्ता प्राप्तोऽस्यौपवस्त्रम्, प्राशिता प्राप्तोऽस्य प्राशित्रम्। प्रयोजनं विशाखाषाढादण् मन्थदण्डयोः, अग्निपदादिभ्यश्चेति वक्तव्यम्। चूडा प्रयोजनमस्य - चौडम्, श्रद्धा प्रयोजनमस्य - श्राद्धम्॥

Kashika

तत्रेति सप्तमीसमर्थेभ्यो व्युष्टादिभ्यो दीयते कार्यमित्येतयोरण् प्रत्ययो भवति। व्युष्टे दीयते कार्यं वा, वैयुष्टम्। नैत्यम्॥ अण्प्रकरणे अग्निपदादिभ्य उपसंख्यानम्॥ आग्निपदम्। पैलुमूलम्। किं वक्तव्यम्? न वक्तव्यम्। अत्रैव ते पठितव्याः॥ व्युष्ट। नित्य। निष्क्र मण। प्रवेशन। तीर्थ। संभ्रम। आस्तरण। संग्राम। संघात। अग्निपद। पीलुमूल। प्रवास। उपसंक्रमण। व्युष्टादिः॥

Siddhanta Kaumudi

व्युष्टे दीयते कार्यं वा वैयुष्टम् । व्युष्ट, तीर्थ, संग्राम, प्रवास इत्यादि ।<!अग्निपदादिभ्य उपसंख्यानम् !> (वार्तिकम्) ॥ अग्निपदे दीयते कार्यं वाग्निपदम् । पैलुमूलम् ॥

Balamanorama

व्युष्टादिभ्योऽण् - अथ ठञ्विधिर्निरूप्यते — व्युष्टादिभ्योऽण् ।तत्र च दीयते कार्य॑मित्यनुवर्तते । दीयते कार्यं वेत्यर्थे सप्तम्यन्तेभ्यो व्युष्टादिभ्योऽण्स्याट्ठञोऽपवादः । व्युष्टं — प्रभातम् । वैयुष्टमिति । अणिन य्वाभ्या॑मित्यैच् ।

Tattvabodhini

व्युष्टादिभ्योऽण् - व्युष्टादिभ्योऽण् । व्युष्टशब्दः कालवाची दिवसमुके वर्तते ।

Padamanjari

प्युष्टशब्दः कालवाची दिवसमुखे वर्तते, तत्साहचर्यान्नित्यशब्दस्यापि कालवाचिनो ग्रहणम्, नाकासादिवृतेः। तत्र चात्यन्तसंयोगे द्वितीया भवतीति सप्तम्यधिकरेऽपि द्वितीयान्तात्प्रत्ययः। नित्यं दीयते कार्यं वा नैत्यम्। ठणप्रकरणेऽग्रिपदादिभ्य उपसंख्यानम्ऽ इत्येतत्प्रत्याचष्टे - न वक्तव्यमिति। न कर्तव्यमित्यर्थः। कथमित्याह - अत्रेव पठितव्यास्त इति। आदिशब्दः प्रकारवाच्याश्रयणीय इत्युक्तं भवति; अन्यथा तत्रैव पठयेरन्, उपसंख्यानं वा क्रियेत, को विशेषः ? अण्ग्रहणमनर्थकं भववदित्यनुवतिष्यते, तेनाणेव भविष्यति। न चैवं व्युष्टनित्यशब्दाभ्याम्’कालाट्ठञ्’ इत्यस्य प्रसङ्गः, पूर्वेणैव ठञः सिद्धत्वात् ? सत्यम्; ठादिशब्दः प्रकारवाचीऽ इत्युक्तम्, तत्र यदी वृद्धेष्वप्येतत्कदाचिप्रवर्तते, तदा च्छः स्यात्। पठितेषु तु नास्ति दोषः ॥

Nyaas

व्युष्टशब्दोऽयं कालशब्दः। तत्साहचर्यान्नित्यशब्दोऽपि कालशब्द एव गृह्रते। नाकाशादिवचनः। तेन तत्र सप्तम्यपवादः कालध्वनोरत्यन्तसंयोगे (2.3.5) इति द्वितीया भवति। तेन सप्तम्यधिकारेऽपि नित्यशब्दाद्द्वितीयासमर्थादेव प्रत्ययः। नित्यं दीयते नैत्यम्। सर्वकाले दीयते इत्यर्थः। अण्प्रकरणे इत्यादि। पदेतत्? कात्यायनेनोक्तम्? अण्प्रकरणे अग्निपदादिभ्य उपसंख्यानम् (वा।532) इत्येतन्न वक्तव्यम्। कथं तह्र्रण्? स्यात्? व्युष्टादिष्वेवाग्निपदादयः पठितव्या। अथाण्ग्रहणं किमर्थम्, यावता भववत्` (5.1.95) इत्येतदिहानुवर्तते, तेनैवात्राणपि भविष्यति? नैवं शक्यम्; एवं हि सति व्युष्टनित्यशब्दाभ्यां कालाट्ठञ् (4.3.11) इति ठञ्? स्यात्; नैष दोषः; तत्र पुनरारम्भसामर्थ्याद्यष्ठञा बाधितः स एव भविष्यति। कः पुनरसौ? अणेव। एवमपि तीर्थशब्दात्? द्व्यजृद्ब्राआहृणादि (4.3.72) सूत्रेण ठग्विहित इति ततष्ठगेव स्यात्। ये चात्र प्रवेशनादयोऽन्तोदात्ताः; तेभ्यष्ठञ्? स्यात्? `ब्राह्वचोऽन्तोदात्ताट्ठञ् (4.3.97) इति; तेभ्यो भवार्थे ठञो विहितत्वात्। तस्मादण्ग्रहणं कर्तव्यम्॥

Prakriyasarvasvam

‘व्युष्टनित्यनिष्क्रमणप्रवेशनतीर्थसंग्रामसङ्घाताग्निपदपीलुमूलादिभ्यः’ (स० ५-१-१०२) । व्युष्टं प्रभातं तत्र देयं कार्यं वा वैयाष्टम् । नैत्यम् । नैष्क्रमणम् । प्रावेशनम् । तैर्थम् । साङ्ग्रामम् । सांघातम् । आग्निपदम् । पैलुमूलम् । आयुक्तेः प्रावासम् । औपवासम् । पार्वणम् । श्राद्धम् ॥

Vartika

अग्निपदादिभ्य उपसंख्यानम् ।

Sutra Prayogas

  • सांनिपातिके (कुमारसम्भवम्): संनिपाताच्च इति ठक्।