51050: तद्धरति वहत्यावहति भाराद्वंशादिभ्यः

Padacheda: तद् | S | 2 | 1 |

हरति | T | | |

वहति | T | | |

आवहति | T | | |

भारात् | S | 5 | 1 |

वंशादिभ्यः | S | 5 | 3 |

Sutrartha

‘हरति’, ‘वहति’, ‘आवहति’ एतेषु अर्थेषु वंशादिगणस्यशब्देभ्यः अनन्तरम् समस्तपदे विद्यमानात् ‘भार’शब्दात् यथाविहितं प्रत्ययः भवति ।

यदि कस्यचन समस्तपदस्य उत्तरपदम् ‘भार (= load) ‘ शब्दः अस्ति, तथा च तस्य पूर्वपदम् वंशादिगणे विद्यमानः कश्चनः शब्दः अस्ति, तर्हि तस्मात् शब्दात् ‘हरति’ / ‘वहति’ / ‘आवहति’ एतेषु अर्थेषु यथाविहितं प्रत्ययः भवति । क्रियापदानां अर्थाः एतादृशाः - ‘हरति’ इत्युक्ते देशान्तरं नयति / प्रापयति (carry to some other place / steal) । ‘वहति’ इत्युक्ते उत्क्षिप्य धारयति / नयति (lift and carry) । ‘आवहति’ इत्युक्ते उत्पादयति / स्वसमीपे आनयति (manufactures / produces / bring closer to oneself) । वंशादिगणः अयम् - वंश। कुटज। बल्वज। मूल। अक्ष। स्थूणा। अश्मन्। अश्व। इक्षु। खट्वा। उदाहरणानि - 1. वंशभारं (weight involving bamboos) हरति वहति आवहति वा, सः वांशभारिकः । 2. अश्वभारं हरति वहति आवहति वा, सः आश्वभारिकः । 3. मूलभारं हरति वहति आवहति वा, सः मौलभारिकः । 4. इक्षुभारं हरति वहति आवहति वा, सः ऐक्षुभारिकः । सर्वत्र आर्हादगोपुच्छ… (5.1.19) इत्यनेन ठक्-प्रत्ययः भवति । ज्ञातव्यम् - 1. अस्य सूत्रस्य अर्थः अन्यरूपेण अपि क्रियते । ‘भारात् वंशादिभ्यः’ इत्यत्र ‘भार’ शब्दः ‘भारभूत (= loaded / heavy)’ इत्यस्मिन् अर्थे स्वीकृत्य वंशादिगणस्य शब्देभ्यः विशेषणरूपेण प्रयुज्य अप्यत्र अर्थविधानम् क्रियते । यथा, ‘भारभूतान् वंशान् वहति सः वांशिकः’ । The one who carries heavy bamboo stems सः वांशिकः - इति अत्र अर्थः अस्ति । द्वावपि अर्थौ समीचीनौ एव । 2. केवलं वंशादिगणस्य शब्देभ्यः एव अस्य सूत्रस्य प्रसक्तिः अस्ति, अन्येषां विषये न । यथा, ‘व्रीहिभारं वहति’ / ‘भारभूतान् व्रीहीन् वहति’ इत्यत्र वर्तमानसूत्रस्य प्रयोगः न भवति । 3. भारस्य निर्देशः न क्रियते चेत् अस्य सूत्रस्य प्रयोगः न भवति । यथा, ‘वंशं वहति’ इत्यत्र वर्तमानसूत्रस्य प्रयोगः न भवति । 3. अस्मिन् सूत्रे यद्यपि ‘तद्धरति’ इति धकारस्य प्रयोगः कृतः अस्ति, तथाप्यत्र वस्तुतः हकारः अस्तीति स्मर्तव्यम् । सन्धिप्रक्रियायाम् ‘तद् + हरति’ इति स्थिते झयो होऽन्यतरस्याम् (8.4.62) इत्यनेन हकारस्य विकल्पेन वर्गचतुर्थे धकारे प्राप्ते ‘तद्धरति’ इति सिद्ध्यति ।

Vasu English Summary

The above mentioned affixes after the word भार preceded by the word वंश etc., have the sense of ‘who carries away, or conveys or brings that’.

Vasu English Translation

The above mentioned affixes after the word भार preceded by the word वंश etc., have the sense of ‘who carries away, or conveys or brings that’. The case in construction here is accusative (तद्). Thus, वंशभारं हरति, वहति आवहति वा = वांशभारिकः, कौटजभारिकः, बाल्वजभारिकः ॥

Why do we say “after भार”? Observe वंशं हरति, no affixing. Why do we say “preceded by वंश &c”. Observe व्रीहिभारं हरति, no affixing.

According to another explanation, the phrase भाराद् वंशादिभ्यः is explained as भारभूतेभ्यो वंशादिभ्यः. Then the sutra will mean “the above named affixes come after वंश &c. when they denote a load”. Thus भारभूतान् वंशान् हरति = वांशिकः; कौटजिकः, बाल्वजिकः ॥ Why do we say “when denoting a load भार”? Observe वंशं हरति ॥ Why do we say after वंश &c.? Observe भारभूतान् व्रीहीन् वहति ॥ Both these explanations are valid and traditional.

The word हरति means to carry to another place or to steal; वहति means to carry on ones back or head, आवहति means to produce or bring.

1 वंश, 2 कुटज, 3 बल्वज, 4 मूल, 5 स्थुणा, (स्थुण), 6 अक्ष, 7 अश्मन्, 8 अश्व, 9 लक्षण, 10 इक्षु, 11 खट्वा ॥

Kashika

तदिति द्वितीयासमर्थाद् हरत्यादिष्वर्थेषु यथाविहितं प्रत्ययो भवति। प्रकृतिविशेषणं भाराद् वंशादिभ्य इति। वंशादिभ्यः परो यो भारशब्दस्तदन्तात् प्रातिपदिकादिति। वंशभारं हरति वहत्यावहति वा वांशभारिकः। कौटजभारिकः। बाल्वजभारिकः।भारादिति किम्? वंशं हरति। वंशादिभ्य इति किम् ? व्रीहिभारं हरति। अपरा वृत्तिः — भाराद् वंशादिभ्य इति, भारभूतेभ्यो वंशादिभ्य इत्यर्थः। भारशब्दोऽर्थद्वारेण वंशादीनां विशेषणम्। भारभूतान् वंशान् हरति वांशिकः। कौटजिकः। बाल्वजिकः। भारादिति किम् ? वंशं हरति। वंशादिभ्य इति किम् ? भारभूतान् व्रीहीन् वहति। सूत्रार्थद्वयमपि चैतदाचार्येण शिष्याः प्रतिपादिताः। तदुभयमपि ग्राह्यम्। हरति देशान्तरं प्रापयति चोरयति वा। वा वहत्युत्क्षिप्य धारयतीत्यर्थः। आवहति उत्पादयतीत्यर्थः॥ वंश। कु टज। बल्वज। मूल। अक्ष। स्थूणा। अश्मन्। अश्व। इक्षु। खट्वा। वंशादिः॥

Siddhanta Kaumudi

वंशादिभ्यः परो यो भारशब्दस्तदन्तं यत्प्रातिपदिकं तत्प्रकृतिकाद्द्वितीयान्तादित्यर्थः । वंशभारं हरति वहत्यावहति वा वांशभारिकः । ऐक्षुभारिकः । भाराद्वंशादिभ्यः इत्यस्य व्याख्यान्तरं भारभूतेभ्यो वंशादिभ्यः इति । भारभूतान्वंशान् हरति वांशिकः । ऐक्षुकः ॥

Balamanorama

तद्धरति वहत्यावहति भाराद्वंशादिभ्यः - तद्धरति वहति । वंशाद्भारादिभ्य इत्येकवचनबहुवचनान्तयोः सामानाधिकरण्याऽसम्भावद्वैयधिकरण्येनान्वयः । स च व्युक्रमः, व्याख्यानात् । तदाह — वंशादिभ्यः पर इति ।द्वितीयान्ता॑दित्यनन्तरं हरति वहति आवहतीत्यर्थे यथाविहितं प्रत्ययः स्या॑दिति शेषः । हरणं कथञ्चिद्देशान्तरप्रापणं, चौर्यं वा । शकटादिना प्रापणं वहनम् । स्वसमीपं प्रापणमावहनम्, उत्पादनं वा । वांशभारिक इति ।आर्हा॑दिति ठक् । अत्र पञ्चम्यन्तयोव्र्युक्रमेण वैयधिकरण्येन चान्वये प्रमाणाऽभावादाह — भाराद्वंशादिभ्य इत्यस्य व्याख्यान्तरमिति ।भारात्परेभ्यो वंशादिभ्य॑ इत्यर्थभ्रमव्यावृत्तये व्याख्यान्तरं विशदयति — भारभूतेभ्यो वंशादिभ्य इतीति । वंशादिशब्दानां भारभूतत्वं तु भारबूतवंशादिवृत्तेर्बोध्यम् । अस्मिन्व्याख्याने भारादित्येकवचनमार्षम् । यद्वा प्रत्येकान्वयाभिप्रायम् । वस्तुतो भारबूता ये वंशादयस्तद्वाचिभ्य इति यावत् ।

Tattvabodhini

तद्धरति वहत्यावहति भाराद्वंशादिभ्यः - भारभूतेभ्यो वंशादिभ्य इथि । ननु वंशादयः शब्दास्ते कथं भारभूता इत्यत आह -भारभूतानिति । भारशब्दोऽर्थद्वारा वंशादीनां विशेषणमिति भावः ।भारेभ्यः॑इति वक्तव्येप्रत्येकं संबन्धविवक्षाया सूत्रेभारात्इति निर्देशः ।

Padamanjari

प्रकृतिविशेषणमिति । प्रकृतिः प्रातिपदिकम्, तस्य विशेषणम्, विशे,णप्रकारमेव दर्शयति - वंशादिभ्य इत्यादि। वंशादिभ्य इति किमिति। भारान्तादिति कस्मान्नोक्तमिति भावः। अत एव तदन्तं प्रत्युदाहरति - व्रीहिभारं वहतीति। भारभूतेभ्यो वंशादिभ्य इति। ननु वंशादयः शब्दास्ते कथं भारभूता इत्यत आह - बारशब्दोऽर्थद्वारेण वंशादीनां विशेषणमिति। बारभूतार्थाभिधायित्वाद्भारभूतेब्यो वंशदिभ्य इत्युक्तमित्यर्थः। सूत्रे तु प्रत्येकं सम्बन्धादेकवचनम् ॥

Nyaas

प्रकृतिविशेषणम् इत्यादि। प्रकृतेः प्रातिपदिकस्य। भाराद्वंशादिभ्य इत्यर्थः इति। अत्रार्थे वंशादय एव शुद्धाः प्रत्ययमुत्पादयन्ति। ननु च वंशादयः शब्दाः, भार इत्यपि शब्द एव; न च शब्द शब्दान्तरस्य समानाधिकरणं विशेषणमुपपद्यते, तत्कथं भारभूतेभ्यो वंशादिभ्य इत्येषोऽर्थो भवति? इत्याह - भारशब्दोऽर्थद्वारेण इत्यादि। वंशादीनांमर्थस्य भारशब्दस्यार्थो मुख्यं विशेषणम्, अर्थद्वारेण तु वंशादीनां भारशपब्दस्य चोपचरितम्। अर्थधर्मेण शब्दोऽपि तथा व्यपदिश्यत इत्यर्थः॥

Prakriyasarvasvam

‘वंशकुटजबलवजमूलखट्वास्थूणाश्लक्ष्णाक्षाश्मेक्षुभ्यः’ (स० ५-१-५५) । एभ्यः पराद् भारशब्दात् तद्धरतीत्याद्यर्थे ठञादिः । <karika>देशान्तरप्रापणं वा मोषो वा हरणं भवेत् । वहनं स्यादुद्धरणमन्यत् तूत्पादनं भवेत् ॥ ३०४ ॥</karika> वंशभारं नयति मुष्णात्युद्धरत्युत्पादयति वा वांशभारिकः । कौटजभारिकः । श्लाक्ष्णभारिकः । ऐक्षुभारिकः । भारभूतेभ्यो वंशादिभ्य इति च सूत्रार्थः । भारभूतं वंशं हरतीत्यादो वांशिकः । कौटजिकः । ऐक्षुकः ॥