51049: भागाद्यच्च

Padacheda: भागात् | S | 5 | 1 |

यत् | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha

‘अस्मिन् वृद्धिः, आयः, लाभः, शुल्कः, उपदा दीयते’ इत्यस्मिन् अर्थे प्रथमासमर्थात् ‘भाग’शब्दात् ठन् तथा यत् प्रत्ययौ भवतः ।

यस्मिन् व्यवहारे वृद्धिः / आयः / लाभः / शुल्कः / उपदा दीयते, तस्य व्यवहारस्य निर्देशं कर्तुम् प्रथमासमर्थात् ‘भाग’शब्दात् ठन् तथा यत् प्रत्ययौ भवतः । ‘भागः’ इत्युक्ते रूप्यकस्य अर्धः अंशः (50 paise इत्यर्थः) । यथा - भागः वृद्धिः आयः लाभः शुल्कः उपदा वा दीयते अस्मिन् व्यवहारे सः भाग्यः भागिकः वा व्यवहारः / तत् भाग्यं भागिकं वा शतम् / सा भाग्या भागिका वा विंशतिः । ज्ञातव्यम् - आर्हातगोपुच्छसङ्ख्यापरिमाणात् ठक् (5.1.19) इत्यनेन प्राप्तम् ठक्-प्रत्ययं बाधित्वा अनेन सूत्रेण ठन्-प्रत्ययः विधीयते ।

Vasu English Summary

The affix यत् (य) comes after the word भाग in the sense of ‘an interest, or a rent, or a profit, or a tax,or a bribe given thereby or therein’.

Vasu English Translation

The affix यत् (य) comes after the word भाग in the sense of ‘an interest, or a rent, or a profit, or a tax,or a bribe given thereby or therein’. By the word च in the sutra ठन् also comes. This debars ठञ् ॥ Thus भागो वृद्ध्यादिरस्मिन् दीयते = भाग्यं or भागिकं शतम्; भाग्या or भागिका विंशतिः ॥ The word भाग also denotes रूपकार्ध ॥

Kashika

भागशब्दाद् यत् प्रत्ययो भवति, चकारात् ठंश्च, तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयत इत्येतस्मिन्नर्थे। ठञोऽपवादः। भागो वृद्ध्यादिरस्मिन् दीयते भाग्यम्, भागिकं शतम्। भाग्या, भागिका विंशतिः। भागशब्दोऽपि रूपकार्धस्य वाचकः॥

Siddhanta Kaumudi

चाट्ठन् । भागशब्दोऽपि रूपकस्यार्धे रूढः । भागो वृद्ध्यादिरस्मिन्दीयते भाग्यं-भागिकं शतम् । भाग्या भगिका विंशतिः ॥

Balamanorama

भागाद्यच्च - भागाद्यच्च । तदस्मिन् वृद्ध्यादि दीयत इत्यर्थे भागशब्दात्प्रथमान्ताद्यत्प्रत्ययश्च स्यादित्यर्थः । चाट्ठनिति ।पूर्वसूत्रादनुकृष्यते॑ इति शेषः । भागशब्दोऽपि रूपकस्यार्ध इति । ‘वर्तते’ इति शेषः ।

Tattvabodhini

भागाद्यच्च - रुपकस्येति । रूपकं — कार्षापणम् । रूढैति । तथा च भागवद्द्रव्यसापेक्षत्वेनाऽसामर्थ्यमिह नोद्भावनीयमिति भावः ।

Padamanjari

भागश्ब्दोऽपीति। न केवलमर्द्धशब्द एवेत्यपिशब्दार्थः ॥

Nyaas

ठञोऽपवादः इति। न ठकः; भागशब्दस्य परिमाणत्वात्। ननु चाङ्गमात्रवचनोऽपि भागशब्दोऽस्ति? सत्यमस्ति; न तु तस्येह ग्रहणम्। तस्य हि ग्रहणे वृद्ध्यादिभिः सम्बन्दो नोपपद्यते। परिमाणवचनस्तु प्रसिद्धो रूपकांशे वर्तत इति वृद्ध्यादिभिः सम्बन्धः उपपद्यते॥

Prakriyasarvasvam

ठंश्च स्यात् । भागो रूपार्धम् । सोऽस्मिन् वृद्ध्यादित्वेन दीयते इति भाग्यः । भागिकः ॥