51044: लोकसर्वलोकाट्ठञ्¶
Padacheda: लोक-सर्वलोकात् | S | 5 | 1 |
ठञ् | S | 1 | 1 |
Sutrartha¶
‘विदितः’ अस्मिन् अर्थे सप्तमीसमर्थात् लोकशब्दात् सर्वलोकशब्दात् च ठञ्-प्रत्ययः भवति ।
‘विदितः’ इत्युक्ते ज्ञातः / प्रकाशितः / प्रसिद्धः (well known). । विद् (ज्ञाने) इत्यस्य अदादिगणस्य धातोः क्त-प्रत्ययान्तरूपम् एतत् । ‘विदितः’ अस्मिन् अर्थे सप्तमीसमर्थात् ‘लोक’शब्दात् ‘सर्वलोक’शब्दात् च ठञ्-प्रत्ययः भवति । यथा - 1. लोके विदितः सः लौकिकः विषयः। 2. सर्वलोके विदितः सः सार्वलौकिकः विषयः । अत्र अनुशतिकादीनां च (7.3.20) इति उभयपदवृद्धिः भवति ।
Vasu English Summary¶
The affix ठञ् (+/- इक) comes in the sense of ‘known therein’ after the words लोक and सर्वलोक , in the 7th case in construction.
Vasu English Translation¶
The affix ठञ् (+/- इक) comes in the sense of ‘known therein’ after the words लोक and सर्वलोक , in the 7th case in construction. Thus लोके विदितः = लौकिकः, सार्वलौकिकः ॥ The irregular Vriddhi of both members takes place by (7.3.20).
Kashika¶
लोकसर्वलोकशब्दाभ्यां तत्रेति सप्तमीसमर्थाभ्यां विदित इत्येतस्मिन् विषये ठञ् प्रत्ययो भवति। लोके विदितो लौकिकः। सार्वलौकिकः। अनुशतिकादित्वाद् (७.३.२०) उभयपदवृद्धिः
Siddhanta Kaumudi¶
तत्र विदितः इत्यर्थे । लौकिकः । अनुशतिकादित्वादुभयपदवृद्धिः । सार्वलौकिकः ॥
Balamanorama¶
लोकसर्वलोकाट्ठञ् - लोकसर्व । तत्र विदित इत्यर्थं इति । योगविभागसामर्थ्यात्तस्येआर इति नानुवर्तत इति भावः । लौकिक इति । लोकेषु विदित इत्यर्थः । सर्वलोकशब्दे विशेषमाह — अनुशतिकादित्वादिति ।
Nyaas¶
सर्वत्र ठञ्ग्रहणं ठको निवृत्त्यर्थम्, अन्यथा हि प्रकृतिमात्रनिर्देशे क्रियमाणे आर्हात् (5.1.19) इति ठक्प्रसज्येत॥
Prakriyasarvasvam¶
आभ्यां तत्र विदिते ठञ् । लौकिकः । अनुशतिकादित्वात् सार्वलौकिकः ॥
Sutra Prayogas¶
सार्वलौकिकम् (भट्टिकाव्यम्): लोक- सर्व लोकाभ्यां ठञ् इति ठञ्।