51043: तत्र विदित इति च

Padacheda: तत्र | S | 0 | 0 |

विदितः | S | 1 | 1 |

इति | S | 0 | 0 |

च | S | 0 | 0 |

Sutrartha

‘विदितः’ अस्मिन् अर्थे सप्तमीसमर्थात् सर्वभूमिशब्दात् पृथिवीशब्दात् च यथासङ्ख्यमण् तथा अञ् प्रत्ययः भवति ।

‘विदितः’ इत्युक्ते ज्ञातः / प्रकाशितः / प्रसिद्धः (well known). । विद् (ज्ञाने) इत्यस्य अदादिगणस्य धातोः क्त-प्रत्ययान्तरूपम् एतत् । ‘विदितः’ अस्मिन् अर्थे सप्तमीसमर्थात् ‘सर्वभूमि’शब्दात् अण्-प्रत्ययः तथा ‘पृथिवी’शब्दात् अञ्-प्रत्ययः अनेन सूत्रेण पाठ्यते । यथा - 1. सर्वभूमौ विदितः = सर्वभूमि + अण् → सार्वभौमः । सर्वस्यां भूमौ यः ज्ञातः अस्ति, सः विषयः मनुष्यः वा सार्वभौमः अस्ति इत्युच्यते । अत्र अनुशतिकादीनां च (7.3.20) इति उभयपदवृद्धिः भवति । 2. पृथिव्यां विदितम् = पृथिवी + अण् → पार्थिव । पृथिव्यां प्रकाशितम् ज्ञातम् वा तत् पार्थिवम् । ज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तः ‘इति’ शब्दः विवक्षार्थः अस्ति न्यासकारः वदति । इत्युक्ते, केवलं विशिष्टानां विषयानां प्रसिद्ध्यर्थम् एव अनयोः शब्दयोः प्रयोगः भवति । अस्मिन् विषये व्याख्यानेषु अधिकम् न उच्यते, अतः शिष्टप्रयोगमनुसृत्य एव अनयोः शब्दयोः प्रयोगस्य साधुत्वस्य निर्णयः करणीयः ।

Vasu English Summary

To the same bases सार्वभूमि and पृथ्वी , being in the 7th case in construction, are added the same affixes अण् and अञ् respectively, in the sense that of ‘known therein’.

Vasu English Translation

To the same bases सार्वभूमि and पृथ्वी , being in the 7th case in construction, are added the same affixes अण् and अञ् respectively, in the sense that of ‘known therein’. The word विदितः means known published &c. सर्वभूमौ विदितः = सार्वभौमः known in the whole world. So also पार्थिवः ॥

Kashika

तत्रेति सप्तमीसमर्थाभ्यां सर्वभूमिपृथिवीशब्दाभ्यां यथासंख्यमणञौ प्रत्ययौ भवतो विदित इत्येतस्मिन्नर्थे । विदितो ज्ञातः प्रकाशित इत्यर्थः। सर्वभूमौ विदितः सार्वभौमः। पार्थिवः॥

Siddhanta Kaumudi

सर्वभूमेरीश्वरः सर्वभूमौ विदितो वा सार्वभौमः । पार्थिवः ॥

Balamanorama

तत्र विदित इति च - तत्र विदित इति च । सूत्रद्वयमिदम् । सर्वभूमिपृथिवीभ्यामित्यनुवर्तते ।तस्य निमित्तं संयोगात्पाता॑विति तु निवृत्तम्, पुनस्तस्येत्युक्तेः । तस्येआर इत्यर्थे षष्ठन्तात्, तत्र विदित इत्यर्थे तु सप्तम्यन्तादणञौ स्त इत्यर्थः । योगविभागो यथासङ्ख्यनिवृत्त्यर्थः, उत्तरसूत्रे ‘तत्र विदित’ इत्यस्यैवानुवृत्त्यर्थश्च ।

Tattvabodhini

तत्र विदित इति च - तत्र वदितीति च । योगविभाग उत्तरार्थो, यथासङ्ख्यनिवृत्त्यर्थश्च ।

Padamanjari

योगविभागो यथासङ्ख्यनिरासार्थः, उतरार्थश्च ॥

Nyaas

ईआरानुकर्वणार्थश्चकारः। इतिकरणो विवक्षार्थः॥

Prakriyasarvasvam

अनयोरर्थयोश्च सर्वभूमिपृथिवीभ्यामणञौ । सर्वभूमेरीश्वरः, तत्र विदितो वा सार्वभौमः । एवं पार्थिवः ॥