51041: सर्वभूमिपृथिवीभ्यामणञौ¶
Padacheda: सर्वभूमि-पृथिवीभ्याम् | S | 5 | 2 |
अण्-अञौ | S | 1 | 2 |
Sutrartha¶
‘निमित्तम्’ अस्मिन् अर्थे संयोगमुत्पातम् वा दर्शयितुम् षष्ठीसमर्थात् ‘सर्वभूमि’ शब्दात् अण् प्रत्ययः तथा पृथिवीशब्दात् अञ्-प्रत्ययः भवति ।
‘निमित्तम्’ इत्युक्ते कारणम् ।सर्वभूमेः पृथिव्याः वा निमित्तम् यदि कश्चन संयोगः उत्पात वा अस्ति, तर्हि तस्य संयोगस्य उत्पात्तस्य वा निर्देशं कर्तुम् ‘सर्वभूमि’ शब्दात् अण्-प्रत्ययः तथा पृथिवी-शब्दात् अञ्-प्रत्ययः भवति । 1. सर्वभूमेः निमित्तः संयोगः / उत्पातः = सर्वभूमि + अण् → सार्वभौमः । अत्र अनुशतिकादीनां च (7.3.20) इति उभयपदवृद्धिः भवति । 2. पृथिव्याः निमित्तः संयोगः / उत्पात = पृथिवी + अञ् → पार्थिवः । ज्ञातव्यम् - 1. अण्-प्रत्ययेन तथा च अञ्-प्रत्ययेन समानमेव रूपं जायते, केवलं स्वरयोर्मध्ये भेदः अस्ति । अञ्-प्रत्ययः ञित् अस्ति, अतः अञ्-प्रत्ययान्तशब्दाः ञ्नित्यादिर्नित्यम् (6.1.197) इत्यनेन आद्युदात्ताः भवति । परन्तु णित्-प्रत्ययान्तशब्दानामादिस्वरः सामान्यतः अनुदात्तः जायते । 2. अस्मात् सूत्रात् ‘सर्वभूमि’ तथा ‘पृथिवी’ एतौ शब्दौ अग्रिम-अर्थज्ञापके सूत्रे अपि अनुवर्तेते ।
Vasu English Summary¶
The affixes अण् (+/- -अ) and अञ् (+/- -अ) are respectively added to the words सार्वभूमि and पृथ्वी , in the above mentioned sense of ‘a connection or a portent for its purpose’.
Vasu English Translation¶
The affixes अण् (+/- -अ) and अञ् (+/- -अ) are respectively added to the words सार्वभूमि and पृथ्वी , in the above mentioned sense of ‘a connection or a portent for its purpose’. This debars ठक्. Thus सर्वभूमेर्निमित्तं संयोग उत्पातो वा = सार्वभौमः, so also पार्थिवः ॥ In सार्वभौमः there is Vriddhi of both members of the compound by (7.3.20).
Kashika¶
सर्वभूमिपृथिवीशब्दाभ्यां यथासंख्यमणञौ प्रत्ययौ भवतः तस्य निमित्तं संयोगोत्पातावित्येतस्मिन् विषये। ठकोऽपवादौ। सर्वभूमेर्निमित्तं संयोग उत्पातो वा सार्वभौमः। पार्थिवः। सर्वभूमेरनुशतिकादिपाठाद् (७.३.२०) उभयपदवृद्धिः॥
Siddhanta Kaumudi¶
सर्वभूमेर्निमित्तं संयोग उत्पातो वा सार्वभौमः । पार्थिवः । सर्वभूमिशब्दोऽनुशतिकादिषु पद्यते ॥
Balamanorama¶
सर्वभूमिपृथिवीभ्यामणञौ - सर्वभूमि । तस्य निमित्तमित्येव । सर्वभूमि, पृथिवी — आभ्यां यथासङ्ख्यमणञौ स्तः । सार्वभौम इति । ठञोऽपवादोऽण् । पार्थिव इति । पृथिव्या निमित्तं संयोग उत्पातो वेत्यर्थः । स्त्रिया पार्थिवी । सार्वभौमशब्दे कथमुभयपदवृद्धिरित्यत आह — अनुशतिकादिषु पठत इति । तथाचअनुशतिकादीनां चे॑त्युभयपदवृद्धिरिति भावः ।
Tattvabodhini¶
सर्वभूमिपृथिवीभ्यामणञौ - सर्वभूमि । आभ्यां यथासङ्ख्यमणञौ स्तः ।
Padamanjari¶
संयोगोत्पातौ प्रति यथासंख्यं न भवति, तयोः प्रत्ययार्थविशेषणत्वेन प्रकृतिभ्यां प्रत्ययाभ्यां चासम्बन्धात् ॥
Prakriyasarvasvam¶
क्रमात् स्तः । सर्वभूमेर्निमित्तं संयोग उत्पातो वा । अनुशतिकादित्वात् सार्वभौमः । पार्थिवः ॥
Sutra Prayogas¶
पार्थिवो (शिशुपालवधम्): सर्वभूमिपृथिवीभ्यामणञौ इत्यञ्प्रत्ययः।