51041: सर्वभूमिपृथिवीभ्यामणञौ ============================= **Padacheda:** सर्वभूमि-पृथिवीभ्याम् | S | 5 | 2 | अण्-अञौ | S | 1 | 2 | Sutrartha --------- **'निमित्तम्' अस्मिन् अर्थे संयोगमुत्पातम् वा दर्शयितुम् षष्ठीसमर्थात् 'सर्वभूमि' शब्दात् अण् प्रत्ययः तथा पृथिवीशब्दात् अञ्-प्रत्ययः भवति ।** 'निमित्तम्' इत्युक्ते कारणम् ।सर्वभूमेः पृथिव्याः वा निमित्तम् यदि कश्चन संयोगः उत्पात वा अस्ति, तर्हि तस्य संयोगस्य उत्पात्तस्य वा निर्देशं कर्तुम् 'सर्वभूमि' शब्दात् अण्-प्रत्ययः तथा पृथिवी-शब्दात् अञ्-प्रत्ययः भवति । 1. सर्वभूमेः निमित्तः संयोगः / उत्पातः = सर्वभूमि + अण् → सार्वभौमः । अत्र **अनुशतिकादीनां च** (7.3.20) इति उभयपदवृद्धिः भवति । 2. पृथिव्याः निमित्तः संयोगः / उत्पात = पृथिवी + अञ् → पार्थिवः । ज्ञातव्यम् - 1. अण्-प्रत्ययेन तथा च अञ्-प्रत्ययेन समानमेव रूपं जायते, केवलं स्वरयोर्मध्ये भेदः अस्ति । अञ्-प्रत्ययः ञित् अस्ति, अतः अञ्-प्रत्ययान्तशब्दाः **ञ्नित्यादिर्नित्यम्** (6.1.197) इत्यनेन आद्युदात्ताः भवति । परन्तु णित्-प्रत्ययान्तशब्दानामादिस्वरः सामान्यतः अनुदात्तः जायते । 2. अस्मात् सूत्रात् 'सर्वभूमि' तथा 'पृथिवी' एतौ शब्दौ अग्रिम-अर्थज्ञापके सूत्रे अपि अनुवर्तेते । Vasu English Summary -------------------- The affixes अण् (+/- -अ) and अञ् (+/- -अ) are respectively added to the words सार्वभूमि and पृथ्वी , in the above mentioned sense of 'a connection or a portent for its purpose'. Vasu English Translation ------------------------ The affixes अण् (+/- -अ) and अञ् (+/- -अ) are respectively added to the words सार्वभूमि and पृथ्वी , in the above mentioned sense of 'a connection or a portent for its purpose'. This debars ठक्. Thus सर्वभूमेर्निमित्तं संयोग उत्पातो वा = सार्वभौमः, so also पार्थिवः ॥ In सार्वभौमः there is *Vriddhi* of both members of the compound by (7.3.20). Kashika ------- सर्वभूमिपृथिवीशब्दाभ्यां यथासंख्यमणञौ प्रत्ययौ भवतः तस्य निमित्तं संयोगोत्पातावित्येतस्मिन् विषये। ठकोऽपवादौ। सर्वभूमेर्निमित्तं संयोग उत्पातो वा सार्वभौमः। पार्थिवः। सर्वभूमेरनुशतिकादिपाठाद् (७.३.२०) उभयपदवृद्धिः॥ Siddhanta Kaumudi ----------------- सर्वभूमेर्निमित्तं संयोग उत्पातो वा सार्वभौमः । पार्थिवः । सर्वभूमिशब्दोऽनुशतिकादिषु पद्यते ॥ Balamanorama ------------ **सर्वभूमिपृथिवीभ्यामणञौ** - सर्वभूमि । तस्य निमित्तमित्येव । सर्वभूमि, पृथिवी — आभ्यां यथासङ्ख्यमणञौ स्तः । सार्वभौम इति । ठञोऽपवादोऽण् । पार्थिव इति । पृथिव्या निमित्तं संयोग उत्पातो वेत्यर्थः । स्त्रिया पार्थिवी । सार्वभौमशब्दे कथमुभयपदवृद्धिरित्यत आह — अनुशतिकादिषु पठत इति । तथाचअनुशतिकादीनां चे॑त्युभयपदवृद्धिरिति भावः । Tattvabodhini ------------- **सर्वभूमिपृथिवीभ्यामणञौ** - सर्वभूमि । आभ्यां यथासङ्ख्यमणञौ स्तः । Padamanjari ----------- संयोगोत्पातौ प्रति यथासंख्यं न भवति, तयोः प्रत्ययार्थविशेषणत्वेन प्रकृतिभ्यां प्रत्ययाभ्यां चासम्बन्धात् ॥ Prakriyasarvasvam ----------------- क्रमात् स्तः । सर्वभूमेर्निमित्तं संयोग उत्पातो वा । अनुशतिकादित्वात् सार्वभौमः । पार्थिवः ॥ Sutra Prayogas -------------- * **पार्थिवो** (शिशुपालवधम्): `सर्वभूमिपृथिवीभ्यामणञौ` इत्यञ्प्रत्ययः।