44139: मधोः

Padacheda: मधोः | S | 5 | 1 |

Sutrartha

मधु-शब्दात् मयट्-प्रत्ययस्य अर्थे वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते ।

‘मयट्’ इति कश्चन तद्धितप्रत्ययः । सूत्रपाठे भिन्नेषु अर्थेषु मयट्-प्रत्ययः उक्तः अस्ति । एतेभ्यः अस्य सूत्रस्य विषये काशिकाकारः चतुरः अर्थान् ब्रूते - 1. मयट् च (4.3.82) इत्यनेन ततः आगतः (4.3.74) अस्मिन् अर्थे मयट्-प्रत्ययविधानम् कृतमस्ति । 2. मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः (4.3.143) इत्यनेन तस्य विकारः (4.3.134) तथा च अवयवे च प्राण्योषधिवृक्षेभ्यः (4.3.135) इत्येययोः अर्थयोः मयट्-प्रत्ययविधानम् कृतमस्ति । 3. तत्प्रकृतवचने मयट् (5.4.21) इत्यनेन ‘प्रकृतम् (= प्राचुर्यम्)’ अस्मिन् अर्थे मयट्-प्रत्ययः उच्यते । एते चत्वारः अर्थाः अस्मिन् सूत्रे स्वीक्रियन्ते । एतेषु अर्थेषु वेदेषु ‘मधु’शब्दात् ‘यत् ‘प्रत्ययः कृतः दृश्यते । मधुनः आगतः / मधुनः विकारः / मधुनः अवयवः / मधु प्रकृतम् = मधु + यत् → मधो + य [ओर्गुणः (6.4.146) इति गुणः] → मधव् + य [वान्तो यि प्रत्यये (6.1.79) इति अवादेशः] → मधव्य वेदेषु प्रयोगः - (पैप्पलादसंहिता 1.88.2, ‘विकारः’ अस्मिन् अर्थै) - मधव्यान् स्तोकानपि यान् रराध सं मा तैः सृजतु विश्वकर्मा । ज्ञातव्यम् - अस्मिन् सूत्रे मयट्-प्रत्ययस्य ‘आगतः’, ‘विकारः’, ‘अवयवः’ तथा ‘प्रकृतम्’ एते चत्वारः अर्थाः स्वीकृताः सन्ति । एतेषां सर्वेषां भिन्नाः समर्थविभक्तयः सन्ति । यथा - ‘आगतः’ इत्यत्र पञ्चमीसामर्थ्यमपेक्षते, ‘विकारः’ तथा ‘अवयवः’ इत्यत्र षष्ठीसामर्थ्यमपेक्षते, तथा च ‘प्रकृतम्’ इत्यत्र प्रथमासमर्थात् प्रत्ययः भवति ।

Vasu English Summary

The affix यत् comes in the छन्दस् (Vedas) after the word मधु with the force of मतुप्।

Vasu English Translation

The affix यत् comes in the छन्दस् (Vedas) after the word मधु with the force of मतुप्। Thus मधव्यान् स्तोकान् = मधुमयान् ॥

Kashika

यशब्दो निवृत्तः। मधुशब्दाद् मयडर्थे यत् प्रत्ययो भवति। मधव्यान् स्तोकान् (पै०सं०१.८८.२)। मधुमयानित्यर्थः॥

Siddhanta Kaumudi

मधुशब्दान्मयडर्थे यत्स्यात् । मधव्यः । मधुमयः इत्यर्थः ॥

Nyaas

मयडर्थ आगते प्रकृतवचने यथायोगं रूप्यमयटोः प्राप्तयोर्यद्विधीयते। तत्र मयटो हि द्व्यचश्छन्दसि (4.3.150) इति प्राप्तस्य नोत्वद्वर्ध्रबिल्वात् (4.3.151) इति प्रतिषेध उच्यते॥

Prakriyasarvasvam

अस्मान्मयडर्थे यदेव स्यात् । मधुमयं मधव्यम् ।