44138: मये च¶
Padacheda: मये | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
‘मयट्’ प्रत्ययस्य अर्थे सोमशब्दात् वेदेषु संज्ञायाः विषये ‘य’प्रत्ययः कृतः दृश्यते ।
‘मयट्’ इति कश्चन तद्धितप्रत्ययः । सूत्रपाठे भिन्नेषु अर्थेषु मयट्-प्रत्ययः उक्तः अस्ति । एतेभ्यः अस्य सूत्रस्य विषये काशिकाकारः चतुरः अर्थान् ब्रूते - 1. मयट् च (4.3.82) इत्यनेन ततः आगतः (4.3.74) अस्मिन् अर्थे मयट्-प्रत्ययविधानम् कृतमस्ति । 2. मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः (4.3.143) इत्यनेन तस्य विकारः (4.3.134) तथा च अवयवे च प्राण्योषधिवृक्षेभ्यः (4.3.135) इत्येययोः अर्थयोः मयट्-प्रत्ययविधानम् कृतमस्ति । 3. तत्प्रकृतवचने मयट् (5.4.21) इत्यनेन ‘प्रकृतम् (= प्राचुर्यम्)’ अस्मिन् अर्थे मयट्-प्रत्ययः उच्यते । एते चत्वारः अर्थाः अस्मिन् सूत्रे स्वीक्रियन्ते । एतेषु अर्थेषु वेदेषु ‘सोम’शब्दात् ‘य’प्रत्ययः कृतः दृश्यते । सोमात् आगतः / सोमस्य विकारः / सोमस्य अवयवः / सोमम् प्रकृतम् = सोम + य → सोम्य [यस्येति च (6.4.148) इति अकारलोपः] वेदेषु प्रयोगः - (ऋग्वेदः 9.67.8, विकारः अस्मिन् अर्थे) - क॒कु॒हः सो॒म्यो रस॒ इन्दु॒रिन्द्रा॑य पू॒र्व्यः । ज्ञातव्यम् - 1. अस्मिन् सूत्रे मयट्-प्रत्ययस्य ‘आगतः’, ‘विकारः’, ‘अवयवः’ तथा ‘प्रकृतम्’ एते चत्वारः अर्थाः स्वीकृताः सन्ति । एतेषां सर्वेषां भिन्नाः समर्थविभक्तयः सन्ति । यथा - ‘आगतः’ इत्यत्र पञ्चमीसामर्थ्यमपेक्षते, ‘विकारः’ तथा ‘अवयवः’ इत्यत्र षष्ठीसामर्थ्यमपेक्षते, तथा च ‘प्रकृतम्’ इत्यत्र प्रथमासमर्थात् प्रत्ययः भवति । 2. वस्तुतः अत्र ‘यत्’ इति औत्सर्गिकः प्रत्ययः अनुवर्तते । परन्तु तं बाधित्वा अस्मिन् सूत्रे ‘य’ प्रत्ययः उक्तः अस्ति । द्वयोः अपि प्रत्यययोः प्रयोगेण समानम् एव रूपम् जायते, परन्तु तयोर्मध्ये स्वरभेदः अस्ति । ‘यत्’प्रत्ययान्तः ‘सोम्य’शब्दः यतोऽनावः (6.1.213) इत्यनेन आद्युदात्तः जायते, परन्तु ‘य’प्रत्ययान्तः ‘सोम्य’शब्दः आद्युदात्तश्च (3.1.3) इत्यनेन अन्तोदात्तत्वं प्राप्नोति । (आद्युदात्तश्च (3.1.3) इत्यनेन प्रत्ययस्य आदिस्वरः उदात्तः जायते । अतः अत्र अनेन सूत्रेण यकारोत्तरः अकारः उदात्तः भवति । अयमकारः ‘सभ्य’ इति सम्पूर्णशब्दस्य अन्तिमस्थाने अस्ति, अतः अत्र ‘सोम्य’शब्दः अन्तोदात्तत्वं प्राप्नोति) ।
Vasu English Summary¶
The affix य comes in the छन्दस् (Vedas) after the word सोम with the force of मतुप्।
Vasu English Translation¶
The affix य comes in the छन्दस् (Vedas) after the word सोम with the force of मतुप्। The force of the affix मयट् is that of ततः आगतः (4.3.74) and (4.3.82), विकारावयव (4.3.134) and (4.3.143) and प्रकृत (5.4.21). The case in construction will vary according to the sense. Thus सोम्यं मधुः पिबन्ति = सोममयः मधुः ॥
Kashika¶
सोमग्रहणम्, यश्चानुवर्तते। मय इति मयडर्थो लक्ष्यते। सोमशब्दाद् मयडर्थे यः प्रत्ययो भवति। आगतविकारावयवप्रकृता मयडर्थाः। हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः**(४.३.८१),**मयट् च (४.३.८२),**मयड् वैतयोर्भाषायामभक्ष्याच्छादनयोः** (४.३.१४३),**तत्प्रकृतवचने मयट्** (५.४.२१) इति। तत्र यथायोगं समर्थविभक्तिः। पिबा॑ति सो॒म्यं मधु॑ (ऋ०८.२४.१३)। सोममयमित्यर्थः॥
Siddhanta Kaumudi¶
सोमशब्दाद्यः स्यान्मयडर्थे । सोम्यं मधु (सो॒म्यं मधु॑) । सोममयमित्यर्थः ॥
Padamanjari¶
मय इति मयडर्थो लक्ष्यते इति । शब्दे कार्यस्यासम्भवात् । तत्र यथायोगं समर्थविभाक्तरिति । आगते पञ्चमी, विकारावयवयोः षष्ठी, प्रकृतवचने प्रथमा ॥
Nyaas¶
{नास्तीयं पंक्तिः - काशिका, पदमञ्जरी च}रूप्यमयटोऽपवादो योगः इति। मय इति मयडर्थो लक्ष्यते इति। शब्दे कार्यासम्भवादिति भावः। तत्र यथायोगं समर्थविभक्तिःर इति। तत्रागतार्थ पञ्चमी, विकारावयवयोः षष्ठी। प्रकृतवचने प्रथमेति यथायोगार्थः॥
Prakriyasarvasvam¶
आगतविकारावयवप्राचुर्येषु मयडर्थेषु सोमाद् यः स्यात् । ककुभः । सोम्यो रसः ।