44135: सहस्रेण संमितौ घः

Padacheda: सहस्रेण | S | 3 | 1 |

संमितौ | S | 7 | 1 |

घः | S | 1 | 1 |

Sutrartha

तृतीयासमर्थात् ‘सहस्र’शब्दात् ‘सम्मिति’ (समानता, सादृश्यता) अस्मिन् अर्थे वेदेषु संज्ञायाः विषये घ-प्रत्ययः कृतः दृश्यते ।

तृतीयासमर्थात् ‘सहस्र’शब्दात् ‘अनेन सम्मितम् / तुल्यम् / समानम्’ अस्मिन् अर्थे घ-प्रत्ययः भवति । सहस्रेण सम्मितः = सहस्र + घ → सहस्र + इय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति इय्-आदेशः] → सहस्र् + इय → सहस्रिय । यथा - सहस्रेण तुल्यः सहस्रियः अग्निः । वेदेषु प्रयोगः - तैत्तिरीयसंहिता 2.4.5.1 - ‘सविता यः सहस्रियः’ ।

Vasu English Summary

The affix घ comes in the sense of ‘like’ after the word सहस्र in the Instrumental -3rd case in construction, in the छन्दस् (Vedas).

Vasu English Translation

The affix घ comes in the sense of ‘like’ after the word सहस्र in the Instrumental -3rd case in construction, in the छन्दस् (Vedas). The case of construction is indicated by the sutra. Thus सहस्रेण संमितः = सहस्रियः ‘like unto thousand’. As in the following verse:- सहस्रिथासोऽपां नोर्मयः ॥ अयमग्निः सहस्रियः The word संमित means तुल्य ‘equal to’. Some read the word समित instead of सम्मित, but the meaning will be the same.

Kashika

निर्देशादेव समर्थविभक्तिः। सहस्रशब्दात् तृतीयासमर्थात् सम्मितावित्येतस्मिन्नर्थे घः प्रत्ययो भवति। सम्मितस्तुल्यः सदृशः। अ॒यम॒ग्निः स॑ह॒स्रियः॑ (तै०सं०४.७.१३.४)। सहस्रतुल्य इत्यर्थः। केचित्तु समिताविति पठन्ति। तत्रापि समित्या सम्मित एव लक्षयितव्यः। तत्र छन्दसि प्रयोगदर्शनात्॥

Siddhanta Kaumudi

सहस्त्रियासो अपां नोर्मयः (स॒ह॒स्त्रिया॑सो अ॒पां नोर्मयः॑) । सहस्रेण तुल्या इत्यर्थः ॥

Padamanjari

निर्देशादेव समर्थविभक्तिरिति । सा पुनस्तुल्यार्थयोगे तृतीया । सम्मित एव लक्षयितव्य इति । किं कारण् ? इत्याह - तत्रेति । च्छन्दसि हि तत्र सम्मिते प्रयोगो दृश्यते ॥

Prakriyasarvasvam

सहस्रेण सदृश इत्यर्थे घः स्यात् । सहस्रियं, दम्यं भागमेतम् ।

Sutra Prayogas

  • सु-गन्धस्तेना (भट्टिकाव्यम्): ` ` इतीकारः समासान्तो न भवति।