44135: सहस्रेण संमितौ घः ======================== **Padacheda:** सहस्रेण | S | 3 | 1 | संमितौ | S | 7 | 1 | घः | S | 1 | 1 | Sutrartha --------- **तृतीयासमर्थात् 'सहस्र'शब्दात् 'सम्मिति' (समानता, सादृश्यता) अस्मिन् अर्थे वेदेषु संज्ञायाः विषये घ-प्रत्ययः कृतः दृश्यते ।** तृतीयासमर्थात् 'सहस्र'शब्दात् 'अनेन सम्मितम् / तुल्यम् / समानम्' अस्मिन् अर्थे घ-प्रत्ययः भवति । सहस्रेण सम्मितः = सहस्र + घ → सहस्र + इय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति इय्-आदेशः] → सहस्र् + इय → सहस्रिय । यथा - सहस्रेण तुल्यः सहस्रियः अग्निः । वेदेषु प्रयोगः - तैत्तिरीयसंहिता 2.4.5.1 - 'सविता यः सहस्रियः' । Vasu English Summary -------------------- The affix घ comes in the sense of 'like' after the word सहस्र in the Instrumental -3rd case in construction, in the छन्दस् (Vedas). Vasu English Translation ------------------------ The affix घ comes in the sense of 'like' after the word सहस्र in the Instrumental -3rd case in construction, in the छन्दस् (Vedas). The case of construction is indicated by the *sutra*. Thus सहस्रेण संमितः = सहस्रियः 'like unto thousand'. As in the following verse:- सहस्रिथासोऽपां नोर्मयः ॥ अयमग्निः सहस्रियः The word संमित means तुल्य 'equal to'. Some read the word समित instead of सम्मित, but the meaning will be the same. Kashika ------- निर्देशादेव समर्थविभक्तिः। सहस्रशब्दात् तृतीयासमर्थात् सम्मितावित्येतस्मिन्नर्थे घः प्रत्ययो भवति। सम्मितस्तुल्यः सदृशः। अ॒यम॒ग्निः स॑ह॒स्रियः॑ (तै०सं०४.७.१३.४)। सहस्रतुल्य इत्यर्थः। केचित्तु समिताविति पठन्ति। तत्रापि समित्या सम्मित एव लक्षयितव्यः। तत्र छन्दसि प्रयोगदर्शनात्॥ Siddhanta Kaumudi ----------------- सहस्त्रियासो अपां नोर्मयः (स॒ह॒स्त्रिया॑सो अ॒पां नोर्मयः॑) । सहस्रेण तुल्या इत्यर्थः ॥ Padamanjari ----------- निर्देशादेव समर्थविभक्तिरिति । सा पुनस्तुल्यार्थयोगे तृतीया । सम्मित एव लक्षयितव्य इति । किं कारण् ? इत्याह - तत्रेति । च्छन्दसि हि तत्र सम्मिते प्रयोगो दृश्यते ॥ Prakriyasarvasvam ----------------- सहस्रेण सदृश इत्यर्थे घः स्यात् । सहस्रियं, दम्यं भागमेतम् । Sutra Prayogas -------------- * **सु-गन्धस्तेना** (भट्टिकाव्यम्): ` ` इतीकारः समासान्तो न भवति।