44040: प्रतिकण्ठार्थललामं च¶
Padacheda: प्रतिकण्ठ-अर्थ-ललामम् | S | 2 | 1 |
च | S | 0 | 0 |
Sutrartha¶
‘गृह्णाति’ अस्मिन् अर्थे द्वितीयासमर्थात् प्रतिकण्ठ/अर्थ/ललामशब्दात् ठक् प्रत्ययः भवति ।
‘गृह्णाति’ अस्मिन् अर्थे द्वितीयासमर्थात् ‘प्रतिकण्ठ’शब्दात् , ‘अर्थ’शब्दात्, ‘ललाम’शब्दात् च ठक् प्रत्ययः भवति । क्रमेण पश्यामः । - 1. प्रतिकण्ठ - ‘कण्ठ’ इत्युक्ते मतम् / विचारम् / चिन्तनम् / पर्यायः / शब्दः । भिन्नानां विचाराणाम् / पर्यायाणाम् / शब्दानाम् वा सङ्कलनम् ‘प्रतिकण्ठ’ नाम्ना ज्ञायते । कण्ठं कण्ठं प्रति = प्रतिकण्ठम् । ‘प्रतिकण्ठम्’ अस्य शब्दस्य अन्यः अपि एकः अर्थः भवितुमर्हति - लक्षणेनाभिप्रती आभिमुख्ये (2.1.14) इत्यनेन यत् ‘कण्ठमाभिमुख्यम्’ (कण्ठस्य दिशायां) वर्तते तदपि प्रतिकण्ठम् नाम्ना ज्ञायते । एतादृशं प्रतिकण्ठं यः गृह्णाति सः प्रातिकण्ठिकः । यथा, यः ग्रन्थः सर्वेषाम् मतानाम् चिन्तनानाम् च सङ्कलनम् करोति सः प्रातिकण्ठिकः ग्रन्थः । 2. अर्थ - अर्थं गृह्णाति (जानाति / स्वीकरोति) सः आर्थिकः ग्रन्थः । अर्थ + ठक् → आर्थिक । 3. ललाम - ‘ललाम’ इत्युक्ते अलङ्कारः। ललामम् गृह्णाति सः लालामिकः ग्रन्थः । यस्मिन् ग्रन्थे भिन्नाः शब्दालङ्काराः प्रयुज्यन्ते, तस्य निर्देशः अत्र कृतः अस्ति ।
Vasu English Summary¶
The affix ठक् comes in the sense of ‘who takes’ after the words 1. प्रतिकण्ठा 2. अर्थ and 3. ललाम being in the Accusative -2nd case in construction.
Vasu English Translation¶
The affix ठक् comes in the sense of ‘who takes’ after the words 1. प्रतिकण्ठा 2. अर्थ and 3. ललाम being in the Accusative -2nd case in construction. Thus प्रतिकण्ठं गृह्णाति = प्रातिकण्ठिकः ॥ So also आर्थिकः, लालामिकः ॥ The word प्रतिकण्ठ here is an Avyayi-bhava meaning कण्ठं कण्ठं प्रति, and not प्रतिगतः कण्ठं = प्रतिकण्ठ, for to the latter no affix is added.
Kashika¶
प्रतिकण्ठार्थललामशब्देभ्यस्तदिति द्वितीयासमर्थेभ्यो गृह्णातीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। प्रतिकण्ठं गृह्णाति प्रातिकण्ठिकः। आर्थिकः। लालामिकः॥
Siddhanta Kaumudi¶
एभ्यो गृह्णात्यर्थे ठक् स्यात् । प्रतिकण्ठं गृह्णाति प्रातिकण्ठिकः । आर्थिकः लालामिकः ॥
Balamanorama¶
प्रतिकण्ठार्थललामं च - प्रतिकण्ठार्थ । एभ्य इति । प्रतिकण्ठ, अर्थ, ललाम — इत्येभ्य इत्यर्थः । आर्थिक इति । अर्थं गृह्णातीत्यर्थः । लालामिक इति । ललामं=चिह्नं, तद्गृह्णातीत्यर्थः ।लिङ्गं ललामं च ललाम चे॑त्यमरः ।
Tattvabodhini¶
प्रतिकण्ठार्थललामं च - प्रतिकण्ठमिति । कण्ठं कण्ठं प्रतीति यथार्थेऽव्ययीभावः,लक्षणेनाभिप्रती आभिमुख्ये॑इत्यनेन वा । यस्तु प्रतिगतः कण्ठं प्रतिकण्ठ इति प्रादिसमासः, तस्येह न ग्रहणं, व्याख्यानादित्याहुः ।
Padamanjari¶
कण्ठ्ंअ कण्ठ्ंअ प्रति प्रतिकण्ठम्,’यथार्थे यदव्ययम्’ इति वीप्सायामव्ययीभावः । आभिमुख्ये वा,’लक्षणेनाभिप्रती आभिमुख्ये’ इति । यस्तु प्रतिगतः कण्ठ्ंअ प्रतिकण्ठ इति प्रादिसमासः, तस्य ग्रहणं न भवतिऽ अनभिधानात् ॥
Nyaas¶
कण्ठं कण्ठं प्रति प्रतिकण्ठम्, यथार्थेऽव्ययीभावः, आभिमुख्ये वा लक्षणेनाभिप्रती आभिमुख्ये (2.1.14) इति। कण्ठस्याभिमुख्य इति। कण्ठस्याभिमुख्यं प्रतिकण्ठम्, प्रातिकण्ठिकः स उच्यते सर्व कण्ठं यो गृह्णाति, यो वा कण्ठमाभिमुख्येन गृह्णाति। द्वितीयासमर्थप्रकरणे पुनर्द्वितीयान्त प्रकृतिनिर्देश इष्टाद्यथा स्यात्, अनिष्टान्मा भूत्। तेन प्रतिगतः कण्ठमिति कुगतिप्रादयः (2.2.18) इति तत्पुरुषो यः प्रतिकण्ठशब्दस्ततो न भवति॥
Prakriyasarvasvam¶
प्रतिकण्ठं गृह्णन् प्रातिकण्ठिकः । आर्थिकः । लालामिकः । ललामं भूषणम् । नान्तमदन्तं चास्ति ।।