44040: प्रतिकण्ठार्थललामं च =========================== **Padacheda:** प्रतिकण्ठ-अर्थ-ललामम् | S | 2 | 1 | च | S | 0 | 0 | Sutrartha --------- **'गृह्णाति' अस्मिन् अर्थे द्वितीयासमर्थात् प्रतिकण्ठ/अर्थ/ललामशब्दात् ठक् प्रत्ययः भवति ।** 'गृह्णाति' अस्मिन् अर्थे द्वितीयासमर्थात् 'प्रतिकण्ठ'शब्दात् , 'अर्थ'शब्दात्, 'ललाम'शब्दात् च ठक् प्रत्ययः भवति । क्रमेण पश्यामः । - 1. प्रतिकण्ठ - 'कण्ठ' इत्युक्ते मतम् / विचारम् / चिन्तनम् / पर्यायः / शब्दः । भिन्नानां विचाराणाम् / पर्यायाणाम् / शब्दानाम् वा सङ्कलनम् 'प्रतिकण्ठ' नाम्ना ज्ञायते । कण्ठं कण्ठं प्रति = प्रतिकण्ठम् । 'प्रतिकण्ठम्' अस्य शब्दस्य अन्यः अपि एकः अर्थः भवितुमर्हति - **लक्षणेनाभिप्रती आभिमुख्ये** (2.1.14) इत्यनेन यत् 'कण्ठमाभिमुख्यम्' (कण्ठस्य दिशायां) वर्तते तदपि प्रतिकण्ठम् नाम्ना ज्ञायते । एतादृशं प्रतिकण्ठं यः गृह्णाति सः प्रातिकण्ठिकः । यथा, यः ग्रन्थः सर्वेषाम् मतानाम् चिन्तनानाम् च सङ्कलनम् करोति सः प्रातिकण्ठिकः ग्रन्थः । 2. अर्थ - अर्थं गृह्णाति (जानाति / स्वीकरोति) सः आर्थिकः ग्रन्थः । अर्थ + ठक् → आर्थिक । 3. ललाम - 'ललाम' इत्युक्ते अलङ्कारः। ललामम् गृह्णाति सः लालामिकः ग्रन्थः । यस्मिन् ग्रन्थे भिन्नाः शब्दालङ्काराः प्रयुज्यन्ते, तस्य निर्देशः अत्र कृतः अस्ति । Vasu English Summary -------------------- The affix ठक् comes in the sense of 'who takes' after the words 1. प्रतिकण्ठा 2. अर्थ and 3. ललाम being in the Accusative -2nd case in construction. Vasu English Translation ------------------------ The affix ठक् comes in the sense of 'who takes' after the words 1. प्रतिकण्ठा 2. अर्थ and 3. ललाम being in the Accusative -2nd case in construction. Thus प्रतिकण्ठं गृह्णाति = प्रातिकण्ठिकः ॥ So also आर्थिकः, लालामिकः ॥ The word प्रतिकण्ठ here is an *Avyayi*-*bhava* meaning कण्ठं कण्ठं प्रति, and not प्रतिगतः कण्ठं = प्रतिकण्ठ, for to the latter no affix is added. Kashika ------- प्रतिकण्ठार्थललामशब्देभ्यस्तदिति द्वितीयासमर्थेभ्यो गृह्णातीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। प्रतिकण्ठं गृह्णाति प्रातिकण्ठिकः। आर्थिकः। लालामिकः॥ Siddhanta Kaumudi ----------------- एभ्यो गृह्णात्यर्थे ठक् स्यात् । प्रतिकण्ठं गृह्णाति प्रातिकण्ठिकः । आर्थिकः लालामिकः ॥ Balamanorama ------------ **प्रतिकण्ठार्थललामं च** - प्रतिकण्ठार्थ । एभ्य इति । प्रतिकण्ठ, अर्थ, ललाम — इत्येभ्य इत्यर्थः । आर्थिक इति । अर्थं गृह्णातीत्यर्थः । लालामिक इति । ललामं=चिह्नं, तद्गृह्णातीत्यर्थः ।लिङ्गं ललामं च ललाम चे॑त्यमरः । Tattvabodhini ------------- **प्रतिकण्ठार्थललामं च** - प्रतिकण्ठमिति । कण्ठं कण्ठं प्रतीति यथार्थेऽव्ययीभावः,लक्षणेनाभिप्रती आभिमुख्ये॑इत्यनेन वा । यस्तु प्रतिगतः कण्ठं प्रतिकण्ठ इति प्रादिसमासः, तस्येह न ग्रहणं, व्याख्यानादित्याहुः । Padamanjari ----------- कण्ठ्ंअ कण्ठ्ंअ प्रति प्रतिकण्ठम्,'यथार्थे यदव्ययम्' इति वीप्सायामव्ययीभावः । आभिमुख्ये वा,'लक्षणेनाभिप्रती आभिमुख्ये' इति । यस्तु प्रतिगतः कण्ठ्ंअ प्रतिकण्ठ इति प्रादिसमासः, तस्य ग्रहणं न भवतिऽ अनभिधानात् ॥ Nyaas ----- कण्ठं कण्ठं प्रति प्रतिकण्ठम्, यथार्थेऽव्ययीभावः, आभिमुख्ये वा **लक्षणेनाभिप्रती आभिमुख्ये** (2.1.14) इति। कण्ठस्याभिमुख्य इति। कण्ठस्याभिमुख्यं प्रतिकण्ठम्, प्रातिकण्ठिकः स उच्यते सर्व कण्ठं यो गृह्णाति, यो वा कण्ठमाभिमुख्येन गृह्णाति। द्वितीयासमर्थप्रकरणे पुनर्द्वितीयान्त प्रकृतिनिर्देश इष्टाद्यथा स्यात्, अनिष्टान्मा भूत्। तेन प्रतिगतः कण्ठमिति **कुगतिप्रादयः** (2.2.18) इति तत्पुरुषो यः प्रतिकण्ठशब्दस्ततो न भवति॥ Prakriyasarvasvam ----------------- प्रतिकण्ठं गृह्णन् प्रातिकण्ठिकः । आर्थिकः । लालामिकः । ललामं भूषणम् । नान्तमदन्तं चास्ति ।।