44036: परिपन्थं च तिष्ठति¶
Padacheda: परिपन्थम् | S | 2 | 1 |
च | S | 0 | 0 |
तिष्ठति | T | | |
Sutrartha¶
‘तिष्ठति’ तथा ‘हन्ति’ एतयोः अर्थयोः द्वितीयासमर्थात् ‘परिपन्थ’ शब्दात् ‘ठक्’ प्रत्ययः भवति ।
‘परिपन्थ’ इत्यस्मात् शब्दात् ‘तत् तिष्ठति’ तथा ‘तत् हन्ति’ एतयोः अर्थयोः ठक्-प्रत्ययः भवति । किम् नाम परिपन्थम् ? अस्य शब्दस्य अर्थद्वयम् व्याख्याने दीयते - 1. ‘पन्थानम् वर्जयित्वा’ अस्मिन् अर्थे अव्ययीभावसमासं कृत्वा ‘परिपन्थम्’ इति अव्ययं सिद्ध्यति । 2. ‘पन्थानम् व्याप्य’ अस्मिन् अर्थे प्रादितत्पुरुषसमासं कृत्वा ‘परिपन्थ’ इति प्रातिपदिकं सिद्ध्यति । द्वयोः विषये ‘तिष्ठति’ तथा ‘हन्ति’ एतयोः अर्थयोः ठक्-प्रत्ययः भवति । यथा - 1. परिपन्थं (=पन्थानं वर्जयित्वा / व्याप्य) तिष्ठति सः पारिपन्थिकः चौरः । ‘चौरकार्यार्थं मार्गस्य मध्ये एव न तिष्ठति, मार्गात् बहिः स्थित्वा पथिकान् दृष्ट्वा आक्रमणं करोति, सः पारिपन्थिकः’, इत्यर्थः । तथैव, मार्गम् व्याप्य / अवरुद्ध्य स्थित्वा पथिकमग्रे न गमयति सोऽपि पारिपन्थिकः एव । 2. परिपन्थं (=पन्थानं वर्जयित्वा / व्याप्य) हन्ति सः पारिपन्थिकः चौरः । अत्रापि तादृशमेव - मार्गात् बहिः स्थित्वा मार्गस्य मध्ये स्थित्वा वा यः पथिकं हन्ति, सः पारिपन्थिकः । ज्ञातव्यम् - 1. वस्तुतः ‘परिपन्थः’ अयम् शब्दः साधु न । वस्तुतः ‘पन्थानं व्याप्य / वर्जयित्वा’ अस्मिन् अर्थे ‘परिपथः’ इति शब्दः जायते, न हि ‘परिपन्थः’ इति शब्दः । तथापि वर्तमानसूत्रे ‘परिपन्थः’ इत्येव शब्दप्रयोगः कृतः अस्ति । अयम् प्रयोगः ‘निपातनम्’ अस्तीति व्याख्यानेषु उच्यते । 2. अस्मिन् सूत्रे ‘तत्’ इति द्वितीयासमर्थः अनुवर्तते । अस्यां स्थितौ ‘परिपन्थ’शब्दस्यापि द्वितीया किमर्थम् कृता, पञ्चमी किमर्थम् न प्रयुक्ता - इति प्रश्नः उपतिष्ठति । अस्य स्पष्टीकरणार्थम् काशिकाकारः वदति - ‘समर्थविभक्तिप्रकरणे पुनर्द्वितियोच्चारणं लौकिकवाक्यप्रदर्शनार्थम्’ । इत्युक्ते, काशिकाकारस्य मतेन आचार्यः अत्र द्वितीयायाः प्रयोगेण एतत् स्पष्टीकरोति यत् ‘परिपन्थः’ इदम् निपातनम् लौकिकवाक्येषु अपि भवितुमर्हति । अतः ‘परिपन्थम् गच्छति’ , ‘परिपन्थम् पश्यति’ एतादृशाः प्रयोगाः अपि समिचीनाः ।
Vasu English Summary¶
The affix ठक् also comes in the sense of ‘who stays’ after the word परिपन्थ , the word being in the Accusative -2nd case in construction.
Vasu English Translation¶
The affix ठक् also comes in the sense of ‘who stays’ after the word परिपन्थ , the word being in the Accusative -2nd case in construction. Thus परिपन्थं तिष्ठति = पारिपन्थिकः यः पन्थानं वर्जयित्वा तिष्ठति, यो वा पन्थानं व्याप्य तिष्ठति ‘a thief’ lit. “who stays at roads, a high way man”. The च in the sutra indicates that the sense of हन्ति ‘who kills’ of the last, is to be connected with this sutra by the conjunction ‘and’. Thus परिपन्थं हन्ति = पारिपन्थिकः ॥
The phrase ‘being in the second case in construction’ is understood in this sutra, why has then the word परिपन्थम् been shown in the second case in the sutra, for it is a mere superfluity? No, it shows the secular form of the word. The word परिपन्थ is synonymous with परिपन्थ, the latter, however, having other senses also.
Kashika¶
परिपन्थशब्दात् तदिति द्वितीयासमर्थात् तिष्ठतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। परिपन्थं तिष्ठति पारिपन्थिकश्चौरः। चकारो भिन्नक्रमः प्रत्ययार्थं समुच्चिनोति। परिपन्थं हन्ति पारिपन्थिकः। समर्थविभक्तिप्रकरणे पुनर्द्वितीयोच्चारणं लौकिकवाक्यप्रदर्शनार्थम्। परिपथशब्दपर्यायःपरिपन्थशब्दोऽस्तीति ज्ञापयति। स विषयान्तरेऽपि प्रयोक्तव्यः॥
Siddhanta Kaumudi¶
अस्माद्द्वितीयान्तात्तिष्ठति हन्ति चेत्यर्थे ठक् स्यात् । पन्थानं वर्जयित्वा व्याप्य वा तिष्ठति पारिपन्थिकश्चौरः । परिपन्थं हन्ति पारिपन्थिकः ॥
Balamanorama¶
परिपन्थं च तिष्ठति - परिपन्थं च तिष्ठति । अस्मादिति । परिपन्थशब्दादित्यर्थः । चकाराद्धन्तीत्यनुकृष्यते । तदाह — तिष्ठति हन्ति चेति । पन्थानं वर्जयित्वेति । एतेन ‘अपपरी वर्जने’ इति परेः कर्मप्रवचनीयत्वेपञ्चम्यपाङ्परिभि॑रिति पञ्चम्याम्अपपरिबहिरञ्चवः पञ्चम्ये॑ति अव्ययीभावसमासः सुचितः । व्याप्त वेति । एतेन सर्वतःशब्दपर्यायस्य परेः परिगतः पन्था इति प्रादिसमासे परिपन्थशब्द इति सूचितम् । अव्ययीभावः, प्रादिसमासो वेत्यपि बोध्यम् । उभयथाऽपि क्रियाविशेषणत्वाद्द्वितीयान्तत्वम् । इदमेव सूचयितुं प्रकृतेरपि द्वितीयोच्चारणमिति वृत्तिकृतः इदमेवाभिप्रेत्य विग्रहं दर्शयति — परिपन्थं तिष्ठतीति ।
Tattvabodhini¶
परिपन्थं च तिष्ठति - परिपन्थं च । परिमुखवदयमव्ययीभावस्तत्पुरुषो वा । क्रियाविषयत्वात्तिष्ठतेरकर्मकत्वेऽपि परिपन्थस्य कर्मत्वमस्त्येवेत्याह -द्वितीयान्तादिति । चकारो भिन्नक्रमः प्रत्ययार्थं समुच्चिनोतीत्याह -तिष्ठति हन्ति चेति ।
Padamanjari¶
तदिति द्वितीयासमर्थादिति । परिपन्थशब्दः परिमुखशब्दवदव्ययीभावः, तत्पुरुषो वा । तत्राप्यव्ययीभावपक्षे क्रियाविशेषणातिष्ठतेरकर्मकत्वेऽपि परिपन्थस्य कर्मत्वम्; तत्पुरुषे तु परितः पन्थाः परिपन्थ इति’कालभावाध्वगन्तव्याः’ इति वचनात्कर्म, तदित्यधिकारसामर्थ्यादित्यन्ये । पारिपन्थिकश्चोर इति । यः पन्थानं वर्जयित्वा तिष्ठति यो वा पन्थानं व्याप्य तिष्ठति स एवमुच्यते । लौकिकवाक्यप्रदर्शनार्थमिति । परिपन्थं तिष्ठतीत्येतल्लौकिकवाक्यं तस्य प्रदर्शनार्थं द्वितीयोच्चारणम् । अथैवमर्थे द्वितीयोच्चारणे किं सिद्धं भवति ? इत्याह - परिपथपर्याय इत्यादि । किमेतस्य ज्ञापने प्रयोजनम् ? इत्याह - स विषयान्तरेऽपीति । असति तु ज्ञापने प्रत्ययसन्नियोगेन परिपन्थशब्दस्य निपातनं विज्ञायते, ततश्च ततोऽन्यत्र प्रयोगो न स्यात् ॥
Nyaas¶
यथा परिमुखञ्चेति परिमुखशब्दस्याव्ययीभावत्वं तत्पुरुषत्वञ्च, तथेहापि परिपन्थशब्दस्य तद्द्वयं वेदितव्यम्। तदिति द्वितीयासमर्थात् इति। ननु च तिष्ठतिरयमकर्मकः तत्कथं द्वितीयया सह सम्बन्धः? नैष दोषः; अकर्मणामपि हि {कालभावाध्वनां मुद्रितपाठः} कालभावाध्नः कर्मसंज्ञां प्रतिपद्यन्ते। तथा चोक्तम् - कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्रकर्मणाम् (वा।1.3.51) इति। पारिपन्थिकश्चौरः इत्यव्ययीभावः। चौरो यः पन्थानं वर्णयित्वा तिष्ठति स पारिपन्थिकशब्देनोच्यते। तत्पुरुषपक्षे तु यश्चौरः पथो व्याप्य तिष्ठति स परिपन्थिक उच्यते।चकारः इत्यादि। तिष्ठति चेत्यत्र प्रत्ययार्थसमनन्तरमेव चकारो द्रष्टव्यः, तेन समानजातीयस्यैव प्रत्ययार्थस्य समुच्चयं करोति। अथ प्रकृतेरेव समुच्चयः कस्मान्न विज्ञायते? कर्मत्वानुपपत्तेः। तत्र हि द्वितीया समर्थविभक्तिरनुवर्तते, तिष्ठतेश्चाकर्मकत्वात् प्रकृताया मत्स्यादेः प्कृतेः कर्मभावो नोपपद्यते। कालभावाध्वनामेव ह्रकर्मकाणां कर्मसंज्ञेष्यते, न मत्स्यादीनाम्।लौकिकवाक्यप्रदर्शनार्थं तदेतद्द्वितीयोच्चारणं करोतीत्याह - {परिपथशब्दपर्यायः - काशिका}परिपथपर्यायः इति। किमेतस्य ज्ञापने प्रयोजनमित्याह - स विषयान्तरे इत्यादि। असति ह्रस्मिन् ज्ञापने ठक्प्रत्ययसन्नियोगेन प्रकृतिर्निर्दिश्यमाना प्रत्ययाभावेन प्रसज्यते। ज्ञापने तु सति यत्रापि प्रत्ययो न भवति तत्रापि प्रयोग उपपद्यते॥
Prakriyasarvasvam¶
परिपथपर्यायः परिपन्थशब्दोऽस्ति । तस्मात् तिष्ठति हन्तीति चार्थे ठक् । प्राग्वत् परिद्व्यर्थः ॥ <karika> मार्गे हित्वा तिष्ठतीति चण्डालः पारिपन्थिकः । सर्वमार्गेषु तिष्ठन्तो रक्षकाः पारिपन्थिकाः ॥ २७२ ॥ मार्गादन्यत्र हन्तीति मृगौघः पारिपन्थिकः । सर्वमार्गेष्वपि घ्नन्तो दस्यवः पारिपन्थिकाः ॥ २७३ ॥ </karika> ‘परिपथं चैके’ इति भोजोक्तेः पारिपथिकोऽप्यर्थचतुष्के स्यात् ।