44036: परिपन्थं च तिष्ठति ========================= **Padacheda:** परिपन्थम् | S | 2 | 1 | च | S | 0 | 0 | तिष्ठति | T | | | Sutrartha --------- **'तिष्ठति' तथा 'हन्ति' एतयोः अर्थयोः द्वितीयासमर्थात् 'परिपन्थ' शब्दात् 'ठक्' प्रत्ययः भवति ।** 'परिपन्थ' इत्यस्मात् शब्दात् 'तत् तिष्ठति' तथा 'तत् हन्ति' एतयोः अर्थयोः ठक्-प्रत्ययः भवति । किम् नाम परिपन्थम् ? अस्य शब्दस्य अर्थद्वयम् व्याख्याने दीयते - 1. 'पन्थानम् वर्जयित्वा' अस्मिन् अर्थे अव्ययीभावसमासं कृत्वा 'परिपन्थम्' इति अव्ययं सिद्ध्यति । 2. 'पन्थानम् व्याप्य' अस्मिन् अर्थे प्रादितत्पुरुषसमासं कृत्वा 'परिपन्थ' इति प्रातिपदिकं सिद्ध्यति । द्वयोः विषये 'तिष्ठति' तथा 'हन्ति' एतयोः अर्थयोः ठक्-प्रत्ययः भवति । यथा - 1. परिपन्थं (=पन्थानं वर्जयित्वा / व्याप्य) तिष्ठति सः पारिपन्थिकः चौरः । 'चौरकार्यार्थं मार्गस्य मध्ये एव न तिष्ठति, मार्गात् बहिः स्थित्वा पथिकान् दृष्ट्वा आक्रमणं करोति, सः पारिपन्थिकः', इत्यर्थः । तथैव, मार्गम् व्याप्य / अवरुद्ध्य स्थित्वा पथिकमग्रे न गमयति सोऽपि पारिपन्थिकः एव । 2. परिपन्थं (=पन्थानं वर्जयित्वा / व्याप्य) हन्ति सः पारिपन्थिकः चौरः । अत्रापि तादृशमेव - मार्गात् बहिः स्थित्वा मार्गस्य मध्ये स्थित्वा वा यः पथिकं हन्ति, सः पारिपन्थिकः । ज्ञातव्यम् - 1. वस्तुतः 'परिपन्थः' अयम् शब्दः साधु न । वस्तुतः 'पन्थानं व्याप्य / वर्जयित्वा' अस्मिन् अर्थे 'परिपथः' इति शब्दः जायते, न हि 'परिपन्थः' इति शब्दः । तथापि वर्तमानसूत्रे 'परिपन्थः' इत्येव शब्दप्रयोगः कृतः अस्ति । अयम् प्रयोगः 'निपातनम्' अस्तीति व्याख्यानेषु उच्यते । 2. अस्मिन् सूत्रे 'तत्' इति द्वितीयासमर्थः अनुवर्तते । अस्यां स्थितौ 'परिपन्थ'शब्दस्यापि द्वितीया किमर्थम् कृता, पञ्चमी किमर्थम् न प्रयुक्ता - इति प्रश्नः उपतिष्ठति । अस्य स्पष्टीकरणार्थम् काशिकाकारः वदति - 'समर्थविभक्तिप्रकरणे पुनर्द्वितियोच्चारणं लौकिकवाक्यप्रदर्शनार्थम्' । इत्युक्ते, काशिकाकारस्य मतेन आचार्यः अत्र द्वितीयायाः प्रयोगेण एतत् स्पष्टीकरोति यत् 'परिपन्थः' इदम् निपातनम् लौकिकवाक्येषु अपि भवितुमर्हति । अतः 'परिपन्थम् गच्छति' , 'परिपन्थम् पश्यति' एतादृशाः प्रयोगाः अपि समिचीनाः । Vasu English Summary -------------------- The affix ठक् also comes in the sense of 'who stays' after the word परिपन्थ , the word being in the Accusative -2nd case in construction. Vasu English Translation ------------------------ The affix ठक् also comes in the sense of 'who stays' after the word परिपन्थ , the word being in the Accusative -2nd case in construction. Thus परिपन्थं तिष्ठति = पारिपन्थिकः यः पन्थानं वर्जयित्वा तिष्ठति, यो वा पन्थानं व्याप्य तिष्ठति 'a thief' lit. "who stays at roads, a high way man". The च in the *sutra* indicates that the sense of हन्ति 'who kills' of the last, is to be connected with this *sutra* by the conjunction 'and'. Thus परिपन्थं हन्ति = पारिपन्थिकः ॥ The phrase 'being in the second case in construction' is understood in this *sutra*, why has then the word परिपन्थम् been shown in the second case in the *sutra*, for it is a mere superfluity? No, it shows the secular form of the word. The word परिपन्थ is synonymous with परिपन्थ, the latter, however, having other senses also. Kashika ------- परिपन्थशब्दात् तदिति द्वितीयासमर्थात् तिष्ठतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। परिपन्थं तिष्ठति पारिपन्थिकश्चौरः। चकारो भिन्नक्रमः प्रत्ययार्थं समुच्चिनोति। परिपन्थं हन्ति पारिपन्थिकः। समर्थविभक्तिप्रकरणे पुनर्द्वितीयोच्चारणं लौकिकवाक्यप्रदर्शनार्थम्। परिपथशब्दपर्यायःपरिपन्थशब्दोऽस्तीति ज्ञापयति। स विषयान्तरेऽपि प्रयोक्तव्यः॥ Siddhanta Kaumudi ----------------- अस्माद्द्वितीयान्तात्तिष्ठति हन्ति चेत्यर्थे ठक् स्यात् । पन्थानं वर्जयित्वा व्याप्य वा तिष्ठति पारिपन्थिकश्चौरः । परिपन्थं हन्ति पारिपन्थिकः ॥ Balamanorama ------------ **परिपन्थं च तिष्ठति** - परिपन्थं च तिष्ठति । अस्मादिति । परिपन्थशब्दादित्यर्थः । चकाराद्धन्तीत्यनुकृष्यते । तदाह — तिष्ठति हन्ति चेति । पन्थानं वर्जयित्वेति । एतेन 'अपपरी वर्जने' इति परेः कर्मप्रवचनीयत्वेपञ्चम्यपाङ्परिभि॑रिति पञ्चम्याम्अपपरिबहिरञ्चवः पञ्चम्ये॑ति अव्ययीभावसमासः सुचितः । व्याप्त वेति । एतेन सर्वतःशब्दपर्यायस्य परेः परिगतः पन्था इति प्रादिसमासे परिपन्थशब्द इति सूचितम् । अव्ययीभावः, प्रादिसमासो वेत्यपि बोध्यम् । उभयथाऽपि क्रियाविशेषणत्वाद्द्वितीयान्तत्वम् । इदमेव सूचयितुं प्रकृतेरपि द्वितीयोच्चारणमिति वृत्तिकृतः इदमेवाभिप्रेत्य विग्रहं दर्शयति — परिपन्थं तिष्ठतीति । Tattvabodhini ------------- **परिपन्थं च तिष्ठति** - परिपन्थं च । परिमुखवदयमव्ययीभावस्तत्पुरुषो वा । क्रियाविषयत्वात्तिष्ठतेरकर्मकत्वेऽपि परिपन्थस्य कर्मत्वमस्त्येवेत्याह -द्वितीयान्तादिति । चकारो भिन्नक्रमः प्रत्ययार्थं समुच्चिनोतीत्याह -तिष्ठति हन्ति चेति । Padamanjari ----------- तदिति द्वितीयासमर्थादिति । परिपन्थशब्दः परिमुखशब्दवदव्ययीभावः, तत्पुरुषो वा । तत्राप्यव्ययीभावपक्षे क्रियाविशेषणातिष्ठतेरकर्मकत्वेऽपि परिपन्थस्य कर्मत्वम्; तत्पुरुषे तु परितः पन्थाः परिपन्थ इति'कालभावाध्वगन्तव्याः' इति वचनात्कर्म, तदित्यधिकारसामर्थ्यादित्यन्ये । पारिपन्थिकश्चोर इति । यः पन्थानं वर्जयित्वा तिष्ठति यो वा पन्थानं व्याप्य तिष्ठति स एवमुच्यते । लौकिकवाक्यप्रदर्शनार्थमिति । परिपन्थं तिष्ठतीत्येतल्लौकिकवाक्यं तस्य प्रदर्शनार्थं द्वितीयोच्चारणम् । अथैवमर्थे द्वितीयोच्चारणे किं सिद्धं भवति ? इत्याह - परिपथपर्याय इत्यादि । किमेतस्य ज्ञापने प्रयोजनम् ? इत्याह - स विषयान्तरेऽपीति । असति तु ज्ञापने प्रत्ययसन्नियोगेन परिपन्थशब्दस्य निपातनं विज्ञायते, ततश्च ततोऽन्यत्र प्रयोगो न स्यात् ॥ Nyaas ----- यथा परिमुखञ्चेति परिमुखशब्दस्याव्ययीभावत्वं तत्पुरुषत्वञ्च, तथेहापि परिपन्थशब्दस्य तद्द्वयं वेदितव्यम्। `तदिति द्वितीयासमर्थात्` इति। ननु च तिष्ठतिरयमकर्मकः तत्कथं द्वितीयया सह सम्बन्धः? नैष दोषः; अकर्मणामपि हि {कालभावाध्वनां मुद्रितपाठः} कालभावाध्नः कर्मसंज्ञां प्रतिपद्यन्ते। तथा चोक्तम् - `कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्रकर्मणाम्` (वा।1.3.51) इति। `पारिपन्थिकश्चौरः` इत्यव्ययीभावः। चौरो यः पन्थानं वर्णयित्वा तिष्ठति स पारिपन्थिकशब्देनोच्यते। तत्पुरुषपक्षे तु यश्चौरः पथो व्याप्य तिष्ठति स परिपन्थिक उच्यते।`चकारः` इत्यादि। तिष्ठति चेत्यत्र प्रत्ययार्थसमनन्तरमेव चकारो द्रष्टव्यः, तेन समानजातीयस्यैव प्रत्ययार्थस्य समुच्चयं करोति। अथ प्रकृतेरेव समुच्चयः कस्मान्न विज्ञायते? कर्मत्वानुपपत्तेः। तत्र हि द्वितीया समर्थविभक्तिरनुवर्तते, तिष्ठतेश्चाकर्मकत्वात् प्रकृताया मत्स्यादेः प्कृतेः कर्मभावो नोपपद्यते। कालभावाध्वनामेव ह्रकर्मकाणां कर्मसंज्ञेष्यते, न मत्स्यादीनाम्।लौकिकवाक्यप्रदर्शनार्थं तदेतद्द्वितीयोच्चारणं करोतीत्याह - `{परिपथशब्दपर्यायः - काशिका}परिपथपर्यायः` इति। किमेतस्य ज्ञापने प्रयोजनमित्याह - `स विषयान्तरे` इत्यादि। असति ह्रस्मिन् ज्ञापने ठक्प्रत्ययसन्नियोगेन प्रकृतिर्निर्दिश्यमाना प्रत्ययाभावेन प्रसज्यते। ज्ञापने तु सति यत्रापि प्रत्ययो न भवति तत्रापि प्रयोग उपपद्यते॥ Prakriyasarvasvam ----------------- परिपथपर्यायः परिपन्थशब्दोऽस्ति । तस्मात् तिष्ठति हन्तीति चार्थे ठक् । प्राग्वत् परिद्व्यर्थः ॥ मार्गे हित्वा तिष्ठतीति चण्डालः पारिपन्थिकः । सर्वमार्गेषु तिष्ठन्तो रक्षकाः पारिपन्थिकाः ॥ २७२ ॥ मार्गादन्यत्र हन्तीति मृगौघः पारिपन्थिकः । सर्वमार्गेष्वपि घ्नन्तो दस्यवः पारिपन्थिकाः ॥ २७३ ॥ 'परिपथं चैके' इति भोजोक्तेः पारिपथिकोऽप्यर्थचतुष्के स्यात् ।