44034: शब्ददर्दुरं करोति¶
Padacheda: शब्द-दर्दुरम् | S | 2 | 1 |
करोति | T | | |
Sutrartha¶
‘करोति’ अस्मिन् अर्थे ‘शब्द’ तथा ‘दर्दुर’ शब्दाभ्याम् द्वितीयासमर्थाभ्याम् ठक् प्रत्ययः भवति ।
‘तत्’ इति द्वितीयासमर्थात् ‘करोति’ अस्मिन् अर्थे ‘शब्द’ तथा ‘दर्दुर’ एताभ्याम् शब्दाभ्याम् ठक् प्रत्ययः विधीयते । । अत्र ‘शब्द’ तथा ‘दर्दुर’ - उभयोः पदयोः विशिष्ट-अर्थे प्रयोगः कृतः अस्ति । क्रमेण पश्यामः - 1. ‘शब्दं करोति’ इत्युक्ते शब्दस्य प्रकृति-प्रत्ययादिविभाजनम् करोति । अस्मिन्नेव अर्थे अत्र ठक्-प्रत्ययविधानम् क्रियते । यथा - शब्दं करोति सः शाब्दिकः वैयाकरणः । शब्द + ठक् → शाब्दिक । 2 ‘दर्दुर’ इति कस्यचन पात्रस्य नाम । ‘दर्दुरं करोति’ इत्युक्ते दर्दुरनाम यत् पात्रम्, तस्य ध्वनिवत् शब्दं करोति । अस्मिन् अर्थे दर्दुरशब्दात् ठक् प्रत्ययः भवति । दर्दुरं करोति सः दार्दुरिकः । दर्दुर + ठक् → दार्दुरिक ।
Vasu English Summary¶
The affix ठक् comes after a word in the Accusative -2nd case in construction when the sense is ‘who makes a sound or croaking’.
Vasu English Translation¶
The affix ठक् comes after a word in the Accusative -2nd case in construction when the sense is ‘who makes a sound or croaking’. Thus शब्दं करोति = शाब्दिकः ‘who makes a sound’ i. e. a Grammarian. So दार्दुरिकः ‘who makes a croaking noise like a frog (dardura)’ i. e, a potter.
Kashika¶
तदिति द्वितीयासमर्थाभ्यां शब्ददर्दुरशब्दाभ्यां करोतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। शब्दं करोति शाब्दिको वैयाकरणः। दार्दुरिकः कु म्भकारः॥
Siddhanta Kaumudi¶
शब्दं करोति शाब्दिकः । दार्दुरिकः ॥
Laghu Siddhanta Kaumudi¶
शब्दं करोति शाब्दिकः। दर्दुरं करोति दार्दुरिकः॥
Balamanorama¶
शब्ददर्दुरं करोति - शब्ददर्दुरं करोति । शब्दं करोति, दर्दुरं करोतीति विग्रहे द्वितीयान्ताट्ठगित्यर्थः । इह शब्दविषये प्रकृतिप्रत्ययविभादपूर्वकज्ञाने करोतिर्वर्तते, व्याख्यानात् । तेनेह न — शब्दं करोति खरः । दार्दुरिक इति ।दर्दुरस्तोयदे भेके वाद्यभाण्डाऽद्रिभेदयोः । दर्दुरा चण्डिकायां स्यात्पामजाले तु दर्दुर॑मिति विआः । इह यथायोग्यमन्वयः ।
Tattvabodhini¶
शब्ददर्दुरं करोति - शब्दं करोतीति । प्रकृतिप्रत्ययविभागेन व्युत्पादयतीत्यर्थः । अभिधानस्वाभाव्याद्व्युत्पादन एवायं प्रत्ययः । नेह -शब्दं करोति बर्बरः खरो वा । दार्दुरिक इति । कुलाल इत्यर्थः । वाद्यभाण्डवाचीह दर्दुरशब्दः ।स्वरूपस्य पर्यायाणां विशेषाणां च ग्रहणम् । मात्स्यिक इति ।मत्स्यस्य ङ्या ॑मिति परिगणनात्सूर्यतिष्ये॑ति यलोपाऽभावः । हारिणिक इति । नन्विदं पर्यायस्योदाहरणं न भवति, हरिणस्य मृगविशेषंत्वात्तथा चात्र पर्यायस्योदाहरणं किमिति न प्रदर्शितमिति चेत् । अत्राहुः — — आरण्यकचतुष्पात्सु हरिणे च मृगशब्दो वर्तते । यदा हरिणवाची मृगशब्दः, तदा मृगपर्यायस्योदाहरणं भवत्येवेति ।
Padamanjari¶
शब्दं करोतीति । करोतिरिह ज्ञाने वर्तते, प्रकृत्यादिविभागेन जानातीत्यर्थः । एतच्चाभिधानस्वाभाव्याल्लभ्यते, इह न भवति - शब्दं करोति खर इति । पात्रविशेषवाची दर्दुरशब्दः । अनुकरणशब्द इत्यन्ये ॥
Nyaas¶
तदित्यनेनैव द्वितीयासमर्थविभक्तौ लब्धायां शब्ददर्दुरमिति द्वितीयानिर्देशो लौकिकवाक्यप्रदर्शनार्थः। शब्ददर्दुरं करोतीत्येद्व्यावहारिकं वाक्यम्। अस्य प्रतिग्रहो यत्र लोके व्यवहारस्तत्र प्रत्ययो भवति नान्यत्रेत्यर्थ सूचयते, तेन शब्दं करोति रवर इत्यत्र न भवति। लोके स शाब्दिक इत्युच्यते यः शब्दं वेत्ति; वैयाकरण एव शब्दं वेत्ति, तेन तत्रैव प्रत्ययो भवति, न खरे। च असौ वैयाकरणः प्रत्ययप्रकृत्यादिना सर्वं शब्दं जानाति॥
Prakriyasarvasvam¶
शब्दं संस्करोतीति शाब्दिकः । दर्दुराख्यपात्रकृद् दार्दुरिकः कुलालः । दर्दुरेत्यनुकरणशब्दो वेति हरः ॥