44033: रक्षति¶
Padacheda: रक्षति | T | | |
Sutrartha¶
‘रक्षति’ अस्मिन् अर्थे द्वितीयासमर्थात् ठक् प्रत्ययः भवति ।
‘रक्षति’ इत्युक्ते रक्षणं करोति । ‘रक्ष्’ धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् इदम् । ‘यः रक्षति’ तस्य निर्देशं कर्तुम् ‘यस्य रक्षणं क्रियते’ तस्मात् द्वितीयासमर्थात् अनेन सूत्रेण ठक्-प्रत्ययः विधीयते । यथा - 1. समाजं रक्षति सः सामाजिकः । समाज + ठक् → सामाजिक । 2. सन्निवेशं रक्षति सः सान्निवेशिकः । सन्निवेश + ठक् → सान्निवेशिक ।
Vasu English Summary¶
The affix ठक् comes after a word in the Accusative -2nd case in construction when the sense is ‘he aids or protects that’.
Vasu English Translation¶
The affix ठक् comes after a word in the Accusative -2nd case in construction when the sense is ‘he aids or protects that’. Thus समाजं रक्षति = सामाजिकः ‘a spectator’, lit. ‘who aids an assembly by his presence’. So also सांनिवेशिकः ॥
Kashika¶
तदिति द्वितीयासमर्थाद् रक्षतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। समाजं रक्षति सामाजिकः। सांनिवेशिकः॥
Siddhanta Kaumudi¶
समाजं रक्षति सामाजिकः ॥
Laghu Siddhanta Kaumudi¶
समाजं रक्षति सामाजिकः॥
Tattvabodhini¶
सामाजिक इति। समजन्ति अस्मिन्निति समाजः=समूहः।
Padamanjari¶
सामाजिक इति । समाजः उ समूहः, समजत्यस्मिन्निति कृत्वा, एवं सन्निवेशः ॥
Prakriyasarvasvam¶
तद् रक्षतीत्यर्थे ठक् । मण्डलं रक्षन् माण्डलिकः ॥