44003: संस्कृतम्

Padacheda: संस्कृतम् | S | 1 | 1 |

Sutrartha

तृतीयासमर्थात् ‘संस्कृतम्’ अस्मिन् अर्थे ठक्-प्रत्ययः भवति ।

संस्कृतम् इत्युक्ते उत्कर्षः । यस्य साहाय्येन उत्कर्षः क्रियते, तस्य तृतीयासमर्थात् नाम्नः ठक्-प्रत्ययं कृत्वा संस्कृतस्य पदार्थस्य निर्देशं कर्तुं वर्तमानसूत्रस्य प्रयोगः क्रियते । यथा - 1. दध्ना संस्कृतम् = दधि + ठक् → दाधिक । मूलरूपस्य अपेक्षया दध्ना यस्य उत्कर्षः कृतः अस्ति, तत् दाधिकम् । 2. मरीचैः (black pepper) संस्कृतम् = मरिच + ठक् → मारिचिक । प्रक्रिया - दधि + ठक् → दधि + इक [ठस्येकः (7.3.50) इति इक्-आदेशः] → दाधि + इक किति च (7.2.118) इति आदिवृद्धिः] → दाध् + इक [यस्येति च (6.4.148) इति अकारलोपः] → दाधिक एवमेव ‘मारिचिक’ इत्यपि रूपम् सिद्ध्यति । ज्ञातव्यम् - 1. अस्मिन् सूत्रे ‘तेन’ इत्यनेन संस्करणस्य यत् साधनम् तस्य ग्रहणं क्रियते । अतः ‘देवदत्तेन संस्कृतम्’ एतादृशेषु वाक्येषु अस्य सूत्रस्य प्रयोगः न भवति । 2. संस्कृतं भक्षाः (4.2.16) इति कश्चन प्राग्दीव्यतीयः अर्थः अस्ति, सः वर्तमानसूत्रात् भिन्नः अस्तीति स्मर्तव्यम् ।

संस्कृतं भक्षाः (4.2.16) इत्यनेन सप्तमीसमर्थशब्दात् प्रत्ययविधानम् कृतमस्ति, वर्तमानसूत्रेण तु तृतीयासमर्थात् प्रत्ययविधानं क्रियते ।

Sutrartha (English)

To express an entity that has been cultured / processed, an appropriate तद्धितप्रत्यय gets attached to the तृतीयासमर्थ word indicating the substance used for culturing / processing.

Vasu English Summary

The affix ठक् comes after a word in the Instrumental -3rd case in construction, in the sense of ‘refined thereby’.

Vasu English Translation

The affix ठक् comes after a word in the Instrumental -3rd case in construction, in the sense of ‘refined thereby’. The word संस्कृतम् means ‘refining or enhancing the quality of a thing’. Thus दध्ना संस्कृतं = दाधिकम् ‘refined or made tasteful by curd’. So also शार्ङ्गवेरिकम्, मारीचिकम् ॥

The separation of this sutra from the last, is for sake of the next sutra, in which the anuvritti of संस्कृतं only runs,

Kashika

तेनेति तृतीयासमर्थात् संस्कृतमित्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। सत उत्कर्षाधानं संस्कारः। दध्ना संस्कृतं दाधिकम्। शार्ङ्गवेरिकम्। मारिचिकम्। योगविभाग उत्तरार्थः॥

Siddhanta Kaumudi

दध्ना संस्कृतं दाधिकम् । मारीचिकम् ॥

Laghu Siddhanta Kaumudi

दध्ना संस्कृतम् दाधिकम्। मारीचिकम्॥

Balamanorama

संस्कृतम् - संस्कृतम् । तेनेत्येव संस्कृतमित्यर्थे तृतीयान्ताट्ठगित्यर्थः । ‘सस्कृतं भक्षाः’ इत्यत्र तु सप्तम्यन्तादणादि विधिः । मारीचिकमिति । मरीचिभिः संस्कृतमित्यर्थः ।

Tattvabodhini

संस्कृतम् - संस्कृतम् । योग विभाग उत्तरार्थःष । बाहुकेति । सूत्रे षकारः सांहितिको, न त्वनुबन्ध इति न ङीष् । तथा चआकर्षात्पर्पादेः॑ इत्यादि श्र्लोकवार्तिकं षित्त्वविवेचनाय प्रकरणान्ते पठिष्यति । निकषोपल इति । सुवर्णपरीक्षार्थः ।

Padamanjari

योगविभाग उतरार्थ इति । उतरोऽपवादः संस्कृत एव यथा स्यात् ॥

Nyaas

योगविभाग उत्तरार्थः - कुलत्थकोपधादण् (4.4.4) इत्ययमपवादः संस्कृत एव यथा स्यात्, दीव्यति इत्यादौ मा भूदित्येवमर्थो योगविभागः॥

Prakriyasarvasvam

करणात् संस्कृते ठक् । शौण्ठिकं जलम् । कर्मभिः संस्कृतः कर्मिको द्विजः । ज्ञानिकः ॥