44003: संस्कृतम् ================ **Padacheda:** संस्कृतम् | S | 1 | 1 | Sutrartha --------- **तृतीयासमर्थात् 'संस्कृतम्' अस्मिन् अर्थे ठक्-प्रत्ययः भवति ।** संस्कृतम् इत्युक्ते उत्कर्षः । यस्य साहाय्येन उत्कर्षः क्रियते, तस्य तृतीयासमर्थात् नाम्नः ठक्-प्रत्ययं कृत्वा संस्कृतस्य पदार्थस्य निर्देशं कर्तुं वर्तमानसूत्रस्य प्रयोगः क्रियते । यथा - 1. दध्ना संस्कृतम् = दधि + ठक् → दाधिक । मूलरूपस्य अपेक्षया दध्ना यस्य उत्कर्षः कृतः अस्ति, तत् दाधिकम् । 2. मरीचैः (black pepper) संस्कृतम् = मरिच + ठक् → मारिचिक । प्रक्रिया - दधि + ठक् → दधि + इक [**ठस्येकः** (7.3.50) इति इक्-आदेशः] → दाधि + इक **किति च** (7.2.118) इति आदिवृद्धिः] → दाध् + इक [**यस्येति च** (6.4.148) इति अकारलोपः] → दाधिक एवमेव 'मारिचिक' इत्यपि रूपम् सिद्ध्यति । ज्ञातव्यम् - 1. अस्मिन् सूत्रे 'तेन' इत्यनेन संस्करणस्य यत् साधनम् तस्य ग्रहणं क्रियते । अतः 'देवदत्तेन संस्कृतम्' एतादृशेषु वाक्येषु अस्य सूत्रस्य प्रयोगः न भवति । 2. **संस्कृतं भक्षाः** (4.2.16) इति कश्चन प्राग्दीव्यतीयः अर्थः अस्ति, सः वर्तमानसूत्रात् भिन्नः अस्तीति स्मर्तव्यम् । **संस्कृतं भक्षाः** (4.2.16) इत्यनेन सप्तमीसमर्थशब्दात् प्रत्ययविधानम् कृतमस्ति, वर्तमानसूत्रेण तु तृतीयासमर्थात् प्रत्ययविधानं क्रियते । Sutrartha (English) ------------------- To express an entity that has been cultured / processed, an appropriate तद्धितप्रत्यय gets attached to the तृतीयासमर्थ word indicating the substance used for culturing / processing. Vasu English Summary -------------------- The affix ठक् comes after a word in the Instrumental -3rd case in construction, in the sense of 'refined thereby'. Vasu English Translation ------------------------ The affix ठक् comes after a word in the Instrumental -3rd case in construction, in the sense of 'refined thereby'. The word संस्कृतम् means 'refining or enhancing the quality of a thing'. Thus दध्ना संस्कृतं = दाधिकम् 'refined or made tasteful by curd'. So also शार्ङ्गवेरिकम्, मारीचिकम् ॥ The separation of this *sutra* from the last, is for sake of the next *sutra*, in which the *anuvritti* of संस्कृतं only runs, Kashika ------- तेनेति तृतीयासमर्थात् संस्कृतमित्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। सत उत्कर्षाधानं संस्कारः। दध्ना संस्कृतं दाधिकम्। शार्ङ्गवेरिकम्। मारिचिकम्। योगविभाग उत्तरार्थः॥ Siddhanta Kaumudi ----------------- दध्ना संस्कृतं दाधिकम् । मारीचिकम् ॥ Laghu Siddhanta Kaumudi ----------------------- दध्ना संस्कृतम् दाधिकम्। मारीचिकम्॥ Balamanorama ------------ **संस्कृतम्** - संस्कृतम् । तेनेत्येव संस्कृतमित्यर्थे तृतीयान्ताट्ठगित्यर्थः । 'सस्कृतं भक्षाः' इत्यत्र तु सप्तम्यन्तादणादि विधिः । मारीचिकमिति । मरीचिभिः संस्कृतमित्यर्थः । Tattvabodhini ------------- **संस्कृतम्** - संस्कृतम् । योग विभाग उत्तरार्थःष । बाहुकेति । सूत्रे षकारः सांहितिको, न त्वनुबन्ध इति न ङीष् । तथा चआकर्षात्पर्पादेः॑ इत्यादि श्र्लोकवार्तिकं षित्त्वविवेचनाय प्रकरणान्ते पठिष्यति । निकषोपल इति । सुवर्णपरीक्षार्थः । Padamanjari ----------- योगविभाग उतरार्थ इति । उतरोऽपवादः संस्कृत एव यथा स्यात् ॥ Nyaas ----- योगविभाग उत्तरार्थः - **कुलत्थकोपधादण्** (4.4.4) इत्ययमपवादः संस्कृत एव यथा स्यात्, `दीव्यति` इत्यादौ मा भूदित्येवमर्थो योगविभागः॥ Prakriyasarvasvam ----------------- करणात् संस्कृते ठक् । शौण्ठिकं जलम् । कर्मभिः संस्कृतः कर्मिको द्विजः । ज्ञानिकः ॥