43086: अभिनिष्क्रामति द्वारम्

Padacheda: अभिनिष्क्रामति | T | | |

द्वारम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

An affix – प्राग्दीव्यतोऽण् (4.1.83) etc. comes after a word in the Accusative -2nd case in construction in the sense of ‘a door which looks towards that’.

Vasu English Translation

An affix – प्राग्दीव्यतोऽण् (4.1.83) etc. comes after a word in the Accusative -2nd case in construction in the sense of ‘a door which looks towards that’. Thus स्रौघ्नः ‘a gate which looks towards Srughna’, – as a gate of Kanyakubja. So also माथुरम्, राष्ट्रियम् ॥

Objection. The sutra would have stood better as अभिनिष्क्रमणं द्वारं, for by using अभिनिष्क्रामति, you make the word द्वारं as if it was a being endowed with sense.

Ans. This objection may be answered by saying that the gate is the well-known instrument (करण) to the action of अभिनिष्क्रमण; and an instrument may be used as an agent to a verb: as साध्वसिश्छिनत्ति ‘the sword cuts nicely.’

Why do we say द्वारम् “when it is a gate”? Observe स्रुघ्नमभिनिष्क्रामति पुरुषः ‘a person faces towards Srughna’.

Bhashya

अभिनिष्क्रामति द्वारम् (1656) (अभिनिष्क्रामतिद्वारमित्यर्थाधिकरणम्) (सूत्रानुपपत्तिदर्शकं भाष्यम्) अयुक्तोऽयं निर्देशः, चेतनावत एतद्भवति -निष्क्रमणमपक्रमणं वा, द्वारं चाचेतनम्। कथं तर्हि निर्देशः कर्तव्यः? अभिनिष्क्रमणं द्वारमिति। स तर्हि तथा निर्देशः न कर्तव्यः। (सूत्रोपपत्तिप्रदर्शकं भाष्यम्) अचेतनेष्वपि चेतनवदुपचारो दृश्यते। तद्यथा -अयमस्य कोणोऽभिनिसृतः, अयमभिप्रविष्ट इति॥

Kashika

तदित्येव। तदिति द्वितीयासमर्थादभिनिष्क्रामतीत्येतस्मिन्नर्थे याथाविहितं प्रत्ययो भवति, यदभिनिष्क्रामति द्वारं चेत् तद् भवति। आभिमुख्येन निष्क्रामति, अभिनिष्क्रामति। स्रुघ्नमभिनिष्क्रामति कान्यकु ब्जद्वारं स्रौघ्नम्। माथुरम्। राष्ट्रियम्। द्वारमभिनिष्क्रमणक्रियायां करणं प्रसिद्धम्, तदिह स्वातन्त्र्येण विवक्ष्यते, तथा साध्वसिश्छिनत्तीति। द्वारमिति किम् ? स्रुघ्नमभिनिष्क्रामति पुरुषः॥

Siddhanta Kaumudi

तदित्येव । स्रुघ्नमभिनिष्क्रामति स्रौघ्नं कान्यकुब्जद्वारम् ॥

Laghu Siddhanta Kaumudi

स्रुग्घ्नमभिनिष्क्रामति स्रौग्घ्नं कान्यकुब्जद्वारम्॥

Tattvabodhini

अभिनिष्क्रामति द्वारम् - अभिनिष्क्रमिति । द्वितीयान्तात्प्रत्ययः स्याद्यन्निष्क्रामति तच्चेद्द्वारमित्यर्थः । रुआऔग्घ्नं कन्यकुब्जद्वारमिति । रुआउग्घ्नाभिमुखनिष्क्रममे करणीभूतमिति फलितोऽर्थः । पूर्ववत्करणस्य कर्तृत्वम् ।

Padamanjari

द्वारमभिनिष्कमणक्रियायामिति । अनेनैतदाह - तत्स्थेष्वभिनिष्क्रामत्सु करणभूते द्वारे तदारोपाद् द्वारमेवाभिनिष्क्रामतीत्युच्यत इति । अभिनिष्क्रमणं द्वारमिति नोक्तम् ; तदिति द्वितीयाधिकारात्, तदा हि कृद्योगलक्षणा षष्ठी प्राप्नोति ॥

Nyaas

कथं पुनः करणत्वेन प्रसिद्धं द्वारं स्वातन्त्रेणैव विवक्ष्यते?इत्याह - यथा इत्यादि। यथा च्छेदनक्रियायामसिः करणत्वेन प्रसिद्धौऽपि स्वातन्त्र्येण विवक्ष्यते।ननु चेतनावतोऽभिनिष्क्रमणं भवति, चेतनावता प्रयुक्तस्य वा - देवदत्तोऽभिनिष्क्रामतीति, न च द्वारं चेतनावता प्रयुक्तम्, तस्मान्नोपपद्यते तस्याभिनिष्क्रमणम्? नैष दोषः; अचेतनेष्वप्यभिनिष्क्रामतीति व्यवहारो दृश्यते, तद्यथा अनेन गुहामुखेन वायुरभिनिष्क्रामतीति। निष्क्रीयत्वात् तर्हि नोपपद्यते? तत्स्थेषु निष्क्रामत्सु द्वारमभिनिष्क्रमतीत्युपचर्यत इत्यदोषः॥

Prakriyasarvasvam

तदभिनिष्क्रामतीत्यर्थे द्वारे वाच्ये अणादिः । औद्यानं द्वारम् । पथो गमनवद् द्वारस्याभिनिष्क्रान्तिः ॥