43085: तद्गच्छति पथिदूतयोः¶
Padacheda: तत् | S | 1 | 1 |
गच्छति | T | | |
पथिदूतयोः | S | 7 | 2 |
Sutrartha¶
Vasu English Summary¶
An affix – प्राग्दीव्यतोऽण् (4.1.83) etc. comes after a word in the Accusative -2nd case in construction in the sense of ‘what goes thereto’, provided that, which goes, is a road or a messenger.
Vasu English Translation¶
An affix – प्राग्दीव्यतोऽण् (4.1.83) etc. comes after a word in the Accusative -2nd case in construction in the sense of ‘what goes thereto’, provided that, which goes, is a road or a messenger. Thus स्रुघ्नम्गच्छति = स्रौघ्नः “a road or a messenger that goes to Srughna.” So also माथुरः ॥ The road may either lead to Srughna, or being in Srughna, be used for going.
Why do we say पथिदूतयोः “meaning a road or a messenger”. Observe स्रुघ्नं गच्छति सार्थः ‘he goes to Srughna for his own sake’.
Kashika¶
तदिति द्वितीयासमर्थाद् गच्छतीत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति, योऽसौ गच्छति पन्थाश्चेत् स भवति दूतो वा। स्रुघ्नं गच्छति स्रौघ्नः पन्था दूतो वा। माथुरः। तत्स्थेषु गच्छत्सु पन्था गच्छतीत्युच्यते। अथ वा स्रुघ्नप्राप्तिः पथो गमनम्। पथिदूतयोरिति किम्? स्रुघ्नं गच्छति सार्थः॥
Siddhanta Kaumudi¶
स्रुघ्नं गच्छति स्रौघ्नः पन्था दूतो वा ॥
Laghu Siddhanta Kaumudi¶
स्रुग्घ्नं गच्छति स्रौग्ध्नं पन्था दूतो वा॥
Balamanorama¶
तद्गच्छति पथिदूतयोः - तद्गच्छति पथिदूतयोः । गच्छतीत्यर्थे द्वितीयान्तात्प्रत्ययाः स्युः, स चेद्गन्ता पन्था दूतो वा इत्यर्थः ।
Tattvabodhini¶
तद्गच्छति पथिदूतयोः - तद्गच्छति । द्वितीयान्ताद्गच्छतीत्यर्थे प्रत्ययः स्यात्स चेद्गन्ता पन्था दूतो वेत्यर्थः । तत्र साध्वसिश्छनत्ति, काष्ठानि पचन्तीत्यादाविव करणस्य स्वातन्त्र्यविवक्षायां पन्थाः कर्ता ।
Padamanjari¶
प्राप्तिफले परिस्पन्दे गमिर्वर्तते, न च पथः परिस्पन्दोऽस्ति तस्मात्पुरुषवर्ति गमनं पथ्युपचर्यत इत्याह - तत्स्थेष्विति । अथवेति । प्राप्तावपि गमिर्वर्वते, यथा देवभूयङ्गत इति ॥
Nyaas¶
पथो निष्क्रियत्वाद्गमेः कर्तत्वं नोपपद्यत इत्याह - तत्स्थेषु इत्यादि। पुरुषवृत्तिर्गमनं पथ्युपचर्यत इति दर्शयति। अथ वा इत्यादि। प्राप्तावत्र गमिर्वर्तते। अस्ति च प्रत्यक्षगम्यैव रुआउघ्नादीनां पथोऽस्यैवानन्तर्यलक्षणा प्राप्तिः॥
Prakriyasarvasvam¶
तदिति द्वितीयान्ताद् गच्छतीत्यर्थे मार्गे दूते च वाच्येऽणादिः । मथुरां गच्छन् माथुरः पन्था दूतश्च । तत्स्थाना गमनात् पन्था गच्छतीत्युक्तिः ॥