43083: प्रभवति¶
Padacheda: प्रभवति | T | | |
Sutrartha¶
Vasu English Summary¶
After a प्रातिपदिक (Nominal Stem) which is the Ablative -5th case in construction, an affix (one of those already taught) comes in the sense of ‘what appears for the first time’.
Vasu English Translation¶
After a प्रातिपदिक (Nominal Stem) which is the Ablative -5th case in construction, an affix (one of those already taught) comes in the sense of ‘what appears for the first time’. The word ततः is understood in the sutra. The word प्रभवति means what manifests itself, or appears for the first time. Thus हिमवतः प्रभवति = हैमवती “The Haimavati”, a name of the Ganges, meaning ‘which manifests itself for the first time or appears in the Snowy Range, its source being unknown’. So also दारदी “The Daradi” i.e. the Indus appearing for the first time in Dardistan. The word प्रभवति has not the sense of उत्पत्ति, because that is included in तत्र जातः; it therefore means प्रकाशते, प्रथमतः उपलभ्यते, the source or origin being unknown.
Kashika¶
तत इत्येव। पञ्चमीसमर्थाद् ङ्याप्प्रातिपदिकात् प्रभवतीत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। प्रभवति प्रकाशते, प्रथमत उपलभ्यत इत्यर्थः। हिमवतः प्रभवति हैमवती गङ्गा। दारदी सिन्धुः॥
Siddhanta Kaumudi¶
तत इत्येव । हिमवतः प्रभवति हैमवती गङ्गा ॥
Laghu Siddhanta Kaumudi¶
हिमवतः प्रभवति हैमवती गङ्गा॥
Balamanorama¶
प्रभवति - अभिनिष्क्रामति द्वारम् । कान्येति । कान्यकुब्जाख्यजनपदस्य द्वारमित्यर्थः ।
Tattvabodhini¶
प्रभवति - हैमवतीति । हिमवतः प्रकाशते । तत्र प्रथमं दृश्यत इत्यर्थः । उत्पत्तिवचनस्तु प्रभवतिर्न गृह्रते,तत्र जातः॑इत्यतो भेदेन निर्देशात् ।
Padamanjari¶
प्राकाशते इति । उत्पत्तिवचनस्तु प्रभवतिर्न गृह्यते;’तत्र जातः’ इत्यनेन गतत्वात्॥
Nyaas¶
{प्रथमतः -काशिका} प्रथम उपलभ्यत इत्यर्थः` इति। प्रथम इत्यनेन प्रशब्दस्यार्थमाचष्टे। उपलभ्यते इत्यनेनापि भवतेः। अनेकार्थत्वाद्धातूनां भवतिरिहोपलब्धौ भवतिरिहोपलब्धौ वर्तते। हिमवतः प्रभवति इति। भुवः प्रभवः (1.4.31) इति हिमवतोऽपादानसंज्ञा॥बाल-मनोरमाहेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः 1440, 4.3.85 हेतुमनुष्येभ्यः। तत आगत इत्येव। हेतुभ्य उदाहरति -समादागतमित्यादि। मनुष्यवाचिन उदाहरति -देवदत्तरूप्यमिति। बाल-मनोरमाप्रभवति 1442, 4.3.85 प्रभवति। तत इत्येवेति। आगत इति तु निवृत्तम्। प्रभवतीत्यर्थे पञ्चम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः। प्रभवः-प्रथमप्रकाशः। हिमवतः प्रभवतीति। हिमवति प्रथमं प्रकाशत इत्यर्थः। भुवः प्रभवः इत्यापादानत्वम्। बाल-मनोरमाअभिनिष्क्रामति द्वारम् 1445, 4.3.85 अभिनिष्क्रामति द्वारम्। कान्येति। कान्यकुब्जाख्यजनपदस्य द्वारमित्यर्थः।
Prakriyasarvasvam¶
<karika>ततः प्रभवतीत्यर्थेऽण् गङ्गा हैमवती यथा । तत्र प्रथमदृष्टत्वं प्रभवो न तु जातता ॥ २५५ ॥</karika>