43083: प्रभवति ============== **Padacheda:** प्रभवति | T | | | Sutrartha --------- **** Vasu English Summary -------------------- After a प्रातिपदिक (Nominal Stem) which is the Ablative -5th case in construction, an affix (one of those already taught) comes in the sense of 'what appears for the first time'. Vasu English Translation ------------------------ After a प्रातिपदिक (Nominal Stem) which is the Ablative -5th case in construction, an affix (one of those already taught) comes in the sense of 'what appears for the first time'. The word ततः is understood in the *sutra*. The word प्रभवति means what manifests itself, or appears for the first time. Thus हिमवतः प्रभवति = हैमवती "The *Haimavati*", a name of the Ganges, meaning 'which manifests itself for the first time or appears in the Snowy Range, its source being unknown'. So also दारदी "The *Daradi*" i.e. the Indus appearing for the first time in *Dardistan*. The word प्रभवति has not the sense of उत्पत्ति, because that is included in तत्र जातः; it therefore means प्रकाशते, प्रथमतः उपलभ्यते, the source or origin being unknown. Kashika ------- तत इत्येव। पञ्चमीसमर्थाद् ङ्याप्प्रातिपदिकात् प्रभवतीत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। प्रभवति प्रकाशते, प्रथमत उपलभ्यत इत्यर्थः। हिमवतः प्रभवति हैमवती गङ्गा। दारदी सिन्धुः॥ Siddhanta Kaumudi ----------------- तत इत्येव । हिमवतः प्रभवति हैमवती गङ्गा ॥ Laghu Siddhanta Kaumudi ----------------------- हिमवतः प्रभवति हैमवती गङ्गा॥ Balamanorama ------------ **प्रभवति** - अभिनिष्क्रामति द्वारम् । कान्येति । कान्यकुब्जाख्यजनपदस्य द्वारमित्यर्थः । Tattvabodhini ------------- **प्रभवति** - हैमवतीति । हिमवतः प्रकाशते । तत्र प्रथमं दृश्यत इत्यर्थः । उत्पत्तिवचनस्तु प्रभवतिर्न गृह्रते,तत्र जातः॑इत्यतो भेदेन निर्देशात् । Padamanjari ----------- प्राकाशते इति । उत्पत्तिवचनस्तु प्रभवतिर्न गृह्यते;'तत्र जातः' इत्यनेन गतत्वात्॥ Nyaas ----- `{प्रथमतः -काशिका`} प्रथम उपलभ्यत इत्यर्थः` इति। प्रथम इत्यनेन प्रशब्दस्यार्थमाचष्टे। `उपलभ्यते` इत्यनेनापि भवतेः। अनेकार्थत्वाद्धातूनां भवतिरिहोपलब्धौ भवतिरिहोपलब्धौ वर्तते। `हिमवतः प्रभवति` इति। **भुवः प्रभवः** (1.4.31) इति हिमवतोऽपादानसंज्ञा॥बाल-मनोरमाहेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः 1440, 4.3.85 हेतुमनुष्येभ्यः। `तत आगत` इत्येव। हेतुभ्य उदाहरति -समादागतमित्यादि। मनुष्यवाचिन उदाहरति -देवदत्तरूप्यमिति। बाल-मनोरमाप्रभवति 1442, 4.3.85 प्रभवति। तत इत्येवेति। `आगत` इति तु निवृत्तम्। प्रभवतीत्यर्थे पञ्चम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः। प्रभवः-प्रथमप्रकाशः। हिमवतः प्रभवतीति। हिमवति प्रथमं प्रकाशत इत्यर्थः। `भुवः प्रभवः` इत्यापादानत्वम्। बाल-मनोरमाअभिनिष्क्रामति द्वारम् 1445, 4.3.85 अभिनिष्क्रामति द्वारम्। कान्येति। कान्यकुब्जाख्यजनपदस्य द्वारमित्यर्थः। Prakriyasarvasvam ----------------- ततः प्रभवतीत्यर्थेऽण् गङ्गा हैमवती यथा । तत्र प्रथमदृष्टत्वं प्रभवो न तु जातता ॥ २५५ ॥