43081: हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः

Padacheda: हेतु-मनुष्येभ्यः | S | 5 | 3 |

अन्यतरस्याम् | S | 7 | 1 |

रूप्यः | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix रूप्य denotes that which from something has originated when it is added to a word denoting ‘cause’ or to the name of a man viewed as a cause.

Vasu English Translation

The affix रूप्य denotes that which from something has originated when it is added to a word denoting ‘cause’ or to the name of a man viewed as a cause. The word मनुष्य is used meaning ‘men as causes.’ हेतु means cause or instrument. Thus समादागतं = समरूप्यम् or समीयम् by छ of (4.2.138) meaning ‘what proceeds from a like cause.’ So also विषमरूप्यम् or विषमीयम् ॥ So of men also देवदत्तरूप्यम् or दैवदत्तम् (4.1.83) ‘what originates with देवदत्तः’, यज्ञदत्तरूप्यम् or यज्ञदत्तम् ॥

The word हेतुमनुष्येभ्यः is in the plural in the sutra, indicating that svarupavidhi (1.1.68) does not apply here.

In denoting हेतु, there is employed the Instrumental case as taught in (2.3.23): and according to the jnapaka in the present sutra, the Ablative case may also be employed in denoting a हेतु, ॥ Or the use of the ablative case in the sense of हेतु, may be explained by (2.3.25).

Kashika

हेतुभ्यो मनुष्येभ्यश्चान्यतरस्यां रूप्यः प्रत्ययो भवति तत आगत इत्येतस्मिन् विषये। मनुष्यग्रहणमहेत्वर्थम्। हेतुः कारणम्। हेतुभ्यस्तावत् — समादागतं समरूप्यम्, समीयम्। विषमरूप्यम्, विषमीयम्। गहादित्वात् (४.२.१३८) छः। मनुष्येभ्यः — देवदत्तरूप्यम्। यज्ञदत्तरूप्यम्। दैवदत्तम्। याज्ञदत्तम्। बहुवचनं स्वरूपविधिनिरासार्थम्॥

Siddhanta Kaumudi

समादागतं समरूप्यम् । विषमरूप्यम् । पक्षे गहादित्वाच्छः । समीयम् । विषमीयम् । देवदत्तरूप्यम् । देवदत्तीयम् । दैवदत्तम् ॥

Laghu Siddhanta Kaumudi

समादागतं समरूप्यम्। पक्षे - गहादित्वाच्छः। समीयम्। विषमीयम्। देवदत्तरूप्यम्। दैवदत्तम्॥

Tattvabodhini

हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः - हेतुमनुष्येभ्यो । मनुष्यग्रहणमहेत्वर्थं, बहुवचनंम तु स्वरूपविधिनिरासार्थम् । समरूप्यमिति ।विभाषा गुणे॑ इत्यत्रविभाषे॑ति योगविभागादगुणवचनादपि पञ्चमी । योगविभागे तुबाहुवकं प्रकृतेस्दनुदृष्टे॑रिति लिङ्गम् ।

Padamanjari

समादागतमिति । समाद्धेतोरागतमित्यर्तः । तत्र’हेतौ’ इति तृतीया प्राप्नोति, ज्ञापकत्सिद्धम्, यदयं पञ्चम्यन्ताद्धेतोः प्रत्ययमाह तज्ज्ञापयति - भवति हेतौ पञ्चमिति । नैतदस्ति ज्ञापकम्, यत्र’विभाषा गुणे’ इति पञ्चमी, तदर्थमेतत्स्यात् - जाड।लदागत इति ? तस्मात्’विभाषा गुणे’ इत्यत्र विभाषेति योगविभागादगुणवचनादपि पञ्चमी भवति ॥

Nyaas

समादगतम् इति। समाद्धेतोरागतमस्यार्थः। केन पुनरिह पञ्चमी? असमादेव ज्ञापकात्। यदयं पञ्चम्यन्तात् प्रत्ययमाह ततो ज्ञायते - हेतौ पञ्चमी भवति॥