43081: हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः ======================================== **Padacheda:** हेतु-मनुष्येभ्यः | S | 5 | 3 | अन्यतरस्याम् | S | 7 | 1 | रूप्यः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix रूप्य denotes that which from something has originated when it is added to a word denoting 'cause' or to the name of a man viewed as a cause. Vasu English Translation ------------------------ The affix रूप्य denotes that which from something has originated when it is added to a word denoting 'cause' or to the name of a man viewed as a cause. The word मनुष्य is used meaning 'men as causes.' हेतु means cause or instrument. Thus समादागतं = समरूप्यम् or समीयम् by छ of (4.2.138) meaning 'what proceeds from a like cause.' So also विषमरूप्यम् or विषमीयम् ॥ So of men also देवदत्तरूप्यम् or दैवदत्तम् (4.1.83) 'what originates with देवदत्तः', यज्ञदत्तरूप्यम् or यज्ञदत्तम् ॥ The word हेतुमनुष्येभ्यः is in the plural in the *sutra*, indicating that *svarupavidhi* (1.1.68) does not apply here. In denoting हेतु, there is employed the Instrumental case as taught in (2.3.23): and according to the *jnapaka* in the present *sutra*, the Ablative case may also be employed in denoting a हेतु, ॥ Or the use of the ablative case in the sense of हेतु, may be explained by (2.3.25). Kashika ------- हेतुभ्यो मनुष्येभ्यश्चान्यतरस्यां रूप्यः प्रत्ययो भवति तत आगत इत्येतस्मिन् विषये। मनुष्यग्रहणमहेत्वर्थम्। हेतुः कारणम्। हेतुभ्यस्तावत् — समादागतं समरूप्यम्, समीयम्। विषमरूप्यम्, विषमीयम्। गहादित्वात् (४.२.१३८) छः। मनुष्येभ्यः — देवदत्तरूप्यम्। यज्ञदत्तरूप्यम्। दैवदत्तम्। याज्ञदत्तम्। बहुवचनं स्वरूपविधिनिरासार्थम्॥ Siddhanta Kaumudi ----------------- समादागतं समरूप्यम् । विषमरूप्यम् । पक्षे गहादित्वाच्छः । समीयम् । विषमीयम् । देवदत्तरूप्यम् । देवदत्तीयम् । दैवदत्तम् ॥ Laghu Siddhanta Kaumudi ----------------------- समादागतं समरूप्यम्। पक्षे - गहादित्वाच्छः। समीयम्। विषमीयम्। देवदत्तरूप्यम्। दैवदत्तम्॥ Tattvabodhini ------------- **हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः** - हेतुमनुष्येभ्यो । मनुष्यग्रहणमहेत्वर्थं, बहुवचनंम तु स्वरूपविधिनिरासार्थम् । समरूप्यमिति ।विभाषा गुणे॑ इत्यत्रविभाषे॑ति योगविभागादगुणवचनादपि पञ्चमी । योगविभागे तुबाहुवकं प्रकृतेस्दनुदृष्टे॑रिति लिङ्गम् । Padamanjari ----------- समादागतमिति । समाद्धेतोरागतमित्यर्तः । तत्र'हेतौ' इति तृतीया प्राप्नोति, ज्ञापकत्सिद्धम्, यदयं पञ्चम्यन्ताद्धेतोः प्रत्ययमाह तज्ज्ञापयति - भवति हेतौ पञ्चमिति । नैतदस्ति ज्ञापकम्, यत्र'विभाषा गुणे' इति पञ्चमी, तदर्थमेतत्स्यात् - जाड।लदागत इति ? तस्मात्'विभाषा गुणे' इत्यत्र विभाषेति योगविभागादगुणवचनादपि पञ्चमी भवति ॥ Nyaas ----- `समादगतम्` इति। समाद्धेतोरागतमस्यार्थः। केन पुनरिह पञ्चमी? असमादेव ज्ञापकात्। यदयं पञ्चम्यन्तात् प्रत्ययमाह ततो ज्ञायते - हेतौ पञ्चमी भवति॥