43076: शुण्डिकादिभ्योऽण्¶
Padacheda: शुण्डिका-आदिभ्यः | S | 5 | 3 |
अण् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix अण् comes in the sense of ‘thence come’ after the words शुण्डिक etc.
Vasu English Translation¶
The affix अण् comes in the sense of ‘thence come’ after the words शुण्डिक etc. This debars ठक् ॥ Thus शौण्डिकः ‘excise-revenue’. कार्कणः ॥
The repetition of अण् serves the same purpose as in (4.3.73), बाधकबाधनार्थम् ॥ As औदपानः ॥
1 शुण्डिक, 2 कृकण, 3 स्थण्डिल, 4 उदपान, 5 उपल, 6 तीर्थ, 7 भूमि, 8 तृण, 9 पर्ण ॥
Kashika¶
शुण्डिक इत्येवमादिभ्यः प्रातिपदिकेभ्योऽण् प्रत्ययो भवति तत आगत इत्येतस्मिन् विषये। आयस्थानठकोऽपवादः। शुण्डिकादागतः शौण्डिकः। कार्कणः। अण्ग्रहणं बाधकबाधनार्थम्। औदपानः॥ शुण्डिक। कृकण। स्थण्डिल। उदपान। उपल। तीर्थ। भूमि। तृण। पर्ण। शुण्डिकादिः॥
Siddhanta Kaumudi¶
आयस्थानठक्छादीनां चापवादः । शुण्डिकादागतः शौण्डिकः । कार्कणः । तैर्थः ॥
Balamanorama¶
शुण्डिकादिभ्योऽण् - शुण्डिकादिभ्योऽण् । ‘तत आगत’ इत्येव । शुण्डिकमायस्थानविशेषः । पूर्वसूत्रविहितठगपवादः । कार्कण इति । ‘कृकणादागत’ इति शेषः ।कृकणपर्णाद्भारद्वाजे॑ इति छस्यापवादः । तैर्थ इति । धूमादिवुञोऽपवादः । औदपान इति । अत्र उत्सादित्वादञ्प्राप्तो न भवति, पुनरण्ग्रहणात् । अन्यथा यथाप्राप्तविधाने आयस्थानठकं बाधित्वा अञेव स्यात् ।
Tattvabodhini¶
शुण्डिकादिभ्योऽण् - छादीनां चेति । कार्कण इथ्यत्रकृकणपर्णाद्भारद्वाजे॑इति छः प्राप्तः । तीर्थशब्दात्तु धूमादित्वाद्वुञ्प्राप्तः । उजपानशब्दस्योत्सादित्वदञ्प्राप्त इत्यर्थः ।
Padamanjari¶
आयस्थानठकोऽपवाद इति । उपलक्षणमेतत् । कृकणशब्दात्’कृकणपर्णाद्भारद्वाजे’ इति च्छस्याप्यपवादः । तीर्थशब्दाद् धूमादिलक्षस्य वुञोऽप्यपवादः । उदपानशब्दादुत्साद्यञोऽप्यपवादः । अथाण्ग्रहणं किमर्थं न शिण्डिकादिभ्यो यथाविहितमेवोच्येत, वचनसामर्ध्याद्धि, यो विहितो न च प्राप्नोति अन्येन बाधितत्वात्, स एवाण् भविष्यति ? अत आह - अण्ग्रहणमिति । उदपानशब्द इह पठ।ल्ते, स चोत्सादिः तत्रासत्यण्ग्रहणे आयस्थानठकंबाधित्वा ठुत्सादिभ्योऽञ्ऽ इत्यञेव स्यात् । अण्ग्रहणात्वेणेव भवति ॥
Nyaas¶
आयस्थानठकोऽपवादः इति। बाहुल्यादेवमुक्तम्; यस्मात् कृकणशब्दोऽत्र पठते। तत्र हि कृकणपर्णाद्भारद्वाजे (4.2.145) इति प्राप्तस्य च्छस्यापवादः। तीर्थशब्दश्चेह धूमादिषु पठते, ततः धूमादिभ्यश्च (4.2.127) इति प्राप्तस्य वुञोऽपवादः। अथाण्ग्रहणं किमर्थम्, न शुण्डिकादिभ्यो यथाविहितमेवोच्येत, न चैवं पठमानेऽपवाद एव स्यादित्याशङ्कनीयम्; अपवादविधाने हि वचनवैयथ्र्यं स्यात्, तस्मादन्तरेणाप्यण्ग्रहणमणेव भविष्यति? इत्यत आह - अण्ग्रहणम् इत्यादि। उदपान शब्दोऽत्र पठत आयस्थानवचनम्, उत्सादिष्वसौ पठते; तत्रासत्यग्रहण आयस्थानठकं बाधित्वा उत्सादिभ्योऽञ् (4.1.86) इत्यञेव स्यात्। तस्मात् तस्य बाधकस्य बाधनार्थमण्ग्रहणम्। तेनोदपान इत्यत्राण्सिद्धो भवति॥
Prakriyasarvasvam¶
आयस्थानठकोऽपवादः । शुण्डिका पानभूः । तत आगतं शौण्डिकम् । औदपानम् । तैर्थम् । तार्णम् ॥