43076: शुण्डिकादिभ्योऽण् ======================== **Padacheda:** शुण्डिका-आदिभ्यः | S | 5 | 3 | अण् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix अण् comes in the sense of 'thence come' after the words शुण्डिक etc. Vasu English Translation ------------------------ The affix अण् comes in the sense of 'thence come' after the words शुण्डिक etc. This debars ठक् ॥ Thus शौण्डिकः 'excise-revenue'. कार्कणः ॥ The repetition of अण् serves the same purpose as in (4.3.73), बाधकबाधनार्थम् ॥ As औदपानः ॥ 1 शुण्डिक, 2 कृकण, 3 स्थण्डिल, 4 उदपान, 5 उपल, 6 तीर्थ, 7 भूमि, 8 तृण, 9 पर्ण ॥ Kashika ------- शुण्डिक इत्येवमादिभ्यः प्रातिपदिकेभ्योऽण् प्रत्ययो भवति तत आगत इत्येतस्मिन् विषये। आयस्थानठकोऽपवादः। शुण्डिकादागतः शौण्डिकः। कार्कणः। अण्ग्रहणं बाधकबाधनार्थम्। औदपानः॥ शुण्डिक। कृकण। स्थण्डिल। उदपान। उपल। तीर्थ। भूमि। तृण। पर्ण। शुण्डिकादिः॥ Siddhanta Kaumudi ----------------- आयस्थानठक्छादीनां चापवादः । शुण्डिकादागतः शौण्डिकः । कार्कणः । तैर्थः ॥ Balamanorama ------------ **शुण्डिकादिभ्योऽण्** - शुण्डिकादिभ्योऽण् । 'तत आगत' इत्येव । शुण्डिकमायस्थानविशेषः । पूर्वसूत्रविहितठगपवादः । कार्कण इति । 'कृकणादागत' इति शेषः ।कृकणपर्णाद्भारद्वाजे॑ इति छस्यापवादः । तैर्थ इति । धूमादिवुञोऽपवादः । औदपान इति । अत्र उत्सादित्वादञ्प्राप्तो न भवति, पुनरण्ग्रहणात् । अन्यथा यथाप्राप्तविधाने आयस्थानठकं बाधित्वा अञेव स्यात् । Tattvabodhini ------------- **शुण्डिकादिभ्योऽण्** - छादीनां चेति । कार्कण इथ्यत्रकृकणपर्णाद्भारद्वाजे॑इति छः प्राप्तः । तीर्थशब्दात्तु धूमादित्वाद्वुञ्प्राप्तः । उजपानशब्दस्योत्सादित्वदञ्प्राप्त इत्यर्थः । Padamanjari ----------- आयस्थानठकोऽपवाद इति । उपलक्षणमेतत् । कृकणशब्दात्'कृकणपर्णाद्भारद्वाजे' इति च्छस्याप्यपवादः । तीर्थशब्दाद् धूमादिलक्षस्य वुञोऽप्यपवादः । उदपानशब्दादुत्साद्यञोऽप्यपवादः । अथाण्ग्रहणं किमर्थं न शिण्डिकादिभ्यो यथाविहितमेवोच्येत, वचनसामर्ध्याद्धि, यो विहितो न च प्राप्नोति अन्येन बाधितत्वात्, स एवाण् भविष्यति ? अत आह - अण्ग्रहणमिति । उदपानशब्द इह पठ।ल्ते, स चोत्सादिः तत्रासत्यण्ग्रहणे आयस्थानठकंबाधित्वा ठुत्सादिभ्योऽञ्ऽ इत्यञेव स्यात् । अण्ग्रहणात्वेणेव भवति ॥ Nyaas ----- `आयस्थानठकोऽपवादः` इति। बाहुल्यादेवमुक्तम्; यस्मात् कृकणशब्दोऽत्र पठते। तत्र हि **कृकणपर्णाद्भारद्वाजे** (4.2.145) इति प्राप्तस्य च्छस्यापवादः। तीर्थशब्दश्चेह धूमादिषु पठते, ततः **धूमादिभ्यश्च** (4.2.127) इति प्राप्तस्य वुञोऽपवादः। अथाण्ग्रहणं किमर्थम्, न शुण्डिकादिभ्यो यथाविहितमेवोच्येत, न चैवं पठमानेऽपवाद एव स्यादित्याशङ्कनीयम्; अपवादविधाने हि वचनवैयथ्र्यं स्यात्, तस्मादन्तरेणाप्यण्ग्रहणमणेव भविष्यति? इत्यत आह - `अण्ग्रहणम्` इत्यादि। `उदपान` शब्दोऽत्र पठत आयस्थानवचनम्, उत्सादिष्वसौ पठते; तत्रासत्यग्रहण आयस्थानठकं बाधित्वा **उत्सादिभ्योऽञ्** (4.1.86) इत्यञेव स्यात्। तस्मात् तस्य बाधकस्य बाधनार्थमण्ग्रहणम्। तेनोदपान इत्यत्राण्सिद्धो भवति॥ Prakriyasarvasvam ----------------- आयस्थानठकोऽपवादः । शुण्डिका पानभूः । तत आगतं शौण्डिकम् । औदपानम् । तैर्थम् । तार्णम् ॥