43062: जिह्वामूलाङ्गुलेश्छः¶
Padacheda: जिह्वामूल-अङ्गुलेः | S | 5 | 1 |
छः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
After the words 1. जिह्वामूल and 2. अङ्गुलि there is the affix छ in the sense of ‘who stays there’.
Vasu English Translation¶
After the words 1. जिह्वामूल and 2. अङ्गुलि there is the affix छ in the sense of ‘who stays there’. This debars यत् (4.3.55). Thus जिह्वामूलीयम्, अंगुलीयम् ॥
Kashika¶
जिह्वामूलशब्दादङ्गुलिशब्दात् च छः प्रत्ययो भवति तत्र भव इत्येतस्मिन् विषये। यतोऽपवादः। जिह्वामूलीयम्। अङ्गुलीयम्॥
Siddhanta Kaumudi¶
जिह्वामूलीयम् । अङ्गुलीयम् ॥
Laghu Siddhanta Kaumudi¶
जिह्वामूलीयम्। अङ्गुलीयम्॥
Balamanorama¶
जिह्वामूलाङ्गुलेश्छः - जिग्वामूलाङ्गुलेश्छः ।शरीरावयवाच्चे॑ति यतोऽपवादः ।
Nyaas¶
यतोऽपवादः इति।` शरीरवयवाच्च` (4.3.55) इति प्राप्तस्य॥
Prakriyasarvasvam¶
जिह्वामूलीयम् । अङ्गुलीयम् ॥
Sutra Prayogas¶
रत्नाङ्गुलीयप्रभयानुविद्धान् (रघुवंशम्): जिह्वामूलाङ्गुलेश्छः इति छप्रत्ययः।
भूश्चषालतुलिताङ्गुलीयकम् (शिशुपालवधम्): जिह्वामूलाङ्गुलेश्छः इति भावे छप्रत्ययः।