43061: ग्रामात् पर्यनुपूर्वात्

Padacheda: ग्रामात् | S | 5 | 1 |

परि-अनु-पूर्वात् | S | 5 | 1 |

Sutrartha


Vasu English Summary

After the word ग्राम preceded by परि or अनु (the whole being अव्ययीभाव समास ) there is the affix ठञ् in the sense of ‘who stays there’.

Vasu English Translation

After the word ग्राम preceded by परि or अनु (the whole being अव्ययीभाव समास ) there is the affix ठञ् in the sense of ‘who stays there’. This debars अण् ॥ Thus पारिग्रामिकः, आनुग्रामिकः ॥

Kashika

अव्ययीभावादित्येव। ग्रामशब्दान्तादव्ययीभावात् परि अनु इत्येवंपूर्वाट् ठञ् प्रत्ययो भवति तत्र भव इत्येतस्मिन् विषये। अणोऽपवादः। पारिग्रामिकः। आनुग्रामिकः॥

Siddhanta Kaumudi

ठञ् स्यात् । अव्ययीभावादित्येव । पारिग्रामिकः । आनुग्रामिकः ॥

Balamanorama

ग्रामात् पर्यनुपूर्वात् - ग्रामात्पर्यनुपूर्वात् । ठञ् स्यादिति ।अन्तःपूर्वपदा॑दित्यतस्तदनुवृत्तेरिति भावः ।

Nyaas

पारिग्रामिकम् इति। {ग्रामशब्दान्तादव्ययीभावात् परि -काशिका।} ग्रामात् परि` इति। अपपरिबहिरञ्चवः पञ्चम्या (2.1.12) इत्यव्ययीभावः। `आनुग्रामिकम्िति। अत्रापि अनुर्यत्समया (2.1.15) ॥

Prakriyasarvasvam

पर्यनुपूर्वात् ग्रामान्तादव्ययीभावाट्ठञ् । पारिग्रामिकम् । आनुग्रामिकम् ॥