43027: संज्ञायां शरदो वुञ्

Padacheda: संज्ञायाम् | S | 7 | 1 |

शरदः | S | 5 | 1 |

वुञ् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix वुञ् comes after the word शरद in the Locative -7th case-affix in the sense of ‘born therein’, the whole word being a name.

Vasu English Translation

The affix वुञ् comes after the word शरद in the Locative -7th case-affix in the sense of ‘born therein’, the whole word being a name. This debars अण् ॥ Thus शारदका दर्भाः ‘the grass called Saradaka’. शारदका मुद्गाः ‘the pulse called Saradaka.’

Why do we say संज्ञायां ? Observe शारदं सस्यम् ‘the autumnal crop.’

According to some, the word संज्ञायां governs all the succeeding sutras up to (4.3.38).

Kashika

शरच्छब्दात् सप्तमीसमर्थाद् जात इत्येतस्मिन्नर्थे वुञ् प्रत्ययो भवति, ऋत्वणोऽपवादः, समुदायेन चेत् संज्ञा गम्यते। शारदका दर्भाः। शारदका मुद्गाः। दर्भविशेषस्य मुद्गविशेषस्य चेयं संज्ञा। संज्ञायामिति किम्? शारदं सस्यम्। संज्ञाधिकारं केचित् कृतलब्धक्रीतकुशलाः (४.३.३८) इति यावदनुवर्तयन्ति॥

Siddhanta Kaumudi

ऋत्वणोऽपवादः । शारदका दर्भविशेषा मुद्गविशेषाश्च ॥

Balamanorama

संज्ञायां शरदो वुञ् - संज्ञायां शरदो वुञ् । संज्ञायामित्येतदत्कृतलब्धक्रीते॑त्येतत्पर्यन्तमनुवर्तत इति केचिदिति वृत्तिकृतः ।

Tattvabodhini

संज्ञायां शरदो वुञ् - संज्ञायां शरदः । समुदायेन चेत्संज्ञा गम्यत इत्यर्थः । संज्ञायां किम् । शारदं सस्यम् ।संज्ञाया॑मित्येतत्कृतलब्धे॑त्येतत्पर्यन्तं केचिदनुवर्तयन्तीति वृत्तिकृत् ।

Padamanjari

समुदायेन चेदिति । प्रकृतिप्रत्ययसमुदायश्चेत्संज्ञा भवतीत्यर्थः । कृतलब्धक्रीतकुशला इति यावदिति । यावच्छब्दोऽवधिद्योतको निपातः ॥

Nyaas

समुदायेन चेत्संज्ञा गम्यते इति। अनेन समुदायोपाधित्वं संज्ञाया दर्शयति।प्रकृतिप्रत्ययसमुदायेन चेत्संज्ञा गम्यते इत्यर्थः। यद्येवम्, शारदका दर्भा इतिदर्भशब्दस्य प्रयोगो न प्राप्नोति, प्रत्ययान्तेनाभिहितत्वात्? नैष दोषः; यथैव हि शारदकशब्दो दर्भविशेषस्य नामधेयं तथा मुद्गविशेषस्यापि। तत्रासति दर्भशब्दप्रयोगेऽनेकार्थसाधारणत्वात् कस्य नामधेयमिति सन्देहः स्यात् - कोऽर्थः शारदकशब्दे विवक्षित इति। तस्मादसन्देहार्थो दर्भशब्दो उपादीयते। संज्ञाधिकारम् इत्यादि। केचित् इति वचनात् केचिन्नानृवर्तयन्तीत्युक्तं भवति॥पूर्वाह्णकः,अपराह्णकः इति। पूर्ववदेकदेशिसमासादिकं कार्यं विधेयम् - विभाषा पूर्वाह्णापराह्णाभ्याम् (4.3.24) इति, तत्र टउटउल्विधिश्च। आद्र्रकः, मूलकः इति। नक्षत्रेण युक्तः कालः (4.2.3) इत्यागतस्यार्थः लुबविशेषे (4.2.4) इति लुप् ततो वुन्। `निशाप्रदोषाभ्याम्िति। ठञ्विधेः। `ठञादय एव ` आदिशब्देन टउटउलादयो गृह्यन्ते॥

Prakriyasarvasvam

शरदि जाताः, शारदका नाम दर्भाः मुद्गाश्च । अनाम्नि, शारदो नीरदः ॥