43027: संज्ञायां शरदो वुञ् ========================== **Padacheda:** संज्ञायाम् | S | 7 | 1 | शरदः | S | 5 | 1 | वुञ् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix वुञ् comes after the word शरद in the Locative -7th case-affix in the sense of 'born therein', the whole word being a name. Vasu English Translation ------------------------ The affix वुञ् comes after the word शरद in the Locative -7th case-affix in the sense of 'born therein', the whole word being a name. This debars अण् ॥ Thus शारदका दर्भाः 'the grass called *Saradaka*'. शारदका मुद्गाः 'the pulse called *Saradaka*.' Why do we say संज्ञायां ? Observe शारदं सस्यम् 'the autumnal crop.' According to some, the word संज्ञायां governs all the succeeding *sutras* up to (4.3.38). Kashika ------- शरच्छब्दात् सप्तमीसमर्थाद् जात इत्येतस्मिन्नर्थे वुञ् प्रत्ययो भवति, ऋत्वणोऽपवादः, समुदायेन चेत् संज्ञा गम्यते। शारदका दर्भाः। शारदका मुद्गाः। दर्भविशेषस्य मुद्गविशेषस्य चेयं संज्ञा। संज्ञायामिति किम्? शारदं सस्यम्। संज्ञाधिकारं केचित् **कृतलब्धक्रीतकुशलाः** (४.३.३८) इति यावदनुवर्तयन्ति॥ Siddhanta Kaumudi ----------------- ऋत्वणोऽपवादः । शारदका दर्भविशेषा मुद्गविशेषाश्च ॥ Balamanorama ------------ **संज्ञायां शरदो वुञ्** - संज्ञायां शरदो वुञ् । संज्ञायामित्येतदत्कृतलब्धक्रीते॑त्येतत्पर्यन्तमनुवर्तत इति केचिदिति वृत्तिकृतः । Tattvabodhini ------------- **संज्ञायां शरदो वुञ्** - संज्ञायां शरदः । समुदायेन चेत्संज्ञा गम्यत इत्यर्थः । संज्ञायां किम् । शारदं सस्यम् ।संज्ञाया॑मित्येतत्कृतलब्धे॑त्येतत्पर्यन्तं केचिदनुवर्तयन्तीति वृत्तिकृत् । Padamanjari ----------- समुदायेन चेदिति । प्रकृतिप्रत्ययसमुदायश्चेत्संज्ञा भवतीत्यर्थः । कृतलब्धक्रीतकुशला इति यावदिति । यावच्छब्दोऽवधिद्योतको निपातः ॥ Nyaas ----- `समुदायेन चेत्संज्ञा गम्यते` इति। अनेन समुदायोपाधित्वं संज्ञाया दर्शयति।प्रकृतिप्रत्ययसमुदायेन चेत्संज्ञा गम्यते इत्यर्थः। यद्येवम्, शारदका दर्भा इतिदर्भशब्दस्य प्रयोगो न प्राप्नोति, प्रत्ययान्तेनाभिहितत्वात्? नैष दोषः; यथैव हि शारदकशब्दो दर्भविशेषस्य नामधेयं तथा मुद्गविशेषस्यापि। तत्रासति दर्भशब्दप्रयोगेऽनेकार्थसाधारणत्वात् कस्य नामधेयमिति सन्देहः स्यात् - कोऽर्थः शारदकशब्दे विवक्षित इति। तस्मादसन्देहार्थो दर्भशब्दो उपादीयते। `संज्ञाधिकारम्` इत्यादि। `केचित्` इति वचनात् केचिन्नानृवर्तयन्तीत्युक्तं भवति॥`पूर्वाह्णकः,अपराह्णकः` इति। पूर्ववदेकदेशिसमासादिकं कार्यं विधेयम् - **विभाषा पूर्वाह्णापराह्णाभ्याम्** (4.3.24) इति, तत्र टउटउल्विधिश्च। `आद्र्रकः, मूलकः` इति। **नक्षत्रेण युक्तः कालः** (4.2.3) इत्यागतस्यार्थः **लुबविशेषे** (4.2.4) इति लुप् ततो वुन्। `निशाप्रदोषाभ्याम्िति। ठञ्विधेः। `ठञादय एव ` आदिशब्देन टउटउलादयो गृह्यन्ते॥ Prakriyasarvasvam ----------------- शरदि जाताः, शारदका नाम दर्भाः मुद्गाश्च । अनाम्नि, शारदो नीरदः ॥