42139: प्राचां कटादेः¶
Padacheda: प्राचाम् | S | 6 | 3 |
कट-आदेः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix छ comes in the remaining senses after the words beginning with कद denoting the places of the East-folk.
Vasu English Translation¶
The affix छ comes in the remaining senses after the words beginning with कद denoting the places of the East-folk. The word देशे is understood here also. The word प्राक् of the sutra qualifies देशे ॥ This debars अण् ॥ Thus कटनगरीयम्, कटघोषीयम्, कटपल्वलीयम् ॥
Kashika¶
देश इत्येव, तद्विशेषणं प्राग्ग्रहणम्। प्राग्देशवाचिनः कटादेः प्रातिपदिकाच् छः प्रत्ययो भवति शैषिकः। अणोऽपवादः। कटनगरीयम्। कटघोषीयम्। कटपल्वलीयम्॥
Siddhanta Kaumudi¶
प्राद्गेशवाचिनः कटादेश्छः स्यात् । अणोऽपवादः । कटनगरीयम् । कटघोषीयम् । कटपल्वलीयम् ॥
Balamanorama¶
प्राचां कटादेः - प्राचां कटादेः । कटनगरीयमिति । कटनगरो नाम प्राच्यो देशः ।
Prakriyasarvasvam¶
कटादेः प्राग्देशशब्दाच्छः । कटसाल्वीयम् ।