42110: प्रस्थोत्तरपदपलद्यादिकोपधादण्

Padacheda: प्रस्थ-उत्तरपद-पलदी-आदि-क-उपधात् | S | 5 | 1 |

अण् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix अण् comes in the remaining senses after a word ending with प्रस्थ after the words पलदी etc. and after a word having a penultimate क , whether these words express villages of North folk or not.

Vasu English Translation

The affix अण् comes in the remaining senses after a word ending with प्रस्थ after the words पलदी etc. and after a word having a penultimate क , whether these words express villages of North folk or not. This debars the अञ् of the last aphorism. Thus माद्रीप्रस्थः, माहकीप्रस्थः, पालदः, पारिषदः, नैलिनकः, चैवातकः ॥

In the class Paladyadi, those words which denote villages of वाहीक, will not take ठञ् or ञिठ् affix of (4.2.117); but will take the affix अण् of this rule. Such as the words गोष्ठी and नैतकी ॥

The word गोमती that occurs in Paladi class, and consequently it does not take the affix वुञ् (4.2.123) which it would otherwise have taken by reason of its being a Vriddha word ending in long ई ॥

The word वाहीक has a penultimate क, but it is recited in Paladi class, showing that it does not take the affix छ of (4.2.114) though it is a Vriddha word.

The affix अण् is repeated in this sutra, (though its anuvritti comes from (4.1.83)), in order to exclude the application of any rule which might have debarred the general अण् ॥

1 पलदी, 2 परिषद, 3 रोमक, 4 वाहीक, 5 कलकीट (मलकीट) 6 बहुकीट (बाहुकीट) 7 जालकीट, 8 कमलकीट, 9 कमलकीकर, 10 कमलभिदा, 11 गौष्ठी, 12 नैकती (नैतकी), 13 परिखा, 14 शूरसेन, 15 गामती, 16 षटच्चर, 17 उदपान (उदयानि) 18 यकृल्लोम, 19 सकृल्लोमन् ॥

Kashika

प्रस्थोत्तरपदात् पलद्यादिभ्यः ककारोपधात् च प्रातिपदिकादण् प्रत्ययो भवति शैषिकः। उदीच्यग्रामलक्षणस्याञोऽपवादः। माद्रीप्रस्थः। माहकीप्रस्थः। पलद्यादिभ्यः — पालदः। पारिषदः। ककारोपधात् — नैलीनकः। चैयातकः। पलद्यादिषु यो वाहीकग्रामः, ततष्ठञ्ञिठयोः (४.२.११७) अपवादः। यथा — गौष्ठी, नैतकीति। गोमतीशब्दः पठ्यते, ततो **रोपधेतोः प्राचाम्**(४.२.१२३) इति वुञोऽपवादः। वाहीकशब्दः कोपधोऽपि पुनः पठ्यते परं छं (४.२.११४) बाधितुम्। अण्ग्रहणं बाधकबाधनार्थम्॥ पलदी। परिषत् यकृल्लोमन्। रोमक। कालकूट। पटच्चर। वाहीक। कलकीट। मलकीट। कमलकीट। कमलभिदा। गोष्ठी। कमलकीर। बाहुकीट। नैतकी। परिखा। शूरसेन। गोमती। उदयान। पलद्यादिः।

Siddhanta Kaumudi

माहिकिप्रस्थः । पालदः । नैलीनकः ॥

Balamanorama

प्रस्थोत्तरपदपलद्यादिकोपधादण् - प्रस्थोत्तरपद । प्रस्थोत्तरपदात्पलद्यादिभ्यः कोपधाच्च अणित्यर्थः । पलदिः-आदिर्येषामिति विग्रहः । उदीच्यग्रामलक्षणस्य अणोऽपवादः । माहिकिप्रस्थ इति । महिकिप्रस्थनाम्नि ग्रामे भव इत्यर्थः । पालद इति । पलदिनाम्नि ग्रामे भव इत्यर्थः । नैलीनक इति । निलीनकनाम्नि ग्रामे भव इत्यर्थः ।

Tattvabodhini

प्रस्थोत्तरपदपलद्यादिकोपधादण् - प्रस्थोत्तर । उदीच्यमग्रामलक्षणस्याऽञोऽपवादः । पालद इति ।पलदी॑ति ईकारान्त इत्येके । नान्त इत्यन्ये । नलोपे सति यणादेशात्संहिता तुल्यैव । वाहीकशब्दः कोपधोऽपि पलद्यादिषु पठते परं छं बाधितुम् । अन्यथा अणं बाधित्वापरत्वाच्छ एव स्यात्, कोपधप्रयुक्तोषऽण् अवृद्धे सावकाश इति । यकृल्लोम नि भवो याकृल्लमः ।अन्इति प्रकृतिभावस्तु न, गणेऽस्मिन्नलोपनिपातनादिति हरदत्तादयः ।

Padamanjari

उदीच्यग्रामलक्षणस्याञोऽपवाद इति । ततोऽन्यत्र व्रीहिप्रस्थ -गिरिप्रस्थ -करिकादावौत्सगिक एवाण्, कैलासप्रस्थ -काक -शाकादिषु वृद्धेषु’वृद्धाच्छः’ भवति, देशवाचिनि तु मालाप्रस्थादौ’प्रस्थपुरवहान्ताच्च’ इति वुञ्, इक्ष्वाकुप्रभृतिषु जनपदवुञोऽपवादः’कोपधादण्’ इत्यण्वक्ष्यते, अरीहणकादौ च’वृद्धादकेकान्त’ इति छाए भवति, तस्मादञोऽपवाद इति सुष्ठूअक्तम् । उतरपदग्रहणादिह न भवति - उतरोमाहकिप्रस्थ उतरमाहकिप्रस्थः, तत्र भ इति ।’प्रस्थान्तात्’ इति तूच्यमानेऽत्रापि स्यात् । अण्ग्रहणं बाधकबाधनार्थमिति । यद्यण्ग्रहणं न क्रियेत, तदा यदत्र वृद्धं वाहीकग्रामवाचि तस्मात्’प्राग्दीव्यतो’ ण्ऽ इत्यणि प्राप्ते’वृद्धाच्छः’ प्राप्तः, तस्मिन्ठ्वाहीकग्रासेभ्यश्चऽ इति ठञ्ञिठाभ्यां बाधिते पुनर्विधानाच्छ एव स्यात् । तस्माद्वाधकमपि तं छ्ंअ बाधित्वा अण्ग्रहणादणेव भवति । यकृल्लोमशब्दः पठ।ल्ते, यकृल्लोम्नि भः याकृल्लोमः, ठन्ऽ इति प्रकृतिभावो न भवति, गणे नलोपनिपातनादित्याहुः ॥

Nyaas

उदीच्यग्रामलक्षणस्याञोऽपवादः इति। प्रस्थोत्तरपदादीनामुदीच्यग्रानत्वात्। माद्रीप्रस्थः, माहकीप्रस्थः इति। अत्र प्रकृतिः समासस्वरेणान्तोदात्ता। अथोत्तरपदग्रहणं किमर्थम्, न प्रस्थान्तादित्येवोच्येत? नैवं शक्यम्; तदिहापि प्रसज्येत -उत्तमकर्णीप्रस्थः। तत्राप्युत्तरपदग्रहणान्न भवति। न ह्यत्र प्रस्थशब्द उत्तरपदम्, किं तर्हि? कर्णीप्रस्थशब्दः। ततष्ठञ्ञिठयोरपवादः`इति **वाहीकग्रामेभ्यश्च** (4.2.117) इति प्राप्तयोः। अथ वाहीकशब्दः किमर्तमिह पठते, यावता कोपधत्वादेवाण् सिद्धः? अत्राह - `वाहीकशब्दः इत्यादि। यदि वाहीकशब्द इह न पठते, परत्वात् वृद्धाच्छः (4.2.114) इति च्छः स्यात्। कोपधस्य तु निलीक इत्यत्रावृद्धमवकाशः। तस्मात्परमपि च्छं बाधित्वाऽण् यथा स्यादिति कोपधोऽपि वाहीकशब्दः पठते।अथाण्ग्रहणं किमर्थम्, न यावता यथाविहितमेवोच्येत?न; पुनर्विधानादणेव भवतीति विज्ञायते। अपवादस्य विधाने पुनर्विधानमनर्थकमित्याह -अजग्रहमम् इत्यादि। यदत्र वृद्धं वाहीकग्रामः,तस्मात् प्राग्दीव्यतोऽण् (4.1.83) इत्यतोऽणि प्राप्ते वृद्धाच्छः (4.2.114) प्राप्नोति, तस्मिन् वाहीकग्रामेभ्यश्च (4.2.117) इति ठञ्ञिठौ, तौ परत्वात् बाधित्वा यद्यत्राण्ग्रहणं न क्रियेत तदा पुनर्विधानाच्छ एव स्यात्। अण्ग्रहणादेव भवति - गोष्ठआं भवं गौषठम् इति। तस्मात् बाधकमपि बाधित्वाऽणेव यथा स्यादित्येवमर्थमण्ग्रहणम्। कोपधग्रहणमिहाजनपदार्थम्। जनपदतदवधि` (4.2.123) कोपधादण् (4.2.132) इत्यनेन सिद्धः। यकृल्लोमशब्दः पलद्यादिषु पठते, तस्य नलोप निपात्यते,अन्यथा अन् (6.4.167) इति प्रकृतिभावे सति यकृल्लोम्नि भवः याकृल्लोम इति न सिध्येत्॥

Prakriyasarvasvam

प्रस्थोत्तरपदात् पलद्यादेः कोपधाच्च पूर्वेणाञि प्राप्तेऽण् स्यात् । माहकी- प्रस्थः । पाल्दः । कोपधात् नैलीनकः ॥

Sutra Prayogas

  • प्राज्य (भट्टिकाव्यम्): द्युप्राक् इति यत्।